भागवत पुराण · अध्याय 06.14
भ्प्_06.14.001।0 श्रीपरीक्षिदुवाच
रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।
नारायणे भगवति कथमासीद्दृढा मतिः
देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् ।
भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते
रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः ।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः
प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम ।
मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति
मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने
वृत्रस्तु स कथं पापः सर्वलोकोपतापनः ।
इत्थं दृढमतिः कृष्ण आसीत् सङ्ग्राम उल्बणे
अत्र नः संशयो भूयाञ् छ्रोतुं कौतूहलं प्रभो ।
यः पौरुषेण समरे सहस्राक्षमतोषयत्
भ्प्_06.14.008।0 श्रीसूत उवाच
परीक्षितो ऽथ सम्प्रश्नं भगवान् बादरायणिः ।
निशम्य श्रद्दधानस्य प्रतिनन्द्य वचो ऽब्रवीत्
भ्प्_06.14.009।0 श्रीशुक उवाच
शृणुष्वावहितो राजन्नितिहासमिमं यथा ।
श्रुतं द्वैपायनमुखान् नारदाद्देवलादपि
आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप ।
चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ् मही
तस्य भार्यासहस्राणां सहस्राणि दशाभवन् ।
सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम्
रूपौदार्यवयोजन्म विद्यैश्वर्यश्रियादिभिः ।
सम्पन्नस्य गुणैः सर्वैश्चिन्ता बन्ध्यापतेरभूत्
न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः ।
सार्वभौमस्य भूश्चेयमभवन् प्रीतिहेतवः
तस्यैकदा तु भवनमङ्गिरा भगवान् ऋषिः ।
लोकान् अनुचरन्नेतान् उपागच्छद्यदृच्छया
तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः ।
कृतातिथ्यमुपासीदत् सुखासीनं समाहितः
महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ ।
प्रतिपूज्य महाराज समाभाष्येदमब्रवीत्
भ्प्_06.14.017।0 अङ्गिरा उवाच
अपि ते ऽनामयं स्वस्ति प्रकृतीनां तथात्मनः ।
यथा प्रकृतिभिर्गुप्तः पुमान् राजा च सप्तभिः
आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् ।
राज्ञा तथा प्रकृतयो नरदेवाहिताधयः
अपि दाराः प्रजामात्या भृत्याः श्रेण्यो ऽथ मन्त्रिणः ।
पौरा जानपदा भूपा आत्मजा वशवर्तिनः
यस्यात्मानुवशश्चेत् स्यात् सर्वे तद्वशगा इमे ।
लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः
आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।
लक्षये ऽलब्धकामं त्वां चिन्तया शबलं मुखम्
एवं विकल्पितो राजन् विदुषा मुनिनापि सः ।
प्रश्रयावनतो ऽभ्याह प्रजाकामस्ततो मुनिम्
भ्प्_06.14.023।0 चित्रकेतुरुवाच
भगवन् किं न विदितं तपोज्ञानसमाधिभिः ।
योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु
तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् ।
भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया
लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः ।
न नन्दयन्त्य् अप्रजं मां क्षुत्तृट्काममिवापरे
ततः पाहि महाभाग पूर्वैः सह गतं तमः ।
यथा तरेम दुष्पारं प्रजया तद्विधेहि नः
भ्प्_06.14.027।0 श्रीशुक उवाच
इत्य् अर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः ।
श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद्विभुः
ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत ।
नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद्द्विजः
अथाह नृपतिं राजन् भवितैकस्तवात्मजः ।
हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ
सापि तत्प्राशनादेव चित्रकेतोरधारयत् ।
गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम्
तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः ।
ववृधे शूरसेनेश तेजसा शनकैर्नृप
अथ काल उपावृत्ते कुमारः समजायत ।
जनयन् शूरसेनानां शृण्वतां परमां मुदम्
हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः ।
वाचयित्वाशिषो विप्रैः कारयामास जातकम्
तेभ्यो हिरण्यं रजतं वासांस्य् आभरणानि च ।
ग्रामान् हयान् गजान् प्रादाद्धेनूनामर्बुदानि षट्
ववर्ष कामान् अन्येषां पर्जन्य इव देहिनाम् ।
धन्यं यशस्यमायुष्यं कुमारस्य महामनाः
कृच्छ्रलब्धे ऽथ राजर्षेस्तनये ऽनुदिनं पितुः ।
यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहो ऽन्ववर्धत
मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः ।
कृतद्युतेः सपत्नीनां प्रजाकामज्वरो ऽभवत्
चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति ।
न तथान्येषु सञ्जज्ञे बालं लालयतो ऽन्वहम्
ताः पर्यतप्यन्नात्मानं गर्हयन्त्यो ऽभ्यसूयया ।
आनपत्येन दुःखेन राज्ञश्चानादरेण च
धिग् अप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् ।
सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम्
दासीनां को नु सन्तापः स्वामिनः परिचर्यया ।
अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः
एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा ।
राज्ञो ऽसम्मतवृत्तीनां विद्वेषो बलवान् अभूत्
विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः ।
गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति
कृतद्युतिरजानन्ती सपत्नीनामघं महत् ।
सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे
शयानं सुचिरं बालमुपधार्य मनीषिणी ।
पुत्रमानय मे भद्रे इति धात्रीमचोदयत्
सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् ।
प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्य् अपतद्भुवि
तस्यास्तदाकर्ण्य भृशातुरं स्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि ।
प्रविश्य राज्ञी त्वरयात्मजान्तिकं ददर्श बालं सहसा मृतं सुतम्
पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा
ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् ।
आगत्य तुल्यव्यसनाः सुदुःखितास् ताश्च व्यलीकं रुरुदुः कृतागसः
श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतन् स्खलन् पथि ।
स्नेहानुबन्धैधितया शुचा भृशं विमूर्च्छितो ऽनुप्रकृतिर्द्विजैर्वृतः
पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः ।
दीर्घं श्वसन् बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम्
पतिं निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम् ।
जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा
स्तनद्वयं कुङ्कुमपङ्कमण्डितं निषिञ्चती साञ्जनबाष्पबिन्दुभिः ।
विकीर्य केशान् विगलत्स्रजः सुतं शुशोच चित्रं कुररीव सुस्वरम्
अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।
परे नु जीवत्य् अपरस्य या मृतिर् विपर्ययश्चेत् त्वमसि ध्रुवः परः
न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः ।
यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि
त्वं तात नार्हसि च मां कृपणामनाथां $ त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् &अम्प्;
अञ्जस्तरेम भवताप्रजदुस्तरं यद् % ध्वान्तं न याह्य् अकरुणेन यमेन दूरम् ॥ भ्प्_06.14.056* ॥
उत्तिष्ठ तात त इमे शिशवो वयस्यास् $ त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् &
उत्तिष्ठ तात त इमे शिशवो वयस्यास् $ त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् &
सुप्तश्चिरं ह्य् अशनया च भवान् परीतो % भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ भ्प्_06.14.057* ॥
नाहं तनूज ददृशे हतमङ्गला ते $ मुग्धस्मितं मुदितवीक्षणमाननाब्जम् &
नाहं तनूज ददृशे हतमङ्गला ते $ मुग्धस्मितं मुदितवीक्षणमाननाब्जम् &
किं वा गतो ऽस्य् अपुनरन्वयमन्यलोकं % नीतो ऽघृणेन न शृणोमि कला गिरस्ते ॥ भ्प्_06.14.058*
0 श्रीशुक उवाच
विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः ।
चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह
तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः ।
रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम्
एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् ।
ज्ञात्वाङ्गिरा नाम ऋषिराजगाम सनारदः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0