भागवत पुराण · अध्याय 06.01
भू-द्वीप-वर्ष-सरिद्-अद्रि-नभः-समुद्र- $ पाताल-दिङ्-नरक-भागण-लोक-संस्था &अम्प्;
गीता मया तव नृपाद्भुतम् ईश्वरस्य % स्थूलं वपुः सकल-जीव-निकाय-धाम ॥ भ्प्_05.26.039*
0 श्रीपरीक्षिदुवाच
निवृत्तिमार्गः कथित आदौ भगवता यथा ।
क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः
प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने ।
यो ऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः
अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः ।
मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः
प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च ।
द्वीपवर्षसमुद्राद्रि नद्युद्यानवनस्पतीन्
धरामण्डलसंस्थानं भागलक्षणमानतः ।
ज्योतिषां विवराणां च यथेदमसृजद्विभुः
अधुनेह महाभाग यथैव नरकान् नरः ।
नानोग्रयातनान् नेयात् तन् मे व्याख्यातुमर्हसि
भ्प्_06.01.007।0 श्रीशुक उवाच
न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान् मनौक्तपाणिभिः ।
ध्रुवं स वै प्रेत्य नरकान् उपैति ये कीर्तिता मे भवतस्तिग्मयातनाः
तस्मात् पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यतात्मना ।
दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक् चिकित्सेत रुजां निदानवित्
भ्प्_06.01.009।0 श्रीराजोवाच
दृष्टश्रुताभ्यां यत् पापं जानन्नप्य् आत्मनो ऽहितम् ।
करोति भूयो विवशः प्रायश्चित्तमथो कथम्
क्वचिन् निवर्तते ऽभद्रात् क्वचिच् चरति तत् पुनः ।
प्रायश्चित्तमथो ऽपार्थं मन्ये कुञ्जरशौचवत्
भ्प्_06.01.011।0 श्रीबादरायणिरुवाच
कर्मणा कर्मनिर्हारो न ह्य् आत्यन्तिक इष्यते ।
अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम्
नाश्नतः पथ्यमेवान्नं व्याधयो ऽभिभवन्ति हि ।
एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते
तपसा ब्रह्मचर्येण शमेन च दमेन च ।
त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा
देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः ।
क्षिपन्त्य् अघं महदपि वेणुगुल्ममिवानलः
केचित् केवलया भक्त्या वासुदेवपरायणाः ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः
न तथा ह्य् अघवान् राजन् पूयेत तपाअदिभिः ।
यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया
सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमो ऽकुतोभयः ।
सुशीलाः साधवो यत्र नारायणपरायणाः
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् ।
न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः
सकृन् मनः कृष्णपदारविन्दयोर् निवेशितं तद्गुणरागि यैरिह ।
न ते यमं पाशभृतश्च तद्भटान् स्वप्ने ऽपि पश्यन्ति हि चीर्णनिष्कृताः
अत्र चोदाहरन्तीममितिहासं पुरातनम् ।
दूतानां विष्णुयमयोः संवादस्तं निबोध मे
कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः ।
नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः
बन्द्यक्षैः कैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः ।
बिभ्रत् कुटुम्बमशुचिर्यातयामास देहिनः
एवं निवसतस्तस्य लालयानस्य तत्सुतान् ।
कालो ऽत्यगान् महान् राजन्नष्टाशीत्यायुषः समाः
तस्य प्रवयसः पुत्रा दश तेषां तु यो ऽवमः ।
बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम्
स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि ।
निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम्
भुञ्जानः प्रपिबन् खादन् बालकं स्नेहयन्त्रितः ।
भोजयन् पाययन् मूढो न वेदागतमन्तकम्
स एवं वर्तमानो ऽज्ञो मृत्युकाल उपस्थिते ।
मतिं चकार तनये बाले नारायणाह्वये
स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् अतिदारुणान् ।
वक्रतुण्डान् ऊर्ध्वरोम्ण आत्मानं नेतुमागतान्
दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् ।
प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः
निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् ।
भर्तुर्नाम महाराज पार्षदाः सहसापतन्
विकर्षतो ऽन्तर्हृदयाद्दासीपतिमजामिलम् ।
यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा
ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः ।
के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम्
कस्य वा कुत आयाताः कस्मादस्य निषेधथ ।
किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः
सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः ।
किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः
सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः ।
धनुर्निषङ्गासिगदा शङ्खचक्राम्बुजश्रियः
दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा ।
किमर्थं धर्मपालस्य किङ्करान् नो निषेधथ
भ्प्_06.01.037।0 श्रीशुक उवाच
इत्य् उक्ते यमदूतैस्ते वासुदेवोक्तकारिणः ।
तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा
भ्प्_06.01.038।0 श्रीविष्णुदूता ऊचुः
यूयं वै धर्मराजस्य यदि निर्देशकारिणः ।
ब्रूत धर्मस्य नस्तत्त्वं यच् चाधर्मस्य लक्षणम्
कथं स्विद्ध्रियते दण्डः किं वास्य स्थानमीप्सितम् ।
दण्ड्याः किं कारिणः सर्वे आहो स्वित् कतिचिन् नृणाम्
भ्प्_06.01.040।0 यमदूता ऊचुः
वेदप्रणिहितो धर्मो ह्य् अधर्मस्तद्विपर्ययः ।
वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रुम
येन स्वधाम्न्य् अमी भावा रजःसत्त्वतमोमयाः ।
गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम्
सूर्यो ऽग्निः खं मरुद्देवः सोमः सन्ध्याहनी दिशः ।
कं कुः स्वयं धर्म इति ह्य् एते दैह्यस्य साक्षिणः
एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते ।
सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः
सम्भवन्ति हि भद्राणि विपरीतानि चानघाः ।
कारिणां गुणसङ्गो ऽस्ति देहवान् न ह्य् अकर्मकृत्
येन यावान् यथाधर्मो धर्मो वेह समीहितः ।
स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै
यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते ।
भूतेषु गुणवैचित्र्यात् तथान्यत्रानुमीयते
वर्तमानो ऽन्ययोः कालो गुणाभिज्ञापको यथा ।
एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम्
मनसैव पुरे देवः पूर्वरूपं विपश्यति ।
अनुमीमांसते ऽपूर्वं मनसा भगवान् अजः
यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि ।
न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा
पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः ।
एकस्तु षोडशेन त्रीन् स्वयं सप्तदशो ऽश्नुते
तदेतत् षोडशकलं लिङ्गं शक्तित्रयं महत् ।
धत्ते ऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम्
देह्य् अज्ञो ऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते ।
कोशकार इवात्मानं कर्मणाच्छाद्य मुह्यति
न हि कश्चित् क्षणमपि जातु तिष्ठत्य् अकर्मकृत् ।
कार्यते ह्य् अवशः कर्म गुणैः स्वाभाविकैर्बलात्
लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्य् उत ।
यथायोनि यथाबीजं स्वभावेन बलीयसा
एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः ।
आसीत् स एव न चिरादीशसङ्गाद्विलीयते
अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः ।
धृतव्रतो मृदुर्दान्तः सत्यवाङ् मन्त्रविच् छुचिः
गुर्वग्न्यतिथिवृद्धानां शुश्रूषुरनहङ्कृतः ।
सर्वभूतसुहृत् साधुर्मितवाग् अनसूयकः
एकदासौ वनं यातः पितृसन्देशकृद्द्विजः ।
आदाय तत आवृत्तः फलपुष्पसमित्कुशान्
ददर्श कामिनं कञ्चिच् छूद्रं सह भुजिष्यया ।
पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया
मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् ।
क्रीडन्तमनुगायन्तं हसन्तमनयान्तिके
दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् ।
जगाम हृच्छयवशं सहसैव विमोहितः
स्तम्भयन्नात्मनात्मानं यावत् सत्त्वं यथाश्रुतम् ।
न शशाक समाधातुं मनो मदनवेपितम्
तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः ।
तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह
तामेव तोषयामास पित्र्येणार्थेन यावता ।
ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा
विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् ।
विससर्जाचिरात् पापः स्वैरिण्यापाङ्गविद्धधीः
यतस्ततश्चोपनिन्ये न्यायतो ऽन्यायतो धनम् ।
बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम्
यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्य् अतिगर्हितः ।
अवर्तत चिरं कालमघायुरशुचिर्मलात्
तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् ।
नेष्यामो ऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0