भागवत पुराण · अध्याय 07.09
भ्प्_07.09.001।0 श्रीनारद उवाच
एवं सुरादयः सर्वे ब्रह्मरुद्रपुरः सराः ।
नोपैतुमशकन् मन्यु संरम्भं सुदुरासदम्
साक्षात् श्रीः प्रेषिता देवैर्दृष्ट्वा तं महदद्भुतम् ।
अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता
प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके ।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम्
तथेति शनकै राजन् महाभागवतो ऽर्भकः ।
उपेत्य भुवि कायेन ननाम विधृताञ्जलिः
स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः ।
उत्थाप्य तच्छीर्ष्ण्यदधात् कराम्बुजं कालाहिवित्रस्तधियां कृताभयम्
स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः ।
तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः
अस्तौषीद्धरिमेकाग्र मनसा सुसमाहितः ।
प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः
भ्प्_07.09.008।0 श्रीप्रह्राद उवाच
ब्रह्मादयः सुरगणा मुनयो ऽथ सिद्धाः $ सत्त्वैकतानगतयो वचसां प्रवाहैः &
ब्रह्मादयः सुरगणा मुनयो ऽथ सिद्धाः $ सत्त्वैकतानगतयो वचसां प्रवाहैः &
नाराधितुं पुरुगुणैरधुनापि पिप्रुः % किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥ भ्प्_07.09.008* ॥
मन्ये धनाभिजनरूपतपःश्रुतौजस् $ तेजःप्रभावबलपौरुषबुद्धियोगाः &
मन्ये धनाभिजनरूपतपःश्रुतौजस् $ तेजःप्रभावबलपौरुषबुद्धियोगाः &
नाराधनाय हि भवन्ति परस्य पुंसो % भक्त्या तुतोष भगवान् गजयूथपाय ॥ भ्प्_07.09.009* ॥
विप्राद्द्विषड्गुणयुतादरविन्दनाभ $ पादारविन्दविमुखात् श्वपचं वरिष्ठम् &
विप्राद्द्विषड्गुणयुतादरविन्दनाभ $ पादारविन्दविमुखात् श्वपचं वरिष्ठम् &
मन्ये तदर्पितमनोवचनेहितार्थ % प्राणं पुनाति स कुलं न तु भूरिमानः ॥ भ्प्_07.09.010* ॥
नैवात्मनः प्रभुरयं निजलाभपूर्णो $ मानं जनादविदुषः करुणो वृणीते &
नैवात्मनः प्रभुरयं निजलाभपूर्णो $ मानं जनादविदुषः करुणो वृणीते &
यद्यज् जनो भगवते विदधीत मानं % तच् चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ भ्प्_07.09.011* ॥
तस्मादहं विगतविक्लव ईश्वरस्य $ सर्वात्मना महि गृणामि यथा मनीषम् &
तस्मादहं विगतविक्लव ईश्वरस्य $ सर्वात्मना महि गृणामि यथा मनीषम् &
नीचो ऽजया गुणविसर्गमनुप्रविष्टः % पूयेत येन हि पुमान् अनुवर्णितेन ॥ भ्प्_07.09.012* ॥
सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो $ ब्रह्मादयो वयमिवेश न चोद्विजन्तः &
सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो $ ब्रह्मादयो वयमिवेश न चोद्विजन्तः &
क्षेमाय भूतय उतात्मसुखाय चास्य % विक्रीडितं भगवतो रुचिरावतारैः ॥ भ्प्_07.09.013* ॥
तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य $ मोदेत साधुरपि वृश्चिकसर्पहत्या &
तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य $ मोदेत साधुरपि वृश्चिकसर्पहत्या &
लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे % रूपं नृसिंह विभयाय जनाः स्मरन्ति ॥ भ्प्_07.09.014* ॥
नाहं बिभेम्यजित ते ऽतिभयानकास्य $ जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् &
नाहं बिभेम्यजित ते ऽतिभयानकास्य $ जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् &
आन्त्रस्रजःक्षतजकेशरशङ्कुकर्णान् % निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥ भ्प्_07.09.015* ॥
त्रस्तो ऽस्म्यहं कृपणवत्सल दुःसहोग्र $ संसारचक्रकदनाद्ग्रसतां प्रणीतः &
त्रस्तो ऽस्म्यहं कृपणवत्सल दुःसहोग्र $ संसारचक्रकदनाद्ग्रसतां प्रणीतः &
बद्धः स्वकर्मभिरुशत्तम ते ऽङ्घ्रिमूलं % प्रीतो ऽपवर्गशरणं ह्वयसे कदा नु ॥ भ्प्_07.09.016* ॥
यस्मात् प्रियाप्रियवियोगसंयोगजन्म $ शोकाग्निना सकलयोनिषु दह्यमानः &
यस्मात् प्रियाप्रियवियोगसंयोगजन्म $ शोकाग्निना सकलयोनिषु दह्यमानः &
दुःखौषधं तदपि दुःखमतद्धियाहं % भूमन् भ्रमामि वद मे तव दास्ययोगम् ॥ भ्प्_07.09.017* ॥
सो ऽहं प्रियस्य सुहृदः परदेवताया $ लीलाकथास्तव नृसिंह विरिञ्चगीताः &
सो ऽहं प्रियस्य सुहृदः परदेवताया $ लीलाकथास्तव नृसिंह विरिञ्चगीताः &
अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो % दुर्गाणि ते पदयुगालयहंससङ्गः ॥ भ्प्_07.09.018* ॥
बालस्य नेह शरणं पितरौ नृसिंह $ नार्तस्य चागदमुदन्वति मज्जतो नौः &
बालस्य नेह शरणं पितरौ नृसिंह $ नार्तस्य चागदमुदन्वति मज्जतो नौः &
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टस् % तावद्विभो तनुभृतां त्वदुपेक्षितानाम् ॥ भ्प्_07.09.019* ॥
यस्मिन् यतो यर्हि येन च यस्य यस्माद् $ यस्मै यथा यदुत यस्त्वपरः परो वा &
यस्मिन् यतो यर्हि येन च यस्य यस्माद् $ यस्मै यथा यदुत यस्त्वपरः परो वा &
भावः करोति विकरोति पृथक् स्वभावः % सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥ भ्प्_07.09.020* ॥
माया मनः सृजति कर्ममयं बलीयः $ कालेन चोदितगुणानुमतेन पुंसः &
माया मनः सृजति कर्ममयं बलीयः $ कालेन चोदितगुणानुमतेन पुंसः &
छन्दोमयं यदजयार्पितषोडशारं % संसारचक्रमज को ऽतितरेत् त्वदन्यः ॥ भ्प्_07.09.021* ॥
स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना $ कालो वशीकृतविसृज्यविसर्गशक्तिः &
स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना $ कालो वशीकृतविसृज्यविसर्गशक्तिः &
चक्रे विसृष्टमजयेश्वर षोडशारे % निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् ॥ भ्प्_07.09.022* ॥
दृष्टा मया दिवि विभो ऽखिलधिष्ण्यपानाम् $ आयुः श्रियो विभव इच्छति यान् जनो ऽयम् &
दृष्टा मया दिवि विभो ऽखिलधिष्ण्यपानाम् $ आयुः श्रियो विभव इच्छति यान् जनो ऽयम् &
ये ऽस्मत् पितुः कुपितहासविजृम्भितभ्रू % विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥ भ्प्_07.09.023* ॥
तस्मादमूस्तनुभृतामहमाशिषो ऽज्ञ $ आयुः श्रियं विभवमैन्द्रियमाविरिञ्च्यात् &
तस्मादमूस्तनुभृतामहमाशिषो ऽज्ञ $ आयुः श्रियं विभवमैन्द्रियमाविरिञ्च्यात् &
नेच्छामि ते विलुलितान् उरुविक्रमेण % कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ भ्प्_07.09.024* ॥
कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः $ क्वेदं कलेवरमशेषरुजां विरोहः &
कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः $ क्वेदं कलेवरमशेषरुजां विरोहः &
निर्विद्यते न तु जनो यदपीति विद्वान् % कामानलं मधुलवैः शमयन् दुरापैः ॥ भ्प्_07.09.025* ॥
क्वाहं रजःप्रभव ईश तमो ऽधिके ऽस्मिन् $ जातः सुरेतरकुले क्व तवानुकम्पा &
क्वाहं रजःप्रभव ईश तमो ऽधिके ऽस्मिन् $ जातः सुरेतरकुले क्व तवानुकम्पा &
न ब्रह्मणो न तु भवस्य न वै रमाया % यन् मे ऽर्पितः शिरसि पद्मकरः प्रसादः ॥ भ्प्_07.09.026* ॥
नैषा परावरमतिर्भवतो ननु स्याज् $ जन्तोर्यथात्मसुहृदो जगतस्तथापि &
नैषा परावरमतिर्भवतो ननु स्याज् $ जन्तोर्यथात्मसुहृदो जगतस्तथापि &
संसेवया सुरतरोरिव ते प्रसादः % सेवानुरूपमुदयो न परावरत्वम् ॥ भ्प्_07.09.027* ॥
एवं जनं निपतितं प्रभवाहिकूपे $ कामाभिकाममनु यः प्रपतन् प्रसङ्गात् &
एवं जनं निपतितं प्रभवाहिकूपे $ कामाभिकाममनु यः प्रपतन् प्रसङ्गात् &
कृत्वात्मसात् सुरर्षिणा भगवन् गृहीतः % सो ऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥ भ्प्_07.09.028* ॥
मत्प्राणरक्षणमनन्त पितुर्वधश्च $ मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् &
मत्प्राणरक्षणमनन्त पितुर्वधश्च $ मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् &
खड्गं प्रगृह्य यदवोचदसद्विधित्सुस् % त्वामीश्वरो मदपरो ऽवतु कं हरामि ॥ भ्प्_07.09.029* ॥
एकस्त्वमेव जगदेतममुष्य यत् त्वम् $ आद्यन्तयोः पृथग् अवस्यसि मध्यतश्च &
एकस्त्वमेव जगदेतममुष्य यत् त्वम् $ आद्यन्तयोः पृथग् अवस्यसि मध्यतश्च &
सृष्ट्वा गुणव्यतिकरं निजमाययेदं % नानेव तैरवसितस्तदनुप्रविष्टः ॥ भ्प्_07.09.030* ॥
त्वम्वा इदं सदसदीश भवांस्ततो ऽन्यो $ माया यदात्मपरबुद्धिरियं ह्यपार्था &
त्वम्वा इदं सदसदीश भवांस्ततो ऽन्यो $ माया यदात्मपरबुद्धिरियं ह्यपार्था &
यद्यस्य जन्म निधनं स्थितिरीक्षणं च % तद्वैतदेव वसुकालवदष्टितर्वोः ॥ भ्प्_07.09.031* ॥
न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये $ शेषेत्मना निजसुखानुभवो निरीहः &
न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये $ शेषेत्मना निजसुखानुभवो निरीहः &
योगेन मीलितदृगात्मनिपीतनिद्रस् % तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ॥ भ्प्_07.09.032* ॥
तस्यैव ते वपुरिदं निजकालशक्त्या $ सञ्चोदितप्रकृतिधर्मण आत्मगूढम् &
तस्यैव ते वपुरिदं निजकालशक्त्या $ सञ्चोदितप्रकृतिधर्मण आत्मगूढम् &
अम्भस्यनन्तशयनाद्विरमत्समाधेर् % नाभेरभूत् स्वकणिकावटवन्महाब्जम् ॥ भ्प्_07.09.033* ॥
तत्सम्भवः कविरतो ऽन्यदपश्यमानस् $ त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य &
तत्सम्भवः कविरतो ऽन्यदपश्यमानस् $ त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य &
नाविन्ददब्दशतमप्सु निमज्जमानो % जाते ऽङ्कुरे कथमुहोपलभेत बीजम् ॥ भ्प्_07.09.034* ॥
स त्वात्मयोनिरतिविस्मित आश्रितो ऽब्जं $ कालेन तीव्रतपसा परिशुद्धभावः &
स त्वात्मयोनिरतिविस्मित आश्रितो ऽब्जं $ कालेन तीव्रतपसा परिशुद्धभावः &
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं % भूतेन्द्रियाशयमये विततं ददर्श ॥ भ्प्_07.09.035* ॥
एवं सहस्रवदनाङ्घ्रिशिरःकरोरु $ नासाद्यकर्णनयनाभरणायुधाढ्यम् &
एवं सहस्रवदनाङ्घ्रिशिरःकरोरु $ नासाद्यकर्णनयनाभरणायुधाढ्यम् &
मायामयं सदुपलक्षितसन्निवेशं % दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥ भ्प्_07.09.036* ॥
तस्मै भवान् हयशिरस्तनुवं हि बिभ्रद् $ वेदद्रुहावतिबलौ मधुकैटभाख्यौ &
तस्मै भवान् हयशिरस्तनुवं हि बिभ्रद् $ वेदद्रुहावतिबलौ मधुकैटभाख्यौ &
हत्वानयच् छ्रुतिगणांश्च रजस्तमश्च % सत्त्वं तव प्रियतमां तनुमामनन्ति ॥ भ्प्_07.09.037* ॥
इत्थं नृतिर्यगृषिदेवझषावतारैर् $ लोकान् विभावयसि हंसि जगत् प्रतीपान् &
इत्थं नृतिर्यगृषिदेवझषावतारैर् $ लोकान् विभावयसि हंसि जगत् प्रतीपान् &
धर्मं महापुरुष पासि युगानुवृत्तं % छन्नः कलौ यदभवस्त्रियुगो ऽथ स त्वम् ॥ भ्प्_07.09.038* ॥
नैतन् मनस्तव कथासु विकुण्ठनाथ $ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् &
नैतन् मनस्तव कथासु विकुण्ठनाथ $ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् &
कामातुरं हर्षशोकभयैषणार्तं % तस्मिन् कथं तव गतिं विमृशामि दीनः ॥ भ्प्_07.09.039* ॥
जिह्वैकतो ऽच्युत विकर्षति मावितृप्ता $ शिश्नो ऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् &
जिह्वैकतो ऽच्युत विकर्षति मावितृप्ता $ शिश्नो ऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् &
घ्राणो ऽन्यतश्चपलदृक् क्व च कर्मशक्तिर् % बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥ भ्प्_07.09.040* ॥
एवं स्वकर्मपतितं भववैतरण्याम् $ अन्योन्यजन्ममरणाशनभीतभीतम् &
एवं स्वकर्मपतितं भववैतरण्याम् $ अन्योन्यजन्ममरणाशनभीतभीतम् &
पश्यन् जनं स्वपरविग्रहवैरमैत्रं % हन्तेति पारचर पीपृहि मूढमद्य ॥ भ्प्_07.09.041* ॥
को न्वत्र ते ऽखिलगुरो भगवन् प्रयास $ उत्तारणे ऽस्य भवसम्भवलोपहेतोः &
को न्वत्र ते ऽखिलगुरो भगवन् प्रयास $ उत्तारणे ऽस्य भवसम्भवलोपहेतोः &
मूढेषु वै महदनुग्रह आर्तबन्धो % किं तेन ते प्रियजनान् अनुसेवतां नः ॥ भ्प्_07.09.042* ॥
नैवोद्विजे पर दुरत्ययवैतरण्यास् $ त्वद्वीर्यगायनमहामृतमग्नचित्तः &
नैवोद्विजे पर दुरत्ययवैतरण्यास् $ त्वद्वीर्यगायनमहामृतमग्नचित्तः &
शोचे ततो विमुखचेतस इन्द्रियार्थ % मायासुखाय भरमुद्वहतो विमूढान् ॥ भ्प्_07.09.043* ॥
प्रायेण देव मुनयः स्वविमुक्तिकामा $ मौनं चरन्ति विजने न परार्थनिष्ठाः &
प्रायेण देव मुनयः स्वविमुक्तिकामा $ मौनं चरन्ति विजने न परार्थनिष्ठाः &
नैतान् विहाय कृपणान् विमुमुक्ष एको % नान्यं त्वदस्य शरणं भ्रमतो ऽनुपश्ये ॥ भ्प्_07.09.044* ॥
यन् मैथुनादिगृहमेधिसुखं हि तुच्छं $ कण्डूयनेन करयोरिव दुःखदुःखम् &
यन् मैथुनादिगृहमेधिसुखं हि तुच्छं $ कण्डूयनेन करयोरिव दुःखदुःखम् &
तृप्यन्ति नेह कृपणा बहुदुःखभाजः % कण्डूतिवन् मनसिजं विषहेत धीरः ॥ भ्प्_07.09.045* ॥
मौनव्रतश्रुततपो ऽध्ययनस्वधर्म $ व्याख्यारहोजपसमाधय आपवर्ग्याः &
मौनव्रतश्रुततपो ऽध्ययनस्वधर्म $ व्याख्यारहोजपसमाधय आपवर्ग्याः &
प्रायः परं पुरुष ते त्वजितेन्द्रियाणां % वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥ भ्प्_07.09.046* ॥
रूपे इमे सदसती तव वेदसृष्टे $ बीजाङ्कुराविव न चान्यदरूपकस्य &
रूपे इमे सदसती तव वेदसृष्टे $ बीजाङ्कुराविव न चान्यदरूपकस्य &
युक्ताः समक्षमुभयत्र विचक्षन्ते त्वां % योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ भ्प्_07.09.047* ॥
त्वं वायुरग्निरवनिर्वियदम्बु मात्राः $ प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च &
त्वं वायुरग्निरवनिर्वियदम्बु मात्राः $ प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च &
सर्वं त्वमेव सगुणो विगुणश्च भूमन् % नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ भ्प्_07.09.048* ॥
नैते गुणा न गुणिनो महदादयो ये $ सर्वे मनः प्रभृतयः सहदेवमर्त्याः &
नैते गुणा न गुणिनो महदादयो ये $ सर्वे मनः प्रभृतयः सहदेवमर्त्याः &
आद्यन्तवन्त उरुगाय विदन्ति हि त्वाम् % एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ भ्प्_07.09.049* ॥
तत् ते ऽर्हत्तम नमः स्तुतिकर्मपूजाः $ कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् &
तत् ते ऽर्हत्तम नमः स्तुतिकर्मपूजाः $ कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् &
संसेवया त्वयि विनेति षडङ्गया किं % भक्तिं जनः परमहंसगतौ लभेत ॥ भ्प्_07.09.050*
0 श्रीनारद उवाच
एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः ।
प्रह्रादं प्रणतं प्रीतो यतमन्युरभाषत
भ्प्_07.09.052।0 श्रीभगवान् उवाच
प्रह्राद भद्र भद्रं ते प्रीतो ऽहं ते ऽसुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरो ऽस्म्यहं नृणाम्
मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।
दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति
प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः ।
श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम्
भ्प्_07.09.055।0 श्रीनारद उवाच
एवं प्रलोभ्यमानो ऽपि वरैर्लोकप्रलोभनैः ।
एकान्तित्वाद्भगवति नैच्छत् तान् असुरोत्तमः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0