भागवत पुराण · अध्याय 05.26
_*
भ्प्_05.26.001।0 राजोवाच
महर्ष एतद् वैचित्र्यं लोकस्य कथम् इति
_*
भ्प्_05.26.002।0 ऋषिर् उवाच
त्रि-गुणत्वात् कर्तुः श्रद्धया कर्म-गतयः पृथग्-विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति
_*
अथेदानीं प्रतिषिद्ध-लक्षणस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात् कर्म-फलं विसदृशं भवति या ह्य् अनाद्य्-अविद्यया कृत-कामानां तत्-परिणाम-लक्षणाः सृतयः सहस्रशः प्रवृत्तास् तासां प्राचुर्येणानुवर्णयिष्यामः
_*
भ्प्_05.26.003।0 राजोवाच
नरका नाम भगवन् किं देश-विशेषा अथवा बहिस् त्रि-लोक्या आहोस्विद् अन्तराल इति
_*
भ्प्_05.26.004।0 ऋषिर् उवाच
अन्तराल एव त्रि-जगत्यास् तु दिशि दक्षिणस्याम् अधस्ताद् भूमेर् उपरिष्टाच् च जलाद् यस्याम् अग्निष्वात्तादयः पितृ-गणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति
_*
यत्र ह वाव भगवान् पितृ-राजो वैवस्वतः स्व-विषयं प्रापितेषु स्व-पुरुषैर् जन्तुषु सम्परेतेषु यथा-कर्मावद्यं दोषम् एवानुल्लङ्घित-भगवच्-छासनः सगणो दमं धारयति
_*
तत्र हैके नरकान् एक-विंशतिं गणयन्ति अथ तांस् ते राजन् नाम-रूप-लक्षणतो ऽनुक्रमिष्यामस् तामिस्रो ऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रम् असिपत्रवनं सूकरमुखम् अन्धकूपः कृमिभोजनः सन्दंशस् तप्तसूर्मिर् वज्रकण्टक-शाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनम् अवीचिर् अयःपानम् इति किञ्च क्षारकर्दमो रक्षोगण-भोजनः शूलप्रोतो दन्दशूको ऽवट-निरोधनः पर्यावर्तनः सूचीमुखम् इत्य् अष्टा-विंशतिर् नरका विविध-यातना-भूमयः
_*
तत्र यस् तु पर-वित्तापत्य-कलत्राण्य् अपहरति स हि काल-पाश-बद्धो यम-पुरुषैर् अति-भयानकैस् तामिस्रे नरके बलान् निपात्यते अनशनानुदपान-दण्ड-ताडन-सन्तर्जनादिभिर् यातनाभिर् यात्यमानो जन्तुर् यत्र कश्मलम् आसादित एकदैव मूर्च्छाम् उपयाति तामिस्र-प्राये
_*
एवम् एवान्धतामिस्रे यस् तु वञ्चयित्वा पुरुषं दारादीन् उपयुङ्क्ते यत्र शरीरी निपात्यमानो यातना-स्थो वेदनया नष्ट-मतिर् नष्ट-दृष्टिश् च भवति यथा वनस्पतिर् वृश्च्यमान-मूलस् तस्माद् अन्धतामिस्रं तम् उपदिशन्ति
_*
यस् त्व् इह वा एतद् अहम् इति ममेदम् इति भूत-द्रोहेण केवलं स्व-कुटुम्बम् एवानुदिनं प्रपुष्णाति स तद् इह विहाय स्वयम् एव तद्-अशुभेन रौरवे निपतति
_*
ये त्व् इह यथैवामुना विहिंसिता जन्तवः परत्र यम-यातनाम् उपगतं त एव रुरवो भूत्वा तथा तम् एव विहिंसन्ति तस्माद् रौरवम् इत्य् आहू रुरुर् इति सर्पाद् अति-क्रूर-सत्त्वस्यापदेशः
_*
एवम् एव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस् तं क्रव्येण घातयन्ति यः केवलं देहम्भरः
_*
यस् त्व् इह वा उग्रः पशून् पक्षिणो वा प्राणत उपरन्धयति तम् अपकरुणं पुरुषादैर् अपि विगर्हितम् अमुत्र यमानुचराः कुम्भीपाके तप्त-तैले उपरन्धयन्ति
_*
यस् त्व् इह ब्रह्म-ध्रुक् स कालसूत्र-संज्ञके नरके अयुत-योजन-परिमण्डले ताम्रमये तप्त-खले उपर्य्-अधस्ताद् अग्न्य्-अर्काभ्याम् अति-तप्यमाने ऽभिनिवेशितः क्षुत्-पिपासाभ्यां च दह्यमानान्तर्-बहिः-शरीर आस्ते शेते चेष्टते ऽवतिष्ठति परिधावति च यावन्ति पशु-रोमाणि तावद् वर्ष-सहस्राणि
_*
यस् त्व् इह वै निज-वेद-पथाद् अनापद्य् अपगतः पाखण्डं चोपगतस् तम् असि-पत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासाव् इतस् ततो धावमान उभयतो धारैस् ताल-वनासि-पत्रैश् छिद्यमान-सर्वाङ्गो हा हतो ऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्व-धर्महा पाखण्डानुगतं फलं भुङ्क्ते
_*
यस् त्व् इह वै राजा राज-पुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीर-दण्डं स पापीयान् नरके ऽमुत्र सूकरमुखे निपतति तत्रातिबलैर् विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्त-स्वरेण स्वनयन् क्वचिन् मूर्च्छितः कश्मलम् उपगतो यथैवेहा-दृष्ट-दोषा उपरुद्धाः
_*
यस् त्व् इह वै भूतानाम् ईश्वरोपकल्पित-वृत्तीनाम् अविविक्त-पर-व्यथानां स्वयं पुरुषोपकल्पित-वृत्तिर् विविक्त-पर-व्यथो व्यथाम् आचरति स परत्रान्धकूपे तद्-अभिद्रोहेण निपतति तत्र हासौ तैर् जन्तुभिः पशु-मृग-पक्षि-सरीसृपैर् मशक-यूका-मत्कुण-मक्षिकादिभिर् ये के चाभिद्रुग्धास् तैः सर्वतो ऽभिद्रुह्यमाणस् तमसि विहत-निद्रा-निर्वृतिर् अलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः
_*
यस् त्व् इह वा असंविभज्याश्नाति यत् किञ्चनोपनतम् अनिर्मित-पञ्च-यज्ञो वायस-संस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र शत-सहस्र-योजने कृमि-कुण्डे कृमि-भूतः स्वयं कृमिभिर् एव भक्ष्यमाणः कृमि-भोजनो यावत् तद् अप्रत्ताप्रहूतादो ऽनिर्वेशम् आत्मानं यातयते
_*
यस् त्व् इह वै स्तेयेन बलाद् वा हिरण्य-रत्नादीनि ब्राह्मणस्य वापहरत्य् अन्यस्य वानापदि पुरुषस् तम् अमुत्र राजन् यम-पुरुषा अयस्मयैर् अग्नि-पिण्डैः सन्दंशैस् त्वचि निष्कुषन्ति
_*
यस् त्व् इह वा अगम्यां स्त्रियम् अगम्यं वा पुरुषं योषिद् अभिगच्छति ताव् अमुत्र कशया ताडयन्तस् तिग्मया सूर्म्या लोहमय्या पुरुषम् आलिङ्गयन्ति स्त्रियं च पुरुष-रूपया सूर्म्या
_*
यस् त्व् इह वै सर्वाभिगमस् तम् अमुत्र निरये वर्तमानं वज्रकण्टक-शाल्मलीम् आरोप्य निष्कर्षन्ति
_*
ये त्व् इह वै राजन्या राज-पुरुषा वा अपाखण्डा धर्म-सेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्न-मर्यादास् तस्यां निरय-परिखा-भूतायां नद्यां यादो-गणैर् इतस् ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश् चासुभिर् उह्यमानाः स्वाघेन कर्म-पाकम् अनुस्मरन्तो विण्-मूत्र-पूय-शोणित-केश-नखास्थि-मेदो-मांस-वसा-वाहिन्याम् उपतप्यन्ते
_*
ये त्व् इह वै वृषली-पतयो नष्ट-शौचाचार-नियमास् त्यक्त-लज्जाः पशु-चर्यां चरन्ति ते चापि प्रेत्य पूय-विण्-मूत्र-श्लेष्म-मला-पूर्णार्णवे निपतन्ति तद् एवातिबीभत्सितम् अश्नन्ति
_*
ये त्व् इह वै श्व-गर्दभ-पतयो ब्राह्मणादयो मृगया विहारा अतीर्थे च मृगान् निघ्नन्ति तान् अपि सम्परेतान् लक्ष्य-भूतान् यम-पुरुषा इषुभिर् विध्यन्ति
_*
ये त्व् इह वै दाम्भिका दम्भ-यज्ञेषु पशून् विशसन्ति तान् अमुष्मिन् लोके वैशसे नरके पतितान् निरय-पतयो यातयित्वा विशसन्ति
_*
यस् त्व् इह वै सवर्णां भार्यां द्विजो रेतः पाययति काम-मोहितस् तं पाप-कृतम् अमुत्र रेतः-कुल्यायां पातयित्वा रेतः सम्पाययन्ति
_*
ये त्व् इह वै दस्यवो ऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राज-भटा वा तांश् चापि हि परेत्य यमदूता वज्र-दंष्ट्राः श्वानः सप्त-शतानि विंशतिश् च सरभसं खादन्ति
_*
यस् त्व् इह वा अनृतं वदति साक्ष्ये द्रव्य-विनिमये दाने वा कथञ्चित् स वै प्रेत्य नरके ऽवीचिमत्य् अधः-शिरा निरवकाशे योजन-शतोच्छ्रायाद् गिरि-मूर्ध्नः सम्पात्यते यत्र जलम् इव स्थलम् अश्म-पृष्ठम् अवभासते तद् अवीचिमत् तिलशो विशीर्यमाण-शरीरो न म्रियमाणः पुनर् आरोपितो निपतति
_*
यस् त्व् इह वै विप्रो राजन्यो वैश्यो वा सोम-पीथस् तत्-कलत्रं वा सुरां व्रत-स्थो ऽपि वा पिबति प्रमादतस् तेषां निरयं नीतानाम् उरसि पदाक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति
_*
अथ च यस् त्व् इह वा आत्म-सम्भावनेन स्वयम् अधमो जन्म-तपो-विद्याचार-वर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरये ऽवाक्-शिरा निपातितो दुरन्ता यातना ह्य् अश्नुते
_*
ये त्व् इह वै पुरुषाः पुरुष-मेधेन यजन्ते याश् च स्त्रियो नृ-पशून् खादन्ति तांश् च ते पशव इव निहता यम-सदने यातयन्तो रक्षो-गणाः सौनिका इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादाः
_*
ये त्व् इह वा अनागसो ऽरण्ये ग्रामे वा वैश्रम्भकैर् उपसृतान् उपविश्रम्भय्य जिजीविषून् शूल-सूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति ते ऽपि च प्रेत्य यम-यातनासु शूलादिषु प्रोतात्मानः क्षुत्-तृड्भ्यां चाभिहताः कङ्क-वटादिभिश् चेतस् ततस् तिग्म-तुण्डैर् आहन्यमाना आत्म-शमलं स्मरन्ति
_*
ये त्व् इह वै भूतान्य् उद्वेजयन्ति नरा उल्बण-स्वभावा यथा दन्दशूकास् ते ऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्च-मुखाः सप्त-मुखा उपसृत्य ग्रसन्ति यथा बिलेशयान्
_*
ये त्व् इह वा अन्धावट-कुसूल-गुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्व् एवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति
_*
यस् त्व् इह वा अतिथीन् अभ्यागतान् वा गृह-पतिर् असकृद् उपगत-मन्युर् दिधक्षुर् इव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पाप-दृष्टेर् अक्षिणी वज्र-तुण्डा गृध्राः कङ्क-काक-वटादयः प्रसह्योरु-बलाद् उत्पाटयन्ति
_*
यस् त्व् इह वा आढ्याभिमतिर् अहङ्कृतिस् तिर्यक्-प्रेक्षणः सर्वतो ऽभिविशङ्की अर्थ-व्यय-नाश-चिन्तया परिशुष्यमाण-हृदय-वदनो निर्वृतिम् अनवगतो ग्रह इवार्थम् अभिरक्षति स चापि प्रेत्य तद्-उत्पादनोत्कर्षण-संरक्षण-शमल-ग्रहः सूचीमुखे नरके निपतति यत्र ह वित्त-ग्रहं पाप-पुरुषं धर्मराज-पुरुषा वायका इव सर्वतो ऽङ्गेषु सूत्रैः परिवयन्ति
_*
एवं-विधा नरका यमालये सन्ति शतशः सहस्रशस् तेषु सर्वेषु च सर्व एवाधर्म-वर्तिनो ये केचिद् इहोदिता अनुदिताश् चावनि-पते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्-भवे त उभय-शेषाभ्यां निविशन्ति
_*
निवृत्ति-लक्षण-मार्ग आदाव् एव व्याख्यातः एतावान् एवाण्ड-कोशो यश् चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत् तद् भगवतो नारायणस्य साक्षान् महा-पुरुषस्य स्थविष्ठं रूपम् आत्ममाया-गुणमयम् अनुवर्णितम् आदृतः पठति शृणोति श्रावयति स उपगेयं भगवतः परमात्मनो ऽग्राह्यम् अपि श्रद्धा-भक्ति-विशुद्ध-बुद्धिर् वेद
_*
श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः ।
स्थूले निर्जितम् आत्मानं शनैः सूक्ष्मं धिया नयेद् इति
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0