भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 07.05

07.05.001

भ्प्_07.05.001।0 श्रीनारद उवाच
पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः ।
षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके

07.05.002

तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् ।
पाठयामासतुः पाठ्यान् अन्यांश्चासुरबालकान्

07.05.003

यत् तत्र गुरुणा प्रोक्तं शुश्रुवे ऽनुपपाठ च ।
न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम्

07.05.004

एकदासुरराट् पुत्रमङ्कमारोप्य पाण्डव ।
पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान्

07.05.005

भ्प्_07.05.005।0 श्रीप्रह्लाद उवाच
तत् साधु मन्ये ऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् ।
हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत

07.05.006

भ्प्_07.05.006।0 श्रीनारद उवाच
श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः ।
जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः

07.05.007

सम्यग् विधार्यतां बालो गुरुगेहे द्विजातिभिः ।
विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा

07.05.008

गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः ।
प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः

07.05.009

वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा ।
बालान् अति कुतस्तुभ्यमेष बुद्धिविपर्ययः

07.05.010

बुद्धिभेदः परकृत उताहो ते स्वतो ऽभवत् ।
भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन

07.05.011

भ्प्_07.05.011।0 श्रीप्रह्राद उवाच
परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः ।
विमोहितधियां दृष्टस्तस्मै भगवते नमः

07.05.012

स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते ।
अन्य एष तथान्यो ऽहमिति भेदगतासती

07.05.013

स एष आत्मा स्वपरेत्यबुद्धिभिर् दुरत्ययानुक्रमणो निरूप्यते ।
मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम्

07.05.014

यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ ।
तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया

07.05.015

भ्प्_07.05.015।0 श्रीनारद उवाच
एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः ।
तं सन्निभर्त्स्य कुपितः सुदीनो राजसेवकः

07.05.016

आनीयतामरे वेत्रमस्माकमयशस्करः ।
कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थो ऽस्योदितो दमः

07.05.017

दैतेयचन्दनवने जातो ऽयं कण्टकद्रुमः ।
यन्मूलोन्मूलपरशोर्विष्णोर्नालायितो ऽर्भकः

07.05.018

इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः ।
प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम्

07.05.019

तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् ।
दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम्

07.05.020

पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः ।
परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम्

07.05.021

आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः ।
आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर

07.05.022

भ्प्_07.05.022।0 हिरण्यकशिपुरुवाच
प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् ।
कालेनैतावतायुष्मन् यदशिक्षद्गुरोर्भवान्

07.05.023

भ्प्_07.05.023।0 श्रीप्रह्राद उवाच
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्

07.05.024

इति पुंसार्पिता विष्णौ भक्तिश्चेन् नवलक्षणा ।
क्रियेत भगवत्यद्धा तन् मन्ये ऽधीतमुत्तमम्

07.05.025

निशम्यैतत् सुतवचो हिरण्यकशिपुस्तदा ।
गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः

07.05.026

ब्रह्मबन्धो किमेतत् ते विपक्षं श्रयतासता ।
असारं ग्राहितो बालो मामनादृत्य दुर्मते

07.05.027

सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः ।
तेषामुदेत्यघं काले रोगः पातकिनामिव

07.05.028

भ्प्_07.05.028।0 श्रीगुरुपुत्र उवाच
न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो ।
नैसर्गिकीयं मतिरस्य राजन् नियच्छ मन्युं कददाः स्म मा नः

07.05.029

भ्प्_07.05.029।0 श्रीनारद उवाच
गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् ।
न चेद्गुरुमुखीयं ते कुतो ऽभद्रासती मतिः

07.05.030

भ्प्_07.05.030।0 श्रीप्रह्राद उवाच
मतिर्न कृष्णे परतः स्वतो वा मिथो ऽभिपद्येत गृहव्रतानाम् ।
अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम्

07.05.031

न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः ।
अन्धा यथान्धैरुपनीयमानास् ते ऽपीशतन्त्र्यामुरुदाम्नि बद्धाः

07.05.032

नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः ।
महीयसां पादरजो ऽभिषेकं निष्किञ्चनानां न वृणीत यावत्

07.05.033

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा ।
अन्धीकृतात्मा स्वोत्सङ्गान् निरस्यत महीतले

07.05.034

आहामर्षरुषाविष्टः कषायीभूतलोचनः ।
वध्यतामाश्वयं वध्यो निःसारयत नैरृताः

07.05.035

अयं मे भ्रातृहा सो ऽयं हित्वा स्वान् सुहृदो ऽधमः ।
पितृव्यहन्तुः पादौ यो विष्णोर्दासवदर्चति

07.05.036

विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः ।
सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः

07.05.037

परो ऽप्यपत्यं हितकृद्यथौषधं स्वदेहजो ऽप्यामयवत् सुतो ऽहितः ।
छिन्द्यात् तदङ्गं यदुतात्मनो ऽहितं शेषं सुखं जीवति यद्विवर्जनात्

07.05.038

सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः ।
सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम्

07.05.039

नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः ।
तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः

07.05.040

नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः ।
आसीनं चाहनन् शूलैः प्रह्रादं सर्वमर्मसु

07.05.041

परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि ।
युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः

07.05.042

प्रयासे ऽपहते तस्मिन् दैत्येन्द्रः परिशङ्कितः ।
चकार तद्वधोपायान् निर्बन्धेन युधिष्ठिर

07.05.043

दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः ।
मायाभिः सन्निरोधैश्च गरदानैरभोजनैः

07.05.044

हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि ।
न शशाक यदा हन्तुमपापमसुरः सुतम् ।
चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत

07.05.045

एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः ।
तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा

07.05.046

वर्तमानो ऽविदूरे वै बालो ऽप्यजडधीरयम् ।
न विस्मरति मे ऽनार्यं शुनः शेप इव प्रभुः

07.05.047

अप्रमेयानुभावो ऽयमकुतश्चिद्भयो ऽमरः ।
नूनमेतद्विरोधेन मृत्युर्मे भविता न वा

07.05.048

इति तच्चिन्तया किञ्चिन् म्लानश्रियमधोमुखम् ।
शण्डामर्कावौशनसौ विविक्त इति होचतुः

07.05.049

जितं त्वयैकेन जगत्त्रयं भ्रुवोर् विजृम्भणत्रस्तसमस्तधिष्ण्यपम् ।
न तस्य चिन्त्यं तव नाथ चक्ष्वहे न वै शिशूनां गुणदोषयोः पदम्

07.05.050

इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा ।
बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति

07.05.051

तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् ।
धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम्

07.05.052

धर्ममर्थं च कामं च नितरां चानुपूर्वशः ।
प्रह्रादायोचतू राजन् प्रश्रितावनताय च

07.05.053

यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् ।
न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम्

07.05.054

यदाचार्यः परावृत्तो गृहमेधीयकर्मसु ।
वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः

07.05.055

अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः ।
उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव

07.05.056

ते तु तद्गौरवात् सर्वे त्यक्तक्रीडापरिच्छदाः ।
बाला अदूषितधियो द्वन्द्वारामेरितेहितैः

07.05.057

पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः ।
तान् आह करुणो मैत्रो महाभागवतो ऽसुरः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc