भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.21

05.21.001

भ्प्_05.21.001।0 श्री-शुक उवाच
एतावान् एव भू-वलयस्य सन्निवेशः प्रमाण-लक्षणतो व्याख्यातः

05.21.002

_*
एतेन हि दिवो मण्डल-मानं तद्-विद उपदिशन्ति यथा द्वि-दलयोर् निष्पावादीनां ते अन्तरेणान्तरिक्षं तद्-उभय-सन्धितम्

05.21.003

_*
यन्-मध्य-गतो भगवांस् तपतां पतिस् तपन आतपेन त्रि-लोकीं प्रतपत्य् अवभासयत्य् आत्म-भासा स एष उदगयन-दक्षिणायन-वैषुवत-संज्ञाभिर् मान्द्य-शैघ्र्य-समानाभिर् गतिभिर् आरोहणावरोहण-समान-स्थानेषु यथा-सवनम् अभिपद्यमानो मकरादिषु राशिष्व् अहो-रात्राणि दीर्घ-ह्रस्व-समानानि विधत्ते

05.21.004

_*
यदा मेष-तुलयोर् वर्तते तदाहो-रात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्य् एव वर्धन्ते ह्रसति च मासि मास्य् एकैका घटिका रात्रिषु

05.21.005

_*
यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहो-रात्राणि विपर्ययाणि भवन्ति

05.21.006

_*
यावद् दक्षिणायनम् अहानि वर्धन्ते यावद् उदगयनं रात्रयः

05.21.007

_*
एवं नव कोटय एक-पञ्चाशल्-लक्षाणि योजनानां मानसोत्तर-गिरि-परिवर्तनस्योपदिशन्ति तस्मिन्न् ऐन्द्रीं पुरीं पूर्वस्मान् मेरोर् देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद् वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदय-मध्याह्नास्तमय-निशीथानीति भूतानां प्रवृत्ति-निवृत्ति-निमित्तानि समय-विशेषेण मेरोश् चतुर्-दिशम्

05.21.008

_*
तत्रत्यानां दिवस-मध्यङ्गत एव सदादित्यस् तपति सव्येनाचलं दक्षिणेन करोति

05.21.009

_*
यत्रोदेति तस्य ह समान-सूत्र-निपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समान-सूत्र-निपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन्

05.21.010

_*
यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदश-घटिकाभिर् याम्यां सपाद-कोटि-द्वयं योजनानां सार्ध-द्वादश-लक्षाणि साधिकानि चोपयाति

05.21.011

_*
एवं ततो वारुणीं सौम्याम् ऐन्द्रीं च पुनस् तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्-चक्रे समभ्युद्यन्ति सह वा निम्लो-चन्ति

05.21.012

_*
एवं मुहूर्तेन चतुस्-त्रिंशल्-लक्ष-योजनान्य् अष्ट-शताधिकानि सौरो रथस् त्रयीमयो ऽसौ चतसृषु परिवर्तते पुरीषु

05.21.013

_*
यस्यैकं चक्रं द्वादशारं षण्-नेमि त्रि-णाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर् मूर्धनि कृतो मानसोत्तरे कृतेतर-भागो यत्र प्रोतं रवि-रथ-चक्रं तैल-यन्त्र-चक्रवद् भ्रमन् मानसोत्तर-गिरौ परिभ्रमति

05.21.014

_*
तस्मिन्न् अक्षे कृतमूलो द्वितीयो ऽक्षस् तुर्यमानेन सम्मितस् तैल-यन्त्राक्षवद् ध्रुवे कृतोपरि-भागः

05.21.015

_*
रथ-नीडस् तु षट्-त्रिंशल्-लक्ष-योजनायतस् तत्-तुरीय-भाग-विशालस् तावान् रवि-रथ-युगो यत्र हयाश् छन्दो-नामानः सप्तारुण-योजिता वहन्ति देवम् आदित्यम्

05.21.016

_*
पुरस्तात् सवितुर् अरुणः पश्चाच् च नियुक्तः सौत्ये कर्मणि किलास्ते

05.21.017

_*
तथा वालिखिल्या ऋषयो ऽङ्गुष्ठ-पर्व-मात्राः षष्टि-सहस्राणि पुरतः सूर्यं सूक्त-वाकाय नियुक्ताः संस्तुवन्ति

05.21.018

_*
तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्य् एकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यम् आत्मानं नाना-नामानं पृथङ्-नाना-नामानः पृथक्-कर्मभिर् द्वन्द्वश उपासते

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc