भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 07.07

07.07.001

भ्प्_07.07.001।0 श्रीनारद उवाच
एवं दैत्यसुतैः पृष्टो महाभागवतो ऽसुरः ।
उवाच तान् स्मयमानः स्मरन् मदनुभाषितम्

07.07.002

भ्प्_07.07.002।0 श्रीप्रह्राद उवाच
पितरि प्रस्थिते ऽस्माकं तपसे मन्दराचलम् ।
युद्धोद्यमं परं चक्रुर्विबुधा दानवान् प्रति

07.07.003

पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः ।
पापेन पापो ऽभक्षीति वदन्तो वासवादयः

07.07.004

तेषामतिबलोद्योगं निशम्यासुरयूथपाः ।
वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम्

07.07.005

कलत्रपुत्रवित्ताप्तान् गृहान् पशुपरिच्छदान् ।
नावेक्ष्यमाणास्त्वरिताः सर्वे प्राणपरीप्सवः

07.07.006

व्यलुम्पन् राजशिबिरममरा जयकाङ्क्षिणः ।
इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत्

07.07.007

नीयमानां भयोद्विग्नां रुदतीं कुररीमिव ।
यदृच्छयागतस्तत्र देवर्षिर्ददृशे पथि

07.07.008

प्राह नैनां सुरपते नेतुमर्हस्यनागसम् ।
मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम्

07.07.009

भ्प्_07.07.009।0 श्रीइन्द्र उवाच
आस्ते ऽस्या जठरे वीर्यमविषह्यं सुरद्विषः ।
आस्यतां यावत् प्रसवं मोक्ष्ये ऽर्थपदवीं गतः

07.07.010

भ्प्_07.07.010।0 श्रीनारद उवाच
अयं निष्किल्बिषः साक्षान् महाभागवतो महान् ।
त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली

07.07.011

इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन् वचः ।
अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ

07.07.012

ततो मे मातरमृषिः समानीय निजाश्रमे ।
आश्वास्येहोष्यतां वत्से यावत् ते भर्तुरागमः

07.07.013

तथेत्यवात्सीद्देवर्षेरन्तिके साकुतोभया ।
यावद्दैत्यपतिर्घोरात् तपसो न न्यवर्तत

07.07.014

ऋषिं पर्यचरत् तत्र भक्त्या परमया सती ।
अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये

07.07.015

ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः ।
धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम्

07.07.016

तत् तु कालस्य दीर्घत्वात् स्त्रीत्वान् मातुस्तिरोदधे ।
ऋषिणानुगृहीतं मां नाधुनाप्यजहात् स्मृतिः

07.07.017

भवतामपि भूयान् मे यदि श्रद्दधते वचः ।
वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा

07.07.018

जन्माद्याः षड् इमे भावा दृष्टा देहस्य नात्मनः ।
फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना

07.07.019

आत्मा नित्यो ऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः ।
अविक्रियः स्वदृग् हेतुर्व्यापको ऽसङ्ग्यनावृतः

07.07.020

एतैर्द्वादशभिर्विद्वान् आत्मनो लक्षणैः परैः ।
अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत्

07.07.021

स्वर्णं यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् ।
क्षेत्रेषु देहेषु तथात्मयोगैर् अध्यात्मविद्ब्रह्मगतिं लभेत

07.07.022

अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः ।
विकाराः षोडशाचार्यैः पुमान् एकः समन्वयात्

07.07.023

देहस्तु सर्वसङ्घातो जगत् तस्थुरिति द्विधा ।
अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत् त्यजन्

07.07.024

अन्वयव्यतिरेकेण विवेकेनोशतात्मना ।
स्वर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः

07.07.025

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः ।
ता येनैवानुभूयन्ते सो ऽध्यक्षः पुरुषः परः

07.07.026

एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः ।
स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात्

07.07.027

एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः ।
अज्ञानमूलो ऽपार्थो ऽपि पुंसः स्वप्न इवार्प्यते

07.07.028

तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम् ।
बीजनिर्हरणं योगः प्रवाहोपरमो धियः

07.07.029

तत्रोपायसहस्राणामयं भगवतोदितः ।
यदीश्वरे भगवति यथा यैरञ्जसा रतिः

07.07.030

गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च ।
सङ्गेन साधुभक्तानामीश्वराराधनेन च

07.07.031

श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् ।
तत्पादाम्बुरुहध्यानात् तल्लिङ्गेक्षार्हणादिभिः

07.07.032

हरिः सर्वेषु भूतेषु भगवान् आस्त ईश्वरः ।
इति भूतानि मनसा कामैस्तैः साधु मानयेत्

07.07.033

एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे ।
वासुदेवे भगवति यया संलभ्यते रतिः

07.07.034

निशम्य कर्माणि गुणान् अतुल्यान् वीर्याणि लीलातनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति

07.07.035

यदा ग्रहग्रस्त इव क्वचिद्धसत्य् आक्रन्दते ध्यायति वन्दते जनम् ।
मुहुः श्वसन् वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः

07.07.036

तदा पुमान् मुक्तसमस्तबन्धनस् तद्भावभावानुकृताशयाकृतिः ।
निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम्

07.07.037

अधोक्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् ।
तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास् ततो भजध्वं हृदये हृदीश्वरम्

07.07.038

को ऽतिप्रयासो ऽसुरबालका हरेर् उपासने स्वे हृदि छिद्रवत् सतः ।
स्वस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः

07.07.039

रायः कलत्रं पशवः सुतादयो गृहा मही कुञ्जरकोशभूतयः ।
सर्वे ऽर्थकामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत् प्रियं चलाः

07.07.040

एवं हि लोकाः क्रतुभिः कृता अमी क्षयिष्णवः सातिशया न निर्मलाः ।
तस्माददृष्टश्रुतदूषणं परं भक्त्योक्तयेशं भजतात्मलब्धये

07.07.041

यदर्थ इह कर्माणि विद्वन्मान्यसकृन् नरः ।
करोत्यतो विपर्यासममोघं विन्दते फलम्

07.07.042

सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः ।
सदाप्नोतीहया दुःखमनीहायाः सुखावृतः

07.07.043

कामान् कामयते काम्यैर्यदर्थमिह पूरुषः ।
स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च

07.07.044

किमु व्यवहितापत्य दारागारधनादयः ।
राज्यकोशगजामात्य भृत्याप्ता ममतास्पदाः

07.07.045

किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः ।
अनर्थैरर्थसङ्काशैर्नित्यानन्दरसोदधेः

07.07.046

निरूप्यतामिह स्वार्थः कियान् देहभृतो ऽसुराः ।
निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः

07.07.047

कर्माण्यारभते देही देहेनात्मानुवर्तिना ।
कर्मभिस्तनुते देहमुभयं त्वविवेकतः

07.07.048

तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः ।
भजतानीहयात्मानमनीहं हरिमीश्वरम्

07.07.049

सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः ।
भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः

07.07.050

देवो ऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा ।
भजन् मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वयम्

07.07.051

नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः ।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता

07.07.052

न दानं न तपो नेज्या न शौचं न व्रतानि च ।
प्रीयते ऽमलया भक्त्या हरिरन्यद्विडम्बनम्

07.07.053

ततो हरौ भगवति भक्तिं कुरुत दानवाः ।
आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे

07.07.054

दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः ।
खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः

07.07.055

एतावान् एव लोके ऽस्मिन् पुंसः स्वार्थः परः स्मृतः ।
एकान्तभक्तिर्गोविन्दे यत् सर्वत्र तदीक्षणम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc