भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 07.14

07.14.001

भ्प्_07.14.001।0 श्रीयुधिष्ठिर उवाच
गृहस्थ एतां पदवीं विधिना येन चाञ्जसा ।
यायाद्देवऋषे ब्रूहि मादृशो गृहमूढधीः

07.14.002

भ्प्_07.14.002।0 श्रीनारद उवाच
गृहेष्ववस्थितो राजन् क्रियाः कुर्वन् यथोचिताः ।
वासुदेवार्पणं साक्षादुपासीत महामुनीन्

07.14.003

शृण्वन् भगवतो ऽभीक्ष्णमवतारकथामृतम् ।
श्रद्दधानो यथाकालमुपशान्तजनावृतः

07.14.004

सत्सङ्गाच् छनकैः सङ्गमात्मजायात्मजादिषु ।
विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवदुत्थितः

07.14.005

यावदर्थमुपासीनो देहे गेहे च पण्डितः ।
विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत्

07.14.006

ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदो ऽपरे ।
यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः

07.14.007

दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम् ।
तत् सर्वमुपयुञ्जान एतत् कुर्यात् स्वतो बुधः

07.14.008

यावद्भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् ।
अधिकं यो ऽभिमन्येत स स्तेनो दण्डमर्हति

07.14.009

मृगोष्ट्रखरमर्काखु सरीसृप् खगमक्षिकाः ।
आत्मनः पुत्रवत् पश्येत् तैरेषामन्तरं कियत्

07.14.010

त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि ।
यथादेशं यथाकालं यावद्दैवोपपादितम्

07.14.011

आश्वाघान्ते ऽवसायिभ्यः कामान् संविभजेद्यथा ।
अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः

07.14.012

जह्याद्यदर्थे स्वान् प्राणान् हन्याद्वा पितरं गुरुम् ।
तस्यां स्वत्वं स्त्रियां जह्याद्यस्तेन ह्यजितो जितः

07.14.013

कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् ।
क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः

07.14.014

सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद्वृत्तिमात्मनः ।
शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात्

07.14.015

देवान् ऋषीन् नृभूतानि पितॄन् आत्मानमन्वहम् ।
स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक्

07.14.016

यर्ह्यात्मनो ऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः ।
वैतानिकेन विधिना अग्निहोत्रादिना यजेत्

07.14.017

न ह्यग्निमुखतो ऽयं वै भगवान् सर्वयज्ञभुक् ।
इज्येत हविषा राजन् यथा विप्रमुखे हुतैः

07.14.018

तस्माद्ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः ।
तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणान् अनु

07.14.019

कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः ।
श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान्

07.14.020

अयने विषुवे कुर्याद्व्यतीपाते दिनक्षये ।
चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च

07.14.021

तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।
चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा

07.14.022

माघे च सितसप्तम्यां मघाराकासमागमे ।
राकया चानुमत्या च मासर्क्षाणि युतान्यपि

07.14.023

द्वादश्यामनुराधा स्याच् छ्रवणस्तिस्र उत्तराः ।
तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगयुक्

07.14.024

त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः ।
कुर्यात् सर्वात्मनैतेषु श्रेयो ऽमोघं तदायुषः

07.14.025

एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् ।
पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम्

07.14.026

संस्कारकालो जायाया अपत्यस्यात्मनस्तथा ।
प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप

07.14.027

अथ देशान् प्रवक्ष्यामि धर्मादिश्रेयाअवहान् ।
स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते

07.14.028

बिम्बं भगवतो यत्र सर्वमेतच् चराचरम् ।
यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम्

07.14.029

यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् ।
यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः

07.14.030

सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत ।
कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः

07.14.031

नैमिषं फाल्गुनं सेतुः प्रभासो ऽथ कुशस्थली ।
वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा

07.14.032

नारायणाश्रमो नन्दा सीतारामाश्रमादयः ।
सर्वे कुलाचला राजन् महेन्द्रमलयादयः

07.14.033

एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये ।
एतान् देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः ।
धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः

07.14.034

पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः ।
हरिरेवैक उर्वीश यन्मयं वै चराचरम्

07.14.035

देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।
राजन् यदग्रपूजायां मतः पात्रतयाच्युतः

07.14.036

जीवराशिभिराकीर्ण अण्डकोशाङ्घ्रिपो महान् ।
तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम्

07.14.037

पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः ।
शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ

07.14.038

तेष्वेव भगवान् राजंस्तारतम्येन वर्तते ।
तस्मात् पात्रं हि पुरुषो यावान् आत्मा यथेयते

07.14.039

दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप ।
त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता

07.14.040

ततो ऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया ।
उपासत उपास्तापि नार्थदा पुरुषद्विषाम्

07.14.041

पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।
तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम्

07.14.042

नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः ।
पुनन्तः पादरजसा त्रिलोकीं दैवतं महत्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc