भागवत पुराण · अध्याय 07.08
भ्प्_07.08.001।0 श्रीनारद उवाच
अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् ।
जगृहुर्निरवद्यत्वान् नैव गुर्वनुशिक्षितम्
अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् ।
आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा
श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् ।
कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे
क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम् ।
आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा
प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् ।
सर्पः पदाहत इव श्वसन् प्रकृतिदारुणः
भ्प्_07.08.006।0 श्रीहिरण्यकशिपुरुवाच
हे दुर्विनीत मन्दात्मन् कुलभेदकराधम ।
स्तब्धं मच्छासनोद्वृत्तं नेष्ये त्वाद्य यमक्षयम्
क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः ।
तस्य मे ऽभीतवन् मूढ शासनं किं बलो ऽत्यगाः
भ्प्_07.08.008।0 श्रीप्रह्राद उवाच
न केवलं मे भवतश्च राजन् स वै बलं बलिनां चापरेषाम् ।
परे ऽवरे ऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः
स ईश्वरः काल उरुक्रमो ऽसाव् ओजः सहः सत्त्वबलेन्द्रियात्मा ।
स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः
जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः ।
ऋते ऽजितादात्मन उत्पथे स्थितात् तद्धि ह्यनन्तस्य महत् समर्हणम्
दस्यून् पुरा षण् न विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश ।
जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे
भ्प्_07.08.012।0 श्रीहिरण्यकशिपुरुवाच
व्यक्तं त्वं मर्तुकामो ऽसि यो ऽतिमात्रं विकत्थसे ।
मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विक्लवा गिरः
यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः ।
क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते
सो ऽहं विकत्थमानस्य शिरः कायाद्धरामि ते ।
गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम्
एवं दुरुक्तैर्मुहुरर्दयन् रुषा सुतं महाभागवतं महासुरः ।
खड्गं प्रगृह्योत्पतितो वरासनात् स्तम्भं तताडातिबलः स्वमुष्टिना
तदैव तस्मिन् निनदो ऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् ।
यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामात्ययमङ्ग मेनिरे
स विक्रमन् पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम् ।
अन्तःसभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः
सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः ।
अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम्
स सत्त्वमेनं परितो विपश्यन् स्तम्भस्य मध्यादनुनिर्जिहानम् ।
नायं मृगो नापि नरो विचित्रम् अहो किमेतन् नृमृगेन्द्ररूपम्
मीमांसमानस्य समुत्थितो ऽग्रतो नृसिंहरूपस्तदलं भयानकम् ।
प्रतप्तचामीकरचण्डलोचनं स्फुरत् सटाकेशरजृम्भिताननम्
करालदंष्ट्रं करवालचञ्चल क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् ।
स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत व्यात्तास्यनासं हनुभेदभीषणम्
दिविस्पृशत् कायमदीर्घपीवर ग्रीवोरुवक्षःस्थलमल्पमध्यमम् ।
चन्द्रांशुगौरैश्छुरितं तनूरुहैर् विष्वग् भुजानीकशतं नखायुधम्
दुरासदं सर्वनिजेतरायुध प्रवेकविद्रावितदैत्यदानवम् ।
प्रायेण मे ऽयं हरिणोरुमायिना वधः स्मृतो ऽनेन समुद्यतेन किम्
एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन् नृसिंहं प्रति दैत्यकुञ्जरः ।
अलक्षितो ऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सो ऽसुरस्तदा
न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुरापिबत् तमः ।
ततो ऽभिपद्याभ्यहनन् महासुरो रुषा नृसिंहं गदयोरुवेगया
तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत् ।
स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः
असाध्वमन्यन्त हृतौकसो ऽमरा घनच्छदा भारत सर्वधिष्ण्यपाः ।
तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः ।
पुनस्तमासज्जत खड्गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे
तं श्येनवेगं शतचन्द्रवर्त्मभिश् चरन्तमच्छिद्रमुपर्यधो हरिः ।
कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः
विष्वक् स्फुरन्तं ग्रहणातुरं हरिर् व्यालो यथाखुं कुलिशाक्षतत्वचम् ।
द्वार्यूरुमापत्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम्
संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन् स्वजिह्वया ।
असृग्लवाक्तारुणकेशराननो यथान्त्रमाली द्विपहत्यया हरिः
नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरान् उदायुधान् ।
अहन् समस्तान् नखशस्त्रपाणिभिर् दोर्दण्डयूथो ऽनुपथान् सहस्रशः
सटावधूता जलदाः परापतन् ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः ।
अम्भोधयः श्वासहता विचुक्षुभुर् निर्ह्रादभीता दिगिभा विचुक्रुशुः
द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता ।
शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे
ततः सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् ।
अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन
निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे ।
प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः
तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम् ।
सुरानका दुन्दुभयो ऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः
तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः ।
ऋषयः पितरः सिद्धा विद्याधरमहोरगाः
मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः ।
यक्षाः किम्पुरुषास्तात वेतालाः सहकिन्नराः
ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः ।
मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् ।
ईडिरे नरशार्दुलं नातिदूरचराः पृथक्
भ्प्_07.08.040।0 श्रीब्रह्मोवाच
नतो ऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे ।
विश्वस्य सर्गस्थितिसंयमान् गुणैः स्वलीलया सन्दधते ऽव्ययात्मने
भ्प्_07.08.041।0 श्रीरुद्र उवाच
कोपकालो युगान्तस्ते हतो ऽयमसुरो ऽल्पकः ।
तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल
भ्प्_07.08.042।0 श्रीइन्द्र उवाच
प्रत्यानीताः परम भवता त्रायता नः स्वभागा $ दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि &
प्रत्यानीताः परम भवता त्रायता नः स्वभागा $ दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि &
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते % मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ भ्प्_07.08.042*
0 श्रीऋषय ऊचुः
त्वं नस्तपः परममात्थ यदात्मतेजो $ येनेदमादिपुरुषात्मगतं ससर्क्थ &
त्वं नस्तपः परममात्थ यदात्मतेजो $ येनेदमादिपुरुषात्मगतं ससर्क्थ &
तद्विप्रलुप्तममुनाद्य शरण्यपाल % रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ भ्प्_07.08.043*
0 श्रीपितर ऊचुः
श्राद्धानि नो ऽधिबुभुजे प्रसभं तनूजैर् $ दत्तानि तीर्थसमये ऽप्यपिबत् तिलाम्बु &
श्राद्धानि नो ऽधिबुभुजे प्रसभं तनूजैर् $ दत्तानि तीर्थसमये ऽप्यपिबत् तिलाम्बु &
तस्योदरान् नखविदीर्णवपाद्य आर्च्छत् % तस्मै नमो नृहरये ऽखिलधर्मगोप्त्रे ॥ भ्प्_07.08.044*
0 श्रीसिद्धा ऊचुः
यो नो गतिं योगसिद्धामसाधुर् अहार्षीद्योगतपोबलेन ।
नाना दर्पं तं नखैर्विददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह
भ्प्_07.08.046।0 श्रीविद्याधरा ऊचुः
विद्यां पृथग् धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः ।
स येन सङ्ख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम्
भ्प्_07.08.047।0 श्रीनागा ऊचुः
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः ।
तद्वक्षःपाटनेनासां दत्तानन्द नमो ऽस्तु ते
भ्प्_07.08.048।0 श्रीमनव ऊचुः
मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः ।
भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान्
भ्प्_07.08.049।0 श्रीप्रजापतय ऊचुः
प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः ।
स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्ते ऽवतारः
भ्प्_07.08.050।0 श्रीगन्धर्वा ऊचुः
वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः ।
स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते
भ्प्_07.08.051।0 श्रीचारणा ऊचुः
हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः ।
यदेष साधुहृच्छयस्त्वयासुरः समापितः
भ्प्_07.08.052।0 श्रीयक्षा ऊचुः
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस् $ त इह दितिसुतेन प्रापिता वाहकत्वम् &
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस् $ त इह दितिसुतेन प्रापिता वाहकत्वम् &
स तु जनपरितापं तत्कृतं जानता ते % नरहर उपनीतः पञ्चतां पञ्चविंश ॥ भ्प्_07.08.052*
0 श्रीकिम्पुरुषा ऊचुः
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः ।
अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा
भ्प्_07.08.054।0 श्रीवैतालिका ऊचुः
सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे ।
यस्तामनैषीद्वशमेष दुर्जनो द्विष्ट्या हतस्ते भगवन् यथामयः
भ्प्_07.08.055।0 श्रीकिन्नरा ऊचुः
वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः ।
भवता हरे स वृजिनो ऽवसादितो नरसिंह नाथ विभवाय नो भव
भ्प्_07.08.056।0 श्रीविष्णुपार्षदा ऊचुः
अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म ।
सो ऽयं ते विधिकर ईश विप्रशप्तस् तस्येदं निधनमनुग्रहाय विद्मः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0