भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 06.02

06.02.001

भ्प्_06.02.001।0 श्रीबादरायणिरुवाच
एवं ते भगवद्दूता यमदूताभिभाषितम् ।
उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः

06.02.002

भ्प्_06.02.002।0 श्रीविष्णुदूता ऊचुः
अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् ।
यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा

06.02.003

प्रजानां पितरो ये च शास्तारः साधवः समाः ।
यदि स्यात् तेषु वैषम्यं कं यान्ति शरणं प्रजाः

06.02.004

यद्यदाचरति श्रेयान् इतरस्तत् तदीहते ।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते

06.02.005

यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः ।
स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः

06.02.006

स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् ।
विस्रम्भणीयो भूतानां सघृणो दोग्धुमर्हति

06.02.007

अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि ।
यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः

06.02.008

एतेनैव ह्य् अघोनो ऽस्य कृतं स्यादघनिष्कृतम् ।
यदा नारायणायेति जगाद चतुरक्षरम्

06.02.009

स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः ।
स्त्रीराजपितृगोहन्ता ये च पातकिनो ऽपरे

06.02.010

सर्वेषामप्य् अघवतामिदमेव सुनिष्कृतम् ।
नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः

06.02.011

न निष्कृतैरुदितैर्ब्रह्मवादिभिस् तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः ।
यथा हरेर्नामपदैरुदाहृतैस् तदुत्तमश्लोकगुणोपलम्भकम्

06.02.012

नैकान्तिकं तद्धि कृते ऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे ।
तत् कर्मनिर्हारमभीप्सतां हरेर् गुणानुवादः खलु सत्त्वभावनः

06.02.013

अथैनं मापनयत कृताशेषाघनिष्कृतम् ।
यदसौ भगवन्नाम म्रियमाणः समग्रहीत्

06.02.014

साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः

06.02.015

पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः ।
हरिरित्य् अवशेनाह पुमान् नार्हति यातनाः

06.02.016

गुरूणां च लघूनां च गुरूणि च लघूनि च ।
प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः

06.02.017

तैस्तान्य् अघानि पूयन्ते तपोदानव्रतादिभिः ।
नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया

06.02.018

अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् ।
सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः

06.02.019

यथागदं वीर्यतममुपयुक्तं यदृच्छया ।
अजानतो ऽप्य् आत्मगुणं कुर्यान् मन्त्रो ऽप्य् उदाहृतः

06.02.020

भ्प्_06.02.020।0 श्रीशुक उवाच
त एवं सुविनिर्णीय धर्मं भागवतं नृप ।
तं याम्यपाशान् निर्मुच्य विप्रं मृत्योरमूमुचन्

06.02.021

इति प्रत्युदिता याम्या दूता यात्वा यमान्तिकम् ।
यमराज्ञे यथा सर्वमाचचक्षुररिन्दम

06.02.022

द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः ।
ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः

06.02.023

तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः ।
सहसा पश्यतस्तस्य तत्रान्तर्दधिरे ऽनघ

06.02.024

अजामिलो ऽप्य् अथाकर्ण्य दूतानां यमकृष्णयोः ।
धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम्

06.02.025

भक्तिमान् भगवत्य् आशु माहात्म्यश्रवणाद्धरेः ।
अनुतापो महान् आसीत् स्मरतो ऽशुभमात्मनः

06.02.026

अहो मे परमं कष्टमभूदविजितात्मनः ।
येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना

06.02.027

धिङ् मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् ।
हित्वा बालां सतीं यो ऽहं सुरापीमसतीमगाम्

06.02.028

वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ ।
अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत्

06.02.029

सो ऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे ।
धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः

06.02.030

किमिदं स्वप्न आहो स्वित् साक्षाद्दृष्टमिहाद्भुतम् ।
क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः

06.02.031

अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः ।
व्यामोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः

06.02.032

अथापि मे दुर्भगस्य विबुधोत्तमदर्शने ।
भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति

06.02.033

अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः ।
वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति

06.02.034

क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः ।
क्व च नारायणेत्य् एतद्भगवन्नाम मङ्गलम्

06.02.035

सो ऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः ।
यथा न भूय आत्मानमन्धे तमसि मज्जये

06.02.036

विमुच्य तमिमं बन्धमविद्याकामकर्मजम् ।
सर्वभूतसुहृच् छान्तो मैत्रः करुण आत्मवान्

06.02.037

मोचये ग्रस्तमात्मानं योषिन्मय्यात्ममायया ।
विक्रीडितो ययैवाहं क्रीडामृग इवाधमः

06.02.038

ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् ।
धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः

06.02.039

भ्प्_06.02.039।0 श्रीशुक उवाच
इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु ।
गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः

06.02.040

स तस्मिन् देवसदन आसीनो योगमास्थितः ।
प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि

06.02.041

ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना ।
युयुजे भगवद्धाम्नि ब्रह्मण्य् अनुभवात्मनि

06.02.042

यर्ह्य् उपारतधीस्तस्मिन्नद्राक्षीत् पुरुषान् पुरः ।
उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः

06.02.043

हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु ।
सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम्

06.02.044

साकं विहायसा विप्रो महापुरुषकिङ्करैः ।
हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः

06.02.045

एवं स विप्लावितसर्वधर्मा दास्याः पतिः पतितो गर्ह्यकर्मणा ।
निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन्

06.02.046

नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात् ।
न यत् पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततो ऽन्यथा

06.02.047

य एतं परमं गुह्यमितिहासमघापहम् ।
शृणुयाच् छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत्

06.02.048

न वै स नरकं याति नेक्षितो यमकिङ्करैः ।
यद्य् अप्य् अमङ्गलो मर्त्यो विष्णुलोके महीयते

06.02.049

म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।
अजामिलो ऽप्य् अगाद्धाम किमुत श्रद्धया गृणन्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc