भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 06.18

06.18.001

भ्प्_06.18.001।0 श्रीशुक उवाच
पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् ।
अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान्

06.18.002

सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् ।
आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम्

06.18.003

धातुः कुहूः सिनीवाली राका चानुमतिस्तथा ।
सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात्

06.18.004

अग्नीन् पुरीष्यान् आधत्त क्रियायां समनन्तरः ।
चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः

06.18.005

वाल्मीकिश्च महायोगी वल्मीकादभवत् किल ।
अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी

06.18.006

रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् ।
रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात्

06.18.007

पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रान् इति नः श्रुतम् ।
जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः

06.18.008

उरुक्रमस्य देवस्य मायावामनरूपिणः ।
कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन् सौभगादयः

06.18.009

तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः ।
पश्चाद्वक्ष्यामहे ऽदित्यां यथैवावततार ह

06.18.010

अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते ।
यत्र भागवतः श्रीमान् प्रह्रादो बलिरेव च

06.18.011

दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ ।
हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ

06.18.012

हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी ।
जम्भस्य तनया सा तु सुषुवे चतुरः सुतान्

06.18.013

संह्रादं प्राग् अनुह्रादं ह्रादं प्रह्रादमेव च ।
तत्स्वसा सिंहिका नाम राहुं विप्रचितो ऽग्रहीत्

06.18.014

शिरो ऽहरद्यस्य हरिश्चक्रेण पिबतो ऽमृतम् ।
संह्रादस्य कृतिर्भार्या सूत पञ्चजनं ततः

06.18.015

ह्रादस्य धमनिर्भार्या सूत वातापिमिल्वलम् ।
यो ऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः

06.18.016

अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा ।
विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलिः

06.18.017

बाणज्येष्ठं पुत्रशतमशनायां ततो ऽभवत् ।
तस्यानुभावं सुश्लोक्यं पश्चादेवाभिधास्यते

06.18.018

बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् ।
यत्पार्श्वे भगवान् आस्ते ह्य् अद्यापि पुरपालकः

06.18.019

मरुतश्च दितेः पुत्राश्चत्वारिंशन् नवाधिकाः ।
त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम्

06.18.020

भ्प्_06.18.020।0 श्रीराजोवाच
कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो ।
इन्द्रेण प्रापिताः सात्म्यं किं तत् साधु कृतं हि तैः

06.18.021

इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह ।
परिज्ञानाय भगवंस्तन् नो व्याख्यातुमर्हसि

06.18.022

भ्प्_06.18.022।0 श्रीसूत उवाच
तद्विष्णुरातस्य स बादरायणिर् वचो निशम्यादृतमल्पमर्थवत् ।
सभाजयन् सन् निभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः

06.18.023

भ्प्_06.18.023।0 श्रीशुक उवाच
हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना ।
मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत्

06.18.024

कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम् ।
अक्लिन्नहृदयं पापं घातयित्वा शये सुखम्

06.18.025

कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च ।
भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः

06.18.026

आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः ।
मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे

06.18.027

इति भावेन सा भर्तुराचचारासकृत् प्रियम् ।
शुश्रूषयानुरागेण प्रश्रयेण दमेन च

06.18.028

भक्त्या परमया राजन् मनोज्ञैर्वल्गुभाषितैः ।
मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणैः

06.18.029

एवं स्त्रिया जडीभूतो विद्वान् अपि मनोज्ञया ।
बाढमित्य् आह विवशो न तच् चित्रं हि योषिति

06.18.030

विलोक्यैकान्तभूतानि भूतान्य् आदौ प्रजापतिः ।
स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता

06.18.031

एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया ।
प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च

06.18.032

भ्प्_06.18.032।0 श्रीकश्यप उवाच
वरं वरय वामोरु प्रीतस्ते ऽहमनिन्दिते ।
स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः

06.18.033

पतिरेव हि नारीणां दैवतं परमं स्मृतम् ।
मानसः सर्वभूतानां वासुदेवः श्रियः पतिः

06.18.034

स एव देवतालिङ्गैर्नामरूपविकल्पितैः ।
इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक्

06.18.035

तस्मात् पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे ।
यजन्ते ऽनन्यभावेन पतिमात्मानमीश्वरम्

06.18.036

सो ऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः ।
तं ते सम्पादये काममसतीनां सुदुर्लभम्

06.18.037

भ्प्_06.18.037।0 दितिरुवाच
वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे ।
अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ

06.18.038

निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत ।
अहो अधर्मः सुमहान् अद्य मे समुपस्थितः

06.18.039

अहो अर्थेन्द्रियारामो योषिन्मय्येह मायया ।
गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम्

06.18.040

को ऽतिक्रमो ऽनुवर्तन्त्याः स्वभावमिह योषितः ।
धिङ् मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः

06.18.041

शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् ।
हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम्

06.18.042

न हि कश्चित् प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् ।
पतिं पुत्रं भ्रातरं वा घ्नन्त्य् अर्थे घातयन्ति च

06.18.043

प्रतिश्रुतं ददामीति वचस्तन् न मृषा भवेत् ।
वधं नार्हति चेन्द्रो ऽपि तत्रेदमुपकल्पते

06.18.044

इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन ।
उवाच किञ्चित् कुपित आत्मानं च विगर्हयन्

06.18.045

भ्प्_06.18.045।0 श्रीकश्यप उवाच
पुत्रस्ते भविता भद्रे इन्द्रहादेवबान्धवः ।
संवत्सरं व्रतमिदं यद्य् अञ्जो धारयिष्यसि

06.18.046

भ्प्_06.18.046।0 दितिरुवाच
धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे ।
यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्य् उत

06.18.047

भ्प्_06.18.047।0 श्रीकश्यप उवाच
न हिंस्याद्भूतजातानि न शपेन् नानृतं वदेत् ।
न छिन्द्यान् नखरोमाणि न स्पृशेद्यदमङ्गलम्

06.18.048

नाप्सु स्नायान् न कुप्येत न सम्भाषेत दुर्जनैः ।
न वसीताधौतवासः स्रजं च विधृतां क्वचित्

06.18.049

नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् ।
भुञ्जीतोदक्यया दृष्टं पिबेन् नाञ्जलिना त्वपः

06.18.050

नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा ।
अनर्चितासंयतवाक् नासंवीता बहिश्चरेत्

06.18.051

नाधौतपादाप्रयता नार्द्रपादा उदक्शिराः ।
शयीत नापराङ् नान्यैर्न नग्ना न च सन्ध्ययोः

06.18.052

धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता ।
पूजयेत् प्रातराशात् प्राग् गोविप्राञ् श्रियमच्युतम्

06.18.053

स्त्रियो वीरवतीश्चार्चेत् स्रग्गन्धबलिमण्डनैः ।
पतिं चार्च्योपतिष्ठेत ध्यायेत् कोष्ठगतं च तम्

06.18.054

सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् ।
धारयिष्यसि चेत् तुभ्यं शक्रहा भविता सुतः

06.18.055

बाढमित्य् अभ्युपेत्याथ दिती राजन् महामनाः ।
कश्यपाद्गर्भमाधत्त व्रतं चाञ्जो दधार सा

06.18.056

मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद ।
शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत् कविः

06.18.057

नित्यं वनात् सुमनसः फलमूलसमित्कुशान् ।
पत्राङ्कुरमृदो ऽपश्च काले काल उपाहरत्

06.18.058

एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप ।
प्रेप्सुः पर्यचरज् जिह्मो मृगहेव मृगाकृतिः

06.18.059

नाध्यगच्छद्व्रतच्छिद्रं तत्परो ऽथ महीपते ।
चिन्तां तीव्रां गतः शक्रः केन मे स्याच् छिवं त्विह

06.18.060

एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता ।
अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता

06.18.061

लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः ।
दितेः प्रविष्ट उदरं योगेशो योगमायया

06.18.062

चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् ।
रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः

06.18.063

तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप ।
किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव

06.18.064

मा भैष्ट भ्रातरो मह्यं यूयमित्य् आह कौशिकः ।
अनन्यभावान् पार्षदान् आत्मनो मरुतां गणान्

06.18.065

न ममार दितेर्गर्भः श्रीनिवासानुकम्पया ।
बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान्

06.18.066

सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम् ।
संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः

06.18.067

सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतो ऽभवन् ।
व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः

06.18.068

दितिरुत्थाय ददृशे कुमारान् अनलप्रभान् ।
इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता

06.18.069

अथेन्द्रमाह ताताहमादित्यानां भयावहम् ।
अपत्यमिच्छन्त्य् अचरं व्रतमेतत् सुदुष्करम्

06.18.070

एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम् ।
यदि ते विदितं पुत्र सत्यं कथय मा मृषा

06.18.071

भ्प्_06.18.071।0 इन्द्र उवाच
अम्ब ते ऽहं व्यवसितमुपधार्यागतो ऽन्तिकम् ।
लब्धान्तरो ऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक्

06.18.072

कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः ।
ते ऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे

06.18.073

ततस्तत् परमाश्चर्यं वीक्ष्य व्यवसितं मया ।
महापुरुषपूजायाः सिद्धिः काप्य् आनुषङ्गिणी

06.18.074

आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्य् अपि परं ते स्वार्थकुशलाः स्मृताः

06.18.075

आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् ।
को वृणीत गुणस्पर्शं बुधः स्यान् नरके ऽपि यत्

06.18.076

तदिदं मम दौर्जन्यं बालिशस्य महीयसि ।
क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः

06.18.077

भ्प्_06.18.077।0 श्रीशुक उवाच
इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया ।
मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः

06.18.078

एवं ते सर्वमाख्यातं यन् मां त्वं परिपृच्छसि ।
मङ्गलं मरुतां जन्म किं भूयः कथयामि ते

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc