भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 06.13

06.13.001

भ्प्_06.13.001।0 श्रीशुक उवाच
वृत्रे हते त्रयो लोका विना शक्रेण भूरिद ।
सपाला ह्य् अभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः

06.13.002

देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् ।
प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः

06.13.003

भ्प्_06.13.003।0 श्रीराजोवाच
इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने ।
येनासन् सुखिनो देवा हरेर्दुःखं कुतो ऽभवत्

06.13.004

भ्प्_06.13.004।0 श्रीशुक उवाच
वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः ।
तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात्

06.13.005

भ्प्_06.13.005।0 इन्द्र उवाच
स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्भवम् ।
विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्य् अहम्

06.13.006

भ्प्_06.13.006।0 श्रीशुक उवाच
ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् ।
याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः

06.13.007

हयमेधेन पुरुषं परमात्मानमीश्वरम् ।
इष्ट्वा नारायणं देवं मोक्ष्यसे ऽपि जगद्वधात्

06.13.008

ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् ।
श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात्

06.13.009

तमश्वमेधेन महामखेन श्रद्धान्वितो ऽस्माभिरनुष्ठितेन ।
हत्वापि सब्रह्मचराचरं त्वं न लिप्यसे किं खलनिग्रहेण

06.13.010

भ्प्_06.13.010।0 श्रीशुक उवाच
एवं सञ्चोदितो विप्रैर्मरुत्वान् अहनद्रिपुम् ।
ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम्

06.13.011

तयेन्द्रः स्मासहत् तापं निर्वृतिर्नामुमाविशत् ।
ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्य् अपि नो गुणाः

06.13.012

तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् ।
जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम्

06.13.013

विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम् ।
मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम्

06.13.014

नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते ।
प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम्

06.13.015

स आवसत् पुष्करनालतन्तून् अलब्धभोगो यदिहाग्निदूतः ।
वर्षाणि साहस्रमलक्षितो ऽन्तः सञ्चिन्तयन् ब्रह्मवधाद्विमोक्षम्

06.13.016

तावत् त्रिणाकं नहुषः शशास विद्यातपोयोगबलानुभावः ।
स सम्पदैश्वर्यमदान्धबुद्धिर् नीतस्तिरश्चां गतिमिन्द्रपत्न्या

06.13.017

ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः ।
पापस्तु दिग्देवतया हतौजास् तं नाभ्यभूदवितं विष्णुपत्न्या

06.13.018

तं च ब्रह्मर्षयो ऽभ्येत्य हयमेधेन भारत ।
यथावद्दीक्षयां चक्रुः पुरुषाराधनेन ह

06.13.019

अथेज्यमाने पुरुषे सर्वदेवमयात्मनि ।
अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः

06.13.020

स वै त्वाष्ट्रवधो भूयान् अपि पापचयो नृप ।
नीतस्तेनैव शून्याय नीहार इव भानुना

06.13.021

स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः ।
इष्ट्वाधियज्ञं पुरुषं पुराणम् इन्द्रो महान् आस विधूतपापः

06.13.022

इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम् ।
भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः

06.13.023

पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्य् अथो पर्वणि पर्वणीन्द्रियम् ।
धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc