भागवत पुराण · अध्याय 05.22
_*
भ्प्_05.22.001।0 राजोवाच
यद् एतद् भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनाम् अभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितम् अमुष्य वयं कथम् अनुमिमीमहीति
_*
भ्प्_05.22.002।0 स होवाच
यथा कुलाल-चक्रेण भ्रमता सह भ्रमतां तद्-आश्रयाणां पिपीलिकादीनां गतिर् अन्यैव प्रदेशान्तरेष्व् अप्य् उपलभ्यमानत्वाद् एवं नक्षत्र-राशिभिर् उपलक्षितेन काल-चक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तद्-आश्रयाणां सूर्यादीनां ग्रहाणां गतिर् अन्यैव नक्षत्रान्तरे राश्य्-अन्तरे चोपलभ्यमानत्वात्
_*
स एष भगवान् आदि-पुरुष एव साक्षान् नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्म-विशुद्धि-निमित्तं कविभिर् अपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्व् ऋतुषु यथोप-जोषम् ऋतु-गुणान् विदधाति
_*
तम् एतम् इह पुरुषास् त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिर् आम्नातैर् योग-वितानैश् च श्रद्धया यजन्तो ऽञ्जसा श्रेयः समधिगच्छन्ति
_*
अथ स एष आत्मा लोकानां द्याव्-आपृथिव्योर् अन्तरेण नभो-वलयस्य कालचक्र-गतो द्वादश मासान् भुङ्क्ते राशि-संज्ञान् संवत्सरावयवान् मासः पक्ष-द्वयं दिवा नक्तं चेति सपादर्क्ष-द्वयम् उपदिशन्ति यावता षष्ठम् अंशं भुञ्जीत स वै ऋतुर् इत्य् उपदिश्यते संवत्सरावयवः
_*
अथ च यावतार्धेन नभो-वीथ्यां प्रचरति तं कालम् अयनम् आचक्षते
_*
अथ च यावन् नभो-मण्डलं सह द्याव्-आपृथिव्योर् मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरम् इडावत्सरम् अनुवत्सरं वत्सरम् इति भानोर् मान्द्य-शैघ्र्य-सम-गतिभिः समामनन्ति
_*
एवं चन्द्रमा अर्क-गभस्तिभ्य उपरिष्टाल् लक्ष-योजनत उपलभ्यमानो ऽर्कस्य संवत्सर-भुक्तिं पक्षाभ्यां मास-भुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्ष-भुक्तिम् अग्रचारी द्रुततर-गमनो भुङ्क्ते
_*
अथ चापूर्यमाणाभिश् च कलाभिर् अमराणां क्षीयमाणाभिश् च कलाभिः पित्-णाम् अहो-रात्राणि पूर्व-पक्षापर-पक्षाभ्यां वितन्वानः सर्व-जीव-निवह-प्राणो जीवश् चैकम् एकं नक्षत्रं त्रिंशता मुहूर्तैर् भुङ्क्ते
_*
य एष षोडश-कलः पुरुषो भगवान् मनोमयो ऽन्नमयो ऽमृतमयो देव-पितृ-मनुष्य-भूत-पशु-पक्षि-सरीसृप-वीरुधां प्राणाप्य् आयन-शीलत्वात् सर्वमय इति वर्णयन्ति
_*
तत उपरिष्टाद् द्वि-लक्ष-योजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वर-योजितानि सहाभिजिताष्टा-विंशतिः
_*
तत उपरिष्टाद् उशना द्वि-लक्ष-योजनत उपलभ्यते पुरतः पश्चात् सहैव वार्कस्य शैघ्र्य-मान्द्य-साम्याभिर् गतिभिर् अर्कवच् चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश् चारेणानुमीयते स वृष्टि-विष्टम्भ-ग्रहोपशमनः
_*
उशनसा बुधो व्याख्यातस् तत उपरिष्टाद् द्वि-लक्ष-योजनतो बुधः सोम-सुत उपलभ्यमानः प्रायेण शुभ-कृद् यदार्काद् व्यतिरिच्येत तदातिवाताभ्र-प्रायानावृष्ट्य्-आदि-भयम् आशंसते
_*
अत ऊर्ध्वम् अङ्गारको ऽपि योजन-लक्ष-द्वितय उपलभ्यमानस् त्रिभिस् त्रिभिः पक्षैर् एकैकशो राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभ-ग्रहो ऽघ-शंसः
_*
तत उपरिष्टाद् द्वि-लक्ष-योजनान्तर-गता भगवान् बृहस्पतिर् एकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात् प्रायेणानुकूलो ब्राह्मण-कुलस्य
_*
तत उपरिष्टाद् योजन-लक्ष-द्वयात् प्रतीयमानः शनैश्चर एकैकस्मिन् राशौ त्रिंशन् मासान् विलम्बमानः सर्वान् एवानुपर्येति तावद्भिर् अनुवत्सरैः प्रायेण हि सर्वेषाम् अशान्तिकरः
_*
तत उत्तरस्माद् ऋषय एकादश-लक्ष-योजनान्तर उपलभ्यन्ते य एव लोकानां शम् अनुभावयन्तो भगवतो विष्णोर् यत् परमं पदं प्रदक्षिणं प्रक्रमन्ति
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0