भागवत पुराण · अध्याय 05.23
_*
भ्प्_05.23.001।0 श्री-शुक उवाच
अथ तस्मात् परतस् त्रयोदश-लक्ष-योजनान्तरतो यत् तद् विष्णोः परमं पदम् अभिवदन्ति यत्र ह महा-भागवतो ध्रुव औत्तानपादिर् अग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकाल-युग्भिः सबहु-मानं दक्षिणतः क्रियमाण इदानीम् अपि कल्प-जीविनाम् आजीव्य उपास्ते तस्येहानुभाव उपवर्णितः
_*
स हि सर्वेषां ज्योतिर्-गणानां ग्रह-नक्षत्रादीनाम् अनिमिषेणाव्यक्त-रंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुर् इवावष्टम्भ ईश्वरेण विहितः शश्वद् अवभासते
_*
यथा मेढीस्तम्भ आक्रमण-पशवः संयोजितास् त्रिभिस् त्रिभिः सवनैर् यथा-स्थानं मण्डलानि चरन्त्य् एवं भगणा ग्रहादय एतस्मिन्न् अन्तर्-बहिर्-योगेन काल-चक्र आयोजिता ध्रुवम् एवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ् क्रमन्ति नभसि यथा मेघाः श्येनादयो वायु-वशाः कर्म-सारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृति-पुरुष-संयोगानुगृहीताः कर्म-निर्मित-गतयो भुवि न पतन्ति
_*
केचनैतज् ज्योतिर्-अनीकं शिशुमार-संस्थानेन भगवतो वासुदेवस्य योग-धारणायाम् अनुवर्णयन्ति
_*
यस्य पुच्छाग्रे ऽवाक्शिरसः कुण्डली-भूत-देहस्य ध्रुव उपकल्पितस् तस्य लाङ्गूले प्रजापतिर् अग्निर् इन्द्रो धर्म इति पुच्छ-मूले धाता विधाता च कट्यां सप्तर्षयः तस्य दक्षिणावर्त-कुण्डली-भूत-शरीरस्य यान्य् उदगयनानि दक्षिण-पार्श्वे तु नक्षत्राण्य् उपकल्पयन्ति दक्षिणायनानि तु सव्ये यथा शिशुमारस्य कुण्डला-भोग-सन्निवेशस्य पार्श्वयोर् उभयोर् अप्य् अवयवाः समसङ्ख्या भवन्ति पृष्ठे त्व् अजवीथी आकाश-गङ्गा चोदरतः
_*
पुनर्वसु-पुष्यौ दक्षिण-वामयोः श्रोण्योर् आर्द्राश्लेषे च दक्षिण-वामयोः पश्चिमयोः पादयोर् अभिजिद्-उत्तराषाढे दक्षिण-वामयोर् नासिकयोर् यथा-सङ्ख्यं श्रवण-पूर्वाषाढे दक्षिण-वामयोर् लोचनयोर् धनिष्ठा मूलं च दक्षिण-वामयोः कर्णयोर् मघादीन्य् अष्ट नक्षत्राणि दक्षिणायनानि वाम-पार्श्व-वङ्क्रिषु युञ्जीत तथैव मृग-शीर्षादीन्य् उदगयनानि दक्षिण-पार्श्व-वङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषा-ज्येष्ठे स्कन्धयोर् दक्षिण-वामयोर् न्यसेत्
_*
उत्तरा-हनाव् अगस्तिर् अधरा-हनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्य् आदित्यो हृदये नारायणो मनसि चन्द्रो नाभ्याम् उशना स्तनयोर् अश्विनौ बुधः प्राणापानयो राहुर् गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारा-गणाः
_*
एतद् उ हैव भगवतो विष्णोः सर्व-देवतामयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्-लोकाय कालायनायानिमिषां पतये महा-पुरुषायाभिधीमहीति
_*
ग्रहर्क्षतारामयम् आधिदैविकं पापापहं मन्त्र-कृतां त्रि-कालम् ।
नमस्यतः स्मरतो वा त्रि-कालं नश्येत तत्-कालजम् आशु पापम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0