भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 06.19

06.19.001

भ्प्_06.19.001।0 श्रीराजोवाच
व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।
तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति

06.19.002

भ्प्_06.19.002।0 श्रीशुक उवाच
शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया ।
आरभेत व्रतमिदं सार्वकामिकमादितः

06.19.003

निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च ।
स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे ।
पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह

06.19.004

अलं ते निरपेक्षाय पूर्णकाम नमो ऽस्तु ते ।
महाविभूतिपतये नमः सकलसिद्धये

06.19.005

यथा त्वं कृपया भूत्या तेजसा महिमौजसा ।
जुष्ट ईश गुणैः सर्वैस्ततो ऽसि भगवान् प्रभुः

06.19.006

विष्णुपत्नि महामाये महापुरुषलक्षणे ।
प्रीयेथा मे महाभागे लोकमातर्नमो ऽस्तु ते

06.19.007

ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहरामीति अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नानवासौपवीतविभूषणगन्धपुष्पधूपदीपोपहाराद्युपचारान् सुसमाहितोपाहरेत्

06.19.008

_*
हविःशेषं च जुहुयादनले द्वादशाहुतीः ।
ओं नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति

06.19.009

श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ ।
भक्त्या सम्पूजयेन् नित्यं यदीच्छेत् सर्वसम्पदः

06.19.010

प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा ।
दशवारं जपेन् मन्त्रं ततः स्तोत्रमुदीरयेत्

06.19.011

युवां तु विश्वस्य विभू जगतः कारणं परम् ।
इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया

06.19.012

तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः ।
त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग् भवान्

06.19.013

गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग् भवान् ।
त्वं हि सर्वशरीर्य् आत्मा श्रीः शरीरेन्द्रियाशयाः ।
नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः

06.19.014

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।
तथा म उत्तमश्लोक सन्तु सत्या महाशिषः

06.19.015

इत्य् अभिष्टूय वरदं श्रीनिवासं श्रिया सह ।
तन् निःसार्योपहरणं दत्त्वाचमनमर्चयेत्

06.19.016

ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा ।
यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम्

06.19.017

पतिं च परया भक्त्या महापुरुषचेतसा ।
प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः ।
बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च

06.19.018

कृतमेकतरेणापि दम्पत्योरुभयोरपि ।
पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहितः

06.19.019

विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन ।
विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः ।
अर्चेदहरहर्भक्त्या देवं नियममास्थिता

06.19.020

उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः ।
अद्यादात्मविशुद्ध्यर्थं सर्वकामसमृद्धये

06.19.021

एतेन पूजाविधिना मासान् द्वादश हायनम् ।
नीत्वाथोपरमेत् साध्वी कार्तिके चरमे ऽहनि

06.19.022

श्वोभूते ऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् ।
पयःशृतेन जुहुयाच् चरुणा सह सर्पिषा ।
पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः

06.19.023

आशिषः शिरसादाय द्विजैः प्रीतैः समीरिताः ।
प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया

06.19.024

आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः ।
दद्यात् पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम्

06.19.025

एतच् चरित्वा विधिवद्व्रतं विभोर् अभीप्सितार्थं लभते पुमान् इह ।
स्त्री चैतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम्

06.19.026

कन्या च विन्देत समग्रलक्षणं पतिं त्ववीरा हतकिल्बिषां गतिम् ।
मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम्

06.19.027

विन्देद्विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम् ।
एतत् पठन्नभ्युदये च कर्मण्य् अनन्ततृप्तिः पितृदेवतानाम्

06.19.028

तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीहरिश्च ।
राजन् महन् मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत् ते

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc