भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 07.06

07.06.001

भ्प्_07.06.001।0 श्रीप्रह्राद उवाच
कौमार आचरेत् प्राज्ञो धर्मान् भागवतान् इह ।
दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम्

07.06.002

यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ।
यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत्

07.06.003

सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् ।
सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः

07.06.004

तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् ।
न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम्

07.06.005

ततो यतेत कुशलः क्षेमाय भवमाश्रितः ।
शरीरं पौरुषं यावन् न विपद्येत पुष्कलम्

07.06.006

पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मनः ।
निष्फलं यदसौ रात्र्यां शेते ऽन्धं प्रापितस्तमः

07.06.007

मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशतिः ।
जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः

07.06.008

दुरापूरेण कामेन मोहेन च बलीयसा ।
शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि

07.06.009

को गृहेषु पुमान् सक्तमात्मानमजितेन्द्रियः ।
स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम्

07.06.010

को न्वर्थतृष्णां विसृजेत् प्राणेभ्यो ऽपि य ईप्सितः ।
यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक्

07.06.011

कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ।
सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः

07.06.012

पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ ।
गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान्

07.06.013

त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः ।
औपस्थ्यजैह्वं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः

07.06.014

कुटुम्बपोषाय वियन् निजायुर् न बुध्यते ऽर्थं विहतं प्रमत्तः ।
सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः

07.06.015

वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः ।
प्रेत्येह वाथाप्यजितेन्द्रियस्तद् अशान्तकामो हरते कुटुम्बी

07.06.016

विद्वान् अपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै ।
यः स्वीयपारक्यविभिन्नभावस् तमः प्रपद्येत यथा विमूढः

07.06.017

यतो न कश्चित् क्व च कुत्रचिद्वा दीनः स्वमात्मानमलं समर्थः ।
विमोचितुं कामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः

07.06.018

ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु ।
उपेत नारायणमादिदेवं स मुक्तसङ्गैरिषितो ऽपवर्गः

07.06.019

न ह्यच्युतं प्रीणयतो बह्वायासो ऽसुरात्मजाः ।
आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः

07.06.020

परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु ।
भौतिकेषु विकारेषु भूतेष्वथ महत्सु च

07.06.021

गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा ।
एक एव परो ह्यात्मा भगवान् ईश्वरो ऽव्ययः

07.06.022

प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् ।
व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्यो ऽविकल्पितः

07.06.023

केवलानुभवानन्द स्वरूपः परमेश्वरः ।
माययान्तर्हितैश्वर्य ईयते गुणसर्गया

07.06.024

तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।
भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षजः

07.06.028

तुष्टे च तत्र किमलभ्यमनन्त आद्ये $ किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः &अम्प्;
धर्मादयः किमगुणेन च काङ्क्षितेन % सारं जुषां चरणयोरुपगायतां नः ॥ भ्प्_07.06.025* ॥
धर्मार्थकाम इति यो ऽभिहितस्त्रिवर्ग $ ईक्षा त्रयी नयदमौ विविधा च वार्ता &
धर्मार्थकाम इति यो ऽभिहितस्त्रिवर्ग $ ईक्षा त्रयी नयदमौ विविधा च वार्ता &
मन्ये तदेतदखिलं निगमस्य सत्यं % स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ भ्प्_07.06.026* ॥
ज्ञानं तदेतदमलं दुरवापमाह $ नारायणो नरसखः किल नारदाय &
ज्ञानं तदेतदमलं दुरवापमाह $ नारायणो नरसखः किल नारदाय &
एकान्तिनां भगवतस्तदकिञ्चनानां % पादारविन्दरजसाप्लुतदेहिनां स्यात् ॥ भ्प्_07.06.027* ॥
श्रुतमेतन् मया पूर्वं ज्ञानं विज्ञानसंयुतम् ।
धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात्

07.06.029

भ्प्_07.06.029।0 श्रीदैत्यपुत्रा ऊचुः
प्रह्राद त्वं वयं चापि नर्ते ऽन्यं विद्महे गुरुम् ।
एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ

07.06.030

बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः ।
छिन्धि नः संशयं सौम्य स्याच् चेद्विस्रम्भकारणम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc