भागवत पुराण · अध्याय 05.25
_*
भ्प्_05.25.001।0 श्री-शुक उवाच
तस्य मूल-देशे त्रिंशद्-योजन-सहस्रान्तर आस्ते या वै कला भगवतस् तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृ-दृश्ययोः सङ्कर्षणम् अहम् इत्य् अभिमान-लक्षणं यं सङ्कर्षणम् इत्य् आचक्षते
_*
यस्येदं क्षिति-मण्डलं भगवतो ऽनन्त-मूर्तेः सहस्र-शिरस एकस्मिन्न् एव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते
_*
यस्य ह वा इदं कालेनोपसञ्जिहीर्षतो ऽमर्ष-विरचित-रुचिर-भ्रमद्-भ्रुवोर् अन्तरेण साङ्कर्षणो नाम रुद्र एकादश-व्यूहस् त्र्य्-अक्षस् त्रि-शिखं शूलम् उत्तम्भयन्न् उदतिष्ठत्
_*
यस्याङ्घ्रि-कमल-युगलारुण-विशद-नख-मणि-षण्ड-मण्डलेष्व् अहि-पतयः सह सात्वतर्षभैर् एकान्त-भक्ति-योगेनावनमन्तः स्व-वदनानि परिस्फुरत्-कुण्डल-प्रभा-मण्डित-गण्ड-स्थलान्य् अति-मनोहराणि प्रमुदित-मनसः खलु विलोकयन्ति
_*
यस्यैव हि नाग-राज-कुमार्य आशिष आशासानाश् चार्व्-अङ्ग-वलय-विलसित-विशद-विपुल-धवल-सुभग-रुचिर-भुज-रजत-स्तम्भेष्व् अगुरु-चन्दन-कुङ्कुम-पङ्कानुलेपेनावलिम्पमानास् तद्-अभिमर्शनोन्मथित-हृदय-मकर-ध्वजावेश-रुचिर-ललित-स्मितास् तद्-अनुरागमद-मुदित-मद-विघूर्णितारुण-करुणावलोक-नयन-वदनारविन्दं सव्रीडं किल विलोकयन्ति
_*
स एव भगवान् अनन्तो ऽनन्त-गुणार्णव आदि-देव उपसंहृतामर्ष-रोष-वेगो लोकानां स्वस्तय आस्ते
_*
ध्यायमानः सुरासुरोरग-सिद्ध-गन्धर्व-विद्याधर-मुनि-गणैर् अनवरत-मद-मुदित-विकृत-विह्वल-लोचनः सुललित-मुखरिकामृतेनाप्यायमानः स्व-पार्षद-विबुध-यूथ-पतीन् अपरिम्लान-राग-नव-तुलसिकामोद-मध्व्-आसवेन माद्यन् मधुकर-व्रात-मधुर-गीत-श्रियं वैजयन्तीं स्वां वनमालां नील-वासा एक-कुण्डलो हल-ककुदि कृत-सुभग-सुन्दर-भुजो भगवान् महेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षाम् उदार-लीलो बिभर्ति
_*
य एष एवम् अनुश्रुतो ध्यायमानो मुमुक्षूणाम् अनादि-काल-कर्म-वासना-ग्रथितम् अविद्यामयं हृदय-ग्रन्थिं सत्त्व-रजस्-तमोमयम् अन्तर्-हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयाम् आस
_*
उत्पत्ति-स्थिति-लय-हेतवो ऽस्य कल्पाः $ सत्त्वाद्याः प्रकृति-गुणा यद्-ईक्षयासन् &
उत्पत्ति-स्थिति-लय-हेतवो ऽस्य कल्पाः $ सत्त्वाद्याः प्रकृति-गुणा यद्-ईक्षयासन् &
यद्-रूपं ध्रुवम् अकृतं यद् एकम् आत्मन् % नानाधात् कथम् उ ह वेद तस्य वर्त्म ॥ भ्प्_05.25.009* ॥
मूर्तिं नः पुरु-कृपया बभार सत्त्वं $ संशुद्धं सद्-असद् इदं विभाति तत्र &
मूर्तिं नः पुरु-कृपया बभार सत्त्वं $ संशुद्धं सद्-असद् इदं विभाति तत्र &
यल्-लीलां मृग-पतिर् आददे ऽनवद्याम् % आदातुं स्वजन-मनांस्य् उदार-वीर्यः ॥ भ्प्_05.25.010* ॥
यन्-नाम श्रुतम् अनुकीर्तयेद् अकस्माद् $ आर्तो वा यदि पतितः प्रलम्भनाद् वा &
यन्-नाम श्रुतम् अनुकीर्तयेद् अकस्माद् $ आर्तो वा यदि पतितः प्रलम्भनाद् वा &
हन्त्य् अंहः सपदि नृणाम् अशेषम् अन्यं % कं शेषाद् भगवत आश्रयेन् मुमुक्षुः ॥ भ्प्_05.25.011* ॥
मूर्धन्य् अर्पितम् अणुवत् सहस्र-मूर्ध्नो $ भू-गोलं सगिरि-सरित्-समुद्र-सत्त्वम् &
मूर्धन्य् अर्पितम् अणुवत् सहस्र-मूर्ध्नो $ भू-गोलं सगिरि-सरित्-समुद्र-सत्त्वम् &
आनन्त्याद् अनिमित-विक्रमस्य भूम्नः % को वीर्याण्य् अधि गणयेत् सहस्र-जिह्वः ॥ भ्प्_05.25.012* ॥
एवम्-प्रभावो भगवान् अनन्तो $ दुरन्त-वीर्योरु-गुणानुभावः &
एवम्-प्रभावो भगवान् अनन्तो $ दुरन्त-वीर्योरु-गुणानुभावः &
मूले रसायाः स्थित आत्म-तन्त्रो % यो लीलया क्ष्मां स्थितये बिभर्ति ॥ भ्प्_05.25.013* ॥
एता ह्य् एवेह नृभिर् उपगन्तव्या गतयो यथा-कर्म-विनिर्मिता यथोपदेशम् अनुवर्णिताः कामान् कामयमानैः
_*
एतावतीर् हि राजन् पुंसः प्रवृत्ति-लक्षणस्य धर्मस्य विपाक-गतय उच्चावचा विसदृशा यथा-प्रश्नं व्याचख्ये किम् अन्यत् कथयाम इति
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0