भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 07.13

07.13.001

भ्प्_07.13.001।0 श्रीनारद उवाच
कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः ।
ग्रामैकरात्रविधिना निरपेक्षश्चरेन् महीम्

07.13.002

बिभृयाद्यद्यसौ वासः कौपीनाच्छादनं परम् ।
त्यक्तं न लिङ्गाद्दण्डादेरन्यत् किञ्चिदनापदि

07.13.003

एक एव चरेद्भिक्षुरात्मारामो ऽनपाश्रयः ।
सर्वभूतसुहृच्छान्तो नारायणपरायणः

07.13.004

पश्येदात्मन्यदो विश्वं परे सदसतो ऽव्यये ।
आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये

07.13.005

सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक् ।
पश्यन् बन्धं च मोक्षं च मायामात्रं न वस्तुतः

07.13.006

नाभिनन्देद्ध्रुवं मृत्युमध्रुवं वास्य जीवितम् ।
कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम्

07.13.007

नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् ।
वादवादांस्त्यजेत् तर्कान् पक्षं कंच न संश्रयेत्

07.13.008

न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद्बहून् ।
न व्याख्यामुपयुञ्जीत नारम्भान् आरभेत् क्वचित्

07.13.009

न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः ।
शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत्

07.13.010

अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत् ।
कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन् नृणाम्

07.13.011

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्रादस्य च संवादं मुनेराजगरस्य च

07.13.012

तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि ।
रजस्वलैस्तनूदेशैर्निगूढामलतेजसम्

07.13.013

ददर्श लोकान् विचरन् लोकतत्त्वविवित्सया ।
वृतो ऽमात्यैः कतिपयैः प्रह्रादो भगवत्प्रियः

07.13.014

कर्मणाकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः ।
न विदन्ति जना यं वै सो ऽसाविति न वेति च

07.13.015

तं नत्वाभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन् ।
विवित्सुरिदमप्राक्षीन् महाभागवतो ऽसुरः

07.13.016

बिभर्षि कायं पीवानं सोद्यमो भोगवान् यथा ।
वित्तं चैवोद्यमवतां भोगो वित्तवतामिह ।
भोगिनां खलु देहो ऽयं पीवा भवति नान्यथा

07.13.017

न ते शयानस्य निरुद्यमस्य ब्रह्मन् नु हार्थो यत एव भोगः ।
अभोगिनो ऽयं तव विप्र देहः पीवा यतस्तद्वद नः क्षमं चेत्

07.13.018

कविः कल्पो निपुणदृक् चित्रप्रियकथः समः ।
लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा

07.13.019

भ्प्_07.13.019।0 श्रीनारद उवाच
स इत्थं दैत्यपतिना परिपृष्टो महामुनिः ।
स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः

07.13.020

भ्प्_07.13.020।0 श्रीब्राह्मण उवाच
वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मतः ।
ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा

07.13.021

यस्य नारायणो देवो भगवान् हृद्गतः सदा ।
भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत्

07.13.022

तथापि ब्रूमहे प्रश्नांस्तव राजन् यथाश्रुतम् ।
सम्भाषणीयो हि भवान् आत्मनः शुद्धिमिच्छता

07.13.023

तृष्णया भववाहिन्या योग्यैः कामैरपूर्यया ।
कर्माणि कार्यमाणो ऽहं नानायोनिषु योजितः

07.13.024

यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् ।
स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च

07.13.025

तत्रापि दम्पतीनां च सुखायान्यापनुत्तये ।
कर्माणि कुर्वतां दृष्ट्वा निवृत्तो ऽस्मि विपर्ययम्

07.13.026

सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः ।
मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन्

07.13.027

इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् ।
विचित्रामसति द्वैते घोरामाप्नोति संसृतिम्

07.13.028

जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया ।
मृगतृष्णामुपाधावेत् तथान्यत्रार्थदृक् स्वतः

07.13.029

देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः ।
दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः

07.13.030

आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् ।
मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम्

07.13.031

पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् ।
भयादलब्धनिद्राणां सर्वतो ऽभिविशङ्किनाम्

07.13.032

राजतश्चौरतः शत्रोः स्वजनात् पशुपक्षितः ।
अर्थिभ्यः कालतः स्वस्मान् नित्यं प्राणार्थवद्भयम्

07.13.033

शोकमोहभयक्रोध रागक्लैब्यश्रमादयः ।
यन्मूलाः स्युर्नृणां जह्यात् स्पृहां प्राणार्थयोर्बुधः

07.13.034

मधुकारमहासर्पौ लोके ऽस्मिन् नो गुरूत्तमौ ।
वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम्

07.13.035

विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् ।
कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत् पतिम्

07.13.036

अनीहः परितुष्टात्मा यदृच्छोपनतादहम् ।
नो चेच् छये बह्वहानि महाहिरिव सत्त्ववान्

07.13.037

क्वचिदल्पं क्वचिद्भूरि भुञ्जे ऽन्नं स्वाद्वस्वादु वा ।
क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित्

07.13.038

श्रद्धयोपहृतं क्वापि कदाचिन् मानवर्जितम् ।
भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया

07.13.039

क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा ।
वसे ऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम्

07.13.040

क्वचिच् छये धरोपस्थे तृणपर्णाश्मभस्मसु ।
क्वचित् प्रासादपर्यङ्के कशिपौ वा परेच्छया

07.13.041

क्वचित् स्नातो ऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलङ्कृतः ।
रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद्विभो

07.13.042

नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् ।
एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि

07.13.043

विकल्पं जुहुयाच् चित्तौ तां मनस्यर्थविभ्रमे ।
मनो वैकारिके हुत्वा तं मायायां जुहोत्यनु

07.13.044

आत्मानुभूतौ तां मायां जुहुयात् सत्यदृङ् मुनिः ।
ततो निरीहो विरमेत् स्वानुभूत्यात्मनि स्थितः

07.13.045

स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् ।
व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्परः

07.13.046

भ्प्_07.13.046।0 श्रीनारद उवाच
धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः ।
पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc