भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.24

05.24.001

भ्प्_05.24.001।0 श्री-शुक उवाच
अधस्तात् सवितुर् योजनायुते स्वर्भानुर् नक्षत्रवच् चरतीत्य् एके यो ऽसाव् अमरत्वं ग्रहत्वं चालभत भगवद्-अनुकम्पया स्वयम् असुरापसदः सैंहिकेयो ह्य् अतद्-अर्हस् तस्य तात जन्म कर्माणि चोपरिष्टाद् वक्ष्यामः

05.24.002

_*
यद् अदस् तरणेर् मण्डलं प्रतपतस् तद् विस्तरतो योजनायुतम् आचक्षते द्वादश-सहस्रं सोमस्य त्रयोदश-सहस्रं राहोर् यः पर्वणि तद्-व्यवधान-कृद् वैरानुबन्धः सूर्या-चन्द्रमसाव् अभिधावति

05.24.003

_*
तन् निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितम् अस्त्रं तत् तेजसा दुर्विषहं मुहुः परिवर्तमानम् अभ्यवस्थितो मुहूर्तम् उद्विजमानश् चकित-हृदय आराद् एव निवर्तते तद् उपरागम् इति वदन्ति लोकाः

05.24.004

_*
ततो ऽधस्तात् सिद्ध-चारण-विद्याधराणां सदनानि तावन् मात्र एव

05.24.005

_*
ततो ऽधस्ताद् यक्ष-रक्षः-पिशाच-प्रेत-भूत-गणानां विहाराजिरम् अन्तरिक्षं यावद् वायुः प्रवाति यावन् मेघा उपलभ्यन्ते

05.24.006

_*
ततो ऽधस्ताच् छत-योजनान्तर इयं पृथिवी यावद् धंस-भास-श्येन-सुपर्णादयः पतत्त्रि-प्रवरा उत्पतन्तीति

05.24.007

_*
उपवर्णितं भूमेर् यथा-सन्निवेशावस्थानम् अवनेर् अप्य् अधस्तात् सप्त भू-विवरा एकैकशो योजनायुतान्तरेणायाम-विस्तारेणोपकॢप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालम् इति

05.24.008

_*
एतेषु हि बिल-स्वर्गेषु स्वर्गाद् अप्य् अधिक-काम-भोगैश्वर्यानन्द-भूति-विभूतिभिः सुसमृद्ध-भवनोद्यानाक्रीड-विहारेषु दैत्य-दानव-काद्रवेया नित्य-प्रमुदितानुरक्त-कलत्रापत्य-बन्धु-सुहृद्-अनुचरा गृह-पतय ईश्वराद् अप्य् अप्रतिहत-कामा माया-विनोदा निवसन्ति

05.24.009

_*
येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नाना-मणि-प्रवर-प्रवेक-विरचित-विचित्र-भवन-प्राकार-गोपुर-सभा-चैत्य-चत्वरायतनादिभिर् नागासुर-मिथुन-पारावत-शुक-सारिकाकीर्ण-कृत्रिम-भूमिभिर् विवरेश्वर-गृहोत्तमैः समलङ्कृताश् चकासति

05.24.010

_*
उद्यानानि चातितरां मन-इन्द्रियानन्दिभिः कुसुम-फल-स्तबक-सुभग-किसलयावनत-रुचिर-विटप-विटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुन-विविध-विहङ्गम-जलाशयानाम् अमल-जल-पूर्णानां झषकुलोल्लङ्घन-क्षुभित-नीर-नीरज-कुमुद-कुव-लय-कह्लार-नीलोत्पल-लोहित-शतपत्रादि-वनेषु कृत-निकेतनानाम् एक-विहाराकुल-मधुर-विविध-स्वनादिभिर् इन्द्रियोत्सवैर् अमर-लोक-श्रियम् अतिशयितानि

05.24.011

_*
यत्र ह वाव न भयम् अहो-रात्रादिभिः काल-विभागैर् उपलक्ष्यते

05.24.012

_*
यत्र हि महाहि-प्रवर-शिरो-मणयः सर्वं तमः प्रबाधन्ते

05.24.013

_*
न वा एतेषु वसतां दिव्यौषधि-रस-रसायनान्न-पान-स्नानादिभिर् आधयो व्याधयो वली-पलित-जरादयश् च देह-वैवर्ण्य-दौर्गन्ध्य-स्वेद-क्लम-ग्लानिर् इति वयो ऽवस्थाश् च भवन्ति

05.24.014

_*
न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर् विना भगवत्-तेजसश् चक्रापदेशात्

05.24.015

_*
यस्मिन् प्रविष्टे ऽसुर-वधूनां प्रायः पुंसवनानि भयाद् एव स्रवन्ति पतन्ति च

05.24.016

_*
अथातले मय-पुत्रो ऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्-णवतिर् मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस् त्रयः स्त्री-गणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्व-विलासावलोकनानुराग-स्मित-संलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्न् उपयुक्ते पुरुष ईश्वरो ऽहं सिद्धो ऽहम् इत्य् अयुत-महा-गज-बलम् आत्मानम् अभिमन्यमानः कत्थते मदान्ध इव

05.24.017

_*
ततो ऽधस्ताद् वितले हरो भगवान् हाटकेश्वरः स्व-पार्षद-भूत-गणावृतः प्रजापति-सर्गोपबृंहणाय भवो भवान्या सह मिथुनी-भूत आस्ते यतः प्रवृत्ता सरित्-प्रवरा हाटकी नाम भवयोर् वीर्येण यत्र चित्रभानुर् मातरिश्वना समिध्यमान ओजसा पिबति तन् निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर् धारयन्ति

05.24.018

_*
ततो ऽधस्तात् सुतले उदार-श्रवाः पुण्य-श्लोको विरोचनात्मजो बलिर् भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर् लब्ध-कायो भूत्वा वटु-वामन-रूपेण पराक्षिप्त-लोक-त्रयो भगवद्-अनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्व् अविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्व-धर्मेणाराधयंस् तम् एव भगवन्तम् आराधनीयम् अपगत-साध्वस आस्ते ऽधुनापि

05.24.019

_*
नो एवैतत् साक्षात्कारो भूमि-दानस्य यत् तद् भगवत्य् अशेष-जीव-निकायानां जीव-भूतात्म-भूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादर-समाहित-मनसा सम्प्रतिपादितस्य साक्षाद् अपवर्ग-द्वारस्य यद् बिल-निलयैश्वर्यम्

05.24.020

_*
यस्य ह वाव क्षुत-पतन-प्रस्खलनादिषु विवशः सकृन् नामाभिगृणन् पुरुषः कर्म-बन्धनम् अञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवो ऽन्यथैवोपलभन्ते

05.24.021

_*
तद् भक्तानाम् आत्मवतां सर्वेषाम् आत्मन्य् आत्मद आत्मतयैव

05.24.022

_*
न वै भगवान् नूनम् अमुष्यानुजग्राह यद् उत पुनर् आत्मानुस्मृति-मोषणं मायामय-भोगैश्वर्यम् एवातनुतेति

05.24.023

_*
यत् तद् भगवतानधिगतान्योपायेन याच्ञा-च्छलेनापहृत-स्व-शरीरावशेषित-लोक-त्रयो वरुण-पाशैश् च सम्प्रतिमुक्तो गिरि-दर्यां चापविद्ध इति होवाच

05.24.024

_*
नूनं बतायं भगवान् अर्थेषु न निष्णातो यो ऽसाव् इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस् तम् अतिहाय स्वयम् उपेन्द्रेणात्मानम् अयाचतात्मनश् चाशिषो नो एव तद्-दास्यम् अति-गम्भीर-वयसः कालस्य मन्वन्तर-परिवृत्तं कियल् लोक-त्रयम् इदम्

05.24.025

_*
यस्यानुदास्यम् एवास्मत्-पितामहः किल वव्रे न तु स्व-पित्र्यं यद् उताकुतोभयं पदं दीयमानं भगवतः परम् इति भगवतोपरते खलु स्व-पितरि

05.24.026

_*
तस्य महानुभावस्यानुपथम् अमृजित-कषायः को वास्मद्-विधः परिहीण-भगवद्-अनुग्रह उपजिगमिषतीति

05.24.027

_*
तस्यानुचरितम् उपरिष्टाद् विस्तरिष्यते यस्य भगवान् स्वयम् अखिल-जगद्-गुरुर् नारायणो द्वारि गदा-पाणिर् अवतिष्ठते निज-जनानुकम्पित-हृदयो येनाङ्गुष्ठेन पदा दश-कन्धरो योजनायुतायुतं दिग्-विजय उच्चाटितः

05.24.028

_*
ततो ऽधस्तात् तलातले मयो नाम दानवेन्द्रस् त्रि-पुराधिपतिर् भगवता पुरारिणा त्रि-लोकी-शं चिकीर्षुणा निर्दग्ध-स्व-पुर-त्रयस् तत्-प्रसादाल् लब्ध-पदो मायाविनाम् आचार्यो महादेवेन परिरक्षितो विगत-सुदर्शन-भयो महीयते

05.24.029

_*
ततो ऽधस्तान् महातले काद्रवेयाणां सर्पाणां नैक-शिरसां क्रोधवशो नाम गणः कुहक-तक्षक-कालिय-सुषेणादि-प्रधाना महा-भोगवन्तः पतत्त्रि-राजाधिपतेः पुरुष-वाहाद् अनवरतम् उद्विजमानाः स्व-कलत्रापत्य-सुहृत्-कुटुम्ब-सङ्गेन क्वचित् प्रमत्ता विहरन्ति

05.24.030

_*
ततो ऽधस्ताद् रसातले दैतेया दानवाः पणयो नाम निवात-कवचाः कालेया हिरण्य-पुरवासिन इति विबुध-प्रत्यनीका उत्पत्त्या महौजसो महा-साहसिनो भगवतः सकल-लोकानुभावस्य हरेर् एव तेजसा प्रतिहत-बलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्र-दूत्या वाग्भिर् मन्त्र-वर्णाभिर् इन्द्राद् बिभ्यति

05.24.031

_*
ततो ऽधस्तात् पाताले नाग-लोक-पतयो वासुकि-प्रमुखाः शङ्ख-कुलिक-महाशङ्ख-श्वेत-धनञ्जय-धृतराष्ट्र-शङ्खचूड-कम्बलाश्वतर-देवदत्तादयो महा-भोगिनो महामर्षा निवसन्ति येषाम् उ ह वै पञ्च-सप्त-दश-शत-सहस्र-शीर्षाणां फणासु विरचिता महा-मणयो रोचिष्णवः पाताल-विवर-तिमिर-निकरं स्व-रोचिषा विधमन्ति

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc