भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.20

05.20.001

_*
भ्प्_05.20.001।0 श्री-शुक उवाच
अतः परं प्लक्षादीनां प्रमाण-लक्षण-संस्थानतो वर्ष-विभाग उपवर्ण्यते

05.20.002

_*
जम्बूद्वीपो ऽयं यावत्-प्रमाण-विस्तारस् तावता क्षारोदधिना परिवेष्टितो यथा मेरुर् जम्ब्व्-आख्येन लवणोदधिर् अपि ततो द्वि-गुण-विशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन प्लक्षो जम्बू-प्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निर् उपास्ते सप्त-जिह्वस् तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्त-वर्षाणि विभज्य सप्त-वर्ष-नामभ्य आत्मजेभ्य आकलय्य स्वयम् आत्म-योगेनोपरराम

05.20.003

_*
शिवं यवसं सुभद्रं शान्तं क्षेमम् अमृतम् अभयम् इति वर्षाणि तेषु गिरयो नद्यश् च सप्तैवाभिज्ञाताः

05.20.004

_*
मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतु-शैलाः अरुणा नृम्णाङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महा-नद्यः यासां जलोपस्पर्शन-विधूत-रजस्-तमसो हंस-पतङ्गोर्ध्वायन-सत्याङ्ग-संज्ञाश् चत्वारो वर्णाः सहस्रायुषो विबुधोपम-सन्दर्शन-प्रजननाः स्वर्ग-द्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यम् आत्मानं यजन्ते

05.20.005

_*
प्रत्नस्य विष्णो रूपं यत् सत्यस्यर्तस्य ब्रह्मणः ।
अमृतस्य च मृत्योश् च सूर्यम् आत्मानम् ईमहीति

05.20.006

प्लक्षादिषु पञ्चसु पुरुषाणाम् आयुर् इन्द्रियम् ओजः सहो बलं बुद्धिर् विक्रम इति च सर्वेषाम् औत्पत्तिकी सिद्धिर् अविशेषेण वर्तते

05.20.007

_*
प्लक्षः स्व-समानेनेक्षु-रसोदेनावृतो यथा तथा द्वीपो ऽपि शाल्मलो द्वि-गुण-विशालः समानेन सुरोदेनावृतः परिवृङ्क्ते

05.20.008

_*
यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयम् आहुर् भगवतश् छन्दः-स्तुतः पतत्त्रि-राजस्य सा द्वीप-हूतये उपलक्ष्यते

05.20.009

_*
तद्-द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्व-सुतेभ्यः सप्तभ्यस् तन्-नामानि सप्त-वर्षाणि व्यभजत् सुरोचनं सौमनस्यं रमणकं देव-वर्षं पारिभद्रम् आप्यायनम् अविज्ञातम् इति

05.20.010

_*
तेषु वर्षाद्रयो नद्यश् च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्प-वर्षः सहस्र-श्रुतिर् इति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति

05.20.011

_*
तद्-वर्ष-पुरुषाः श्रुतधर-वीर्यधर-वसुन्धरेषन्धर-संज्ञा भगवन्तं वेदमयं सोमम् आत्मानं वेदेन यजन्ते

05.20.012

_*
स्व-गोभिः पितृ-देवेभ्यो विभजन् कृष्ण-शुक्लयोः ।
प्रजानां सर्वासां राजा- न्धः सोमो न आस्त्व् इति

05.20.013

एवं सुरोदाद् बहिस् तद्-द्वि-गुणः समानेनावृतो घृतोदेन यथा-पूर्वः कुश-द्वीपो यस्मिन् कुश-स्तम्बो देव-कृतस् तद्-द्वीपाख्याकरो ज्वलन इवापरः स्व-शष्प-रोचिषा दिशो विराजयति

05.20.014

_*
तद्-द्वीप-पतिः प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्व-पुत्रेभ्यो यथा-भागं विभज्य स्वयं तप आतिष्ठत वसु-वसुदान-दृढरुचि-नाभिगुप्त-स्तुत्यव्रत-विविक्त-वामदेव-नामभ्यः

05.20.015

_*
तेषां वर्षेषु सीमा-गिरयो नद्यश् चाभिज्ञाताः सप्त सप्तैव चक्रश् चतुःशृङ्गः कपिलश् चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति

05.20.016

_*
यासां पयोभिः कुशद्वीपौकसः कुशल-कोविदाभियुक्त-कुलक-संज्ञा भगवन्तं जातवेद-सरूपिणं कर्म-कौशलेन यजन्ते

05.20.017

_*
परस्य ब्रह्मणः साक्षाज् जात-वेदो ऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति

05.20.018

तथा घृतोदाद् बहिः क्रौञ्चद्वीपो द्वि-गुणः स्व-मानेन क्षीरोदेन परित उपकॢप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वत-राजो द्वीप-नाम-निर्वर्तक आस्ते

05.20.019

_*
यो ऽसौ गुह-प्रहरणोन्मथित-नितम्ब-कुञ्जो ऽपि क्षीरोदेना-सिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव

05.20.020

_*
तस्मिन्न् अपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्र-नामसु सप्त रिक्थादान् वर्षपान् निवेश्य स्वयं भगवान् भगवतः परम-कल्याण-यशस आत्म-भूतस्य हरेश् चरणारविन्दम् उपजगाम

05.20.021

_*
आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिर् इति घृतपृष्ठ-सुतास् तेषां वर्ष-गिरयः सप्त सप्तैव नद्यश् चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति

05.20.022

_*
यासाम् अम्भः पवित्रम् अमलम् उपयुञ्जानाः पुरुष-ऋषभ-द्रविण-देवक-संज्ञा वर्ष-पुरुषा आपोमयं देवम् अपां पूर्णेनाञ्जलिना यजन्ते

05.20.023

_*
आपः पुरुष-वीर्याः स्थ पुनन्तीर् भूर्-भुवः-सुवः ।
ता नः पुनीतामीव-घ्नीः स्पृशताम् आत्मना भुव इति

05.20.024

एवं पुरस्तात् क्षीरोदात् परित उपवेशितः शाकद्वीपो द्वात्रिंशल्-लक्ष-योजनायामः समानेन च दधि-मण्डोदेन परीतो यस्मिन् शाको नाम महीरुहः स्व-क्षेत्र-व्यपदेशको यस्य ह महा-सुरभि-गन्धस् तं द्वीपम् अनुवासयति

05.20.025

_*
तस्यापि प्रैयव्रत एवाधिपतिर् नाम्ना मेधातिथिः सो ऽपि विभज्य सप्त वर्षाणि पुत्र-नामानि तेषु स्वात्मजान् पुरोजव-मनोजव-पवमान-धूम्रानीक-चित्ररेफ-बहुरूप-विश्वधार-संज्ञान् निधाप्याधिपतीन् स्वयं भगवत्य् अनन्त आ-वेशित-मतिस् तपोवनं प्रविवेश

05.20.026

_*
एतेषां वर्ष-मर्यादा-गिरयो नद्यश् च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघायुर्दा उभयस्पृष्टिर् अपराजिता पञ्चपदी सहस्रस्रुतिर् निजधृतिर् इति

05.20.027

_*
तद्-वर्ष-पुरुषा ऋतव्रत-सत्यव्रत-दानव्रतानुव्रत-नामानो भगवन्तं वाय्व्-आत्मकं प्राणायाम-विधूत-रजस्-तमसः परम-समाधिना यजन्ते

05.20.028

_*
अन्तः-प्रविश्य भूतानि यो बिभर्त्य् आत्म-केतुभिः ।
अन्तर्यामीश्वरः साक्षात् पातु नो यद्-वशे स्फुटम्

05.20.029

एवम् एव दधि-मण्डोदात् परतः पुष्करद्वीपस् ततो द्वि-गुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिर् आवृतो यस्मिन् बृहत्-पुष्करं ज्वलन-शिखामल-कनक-पत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम्

05.20.030

_*
तद्-द्वीप-मध्ये मानसोत्तर-नामैक एवार्वाचीन-पराचीन-वर्षयोर् मर्यादाचलो ऽयुत-योजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोक-पालानाम् इन्द्रादीनां यद्-उपरिष्टात् सूर्य-रथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानाम् अहो-रात्राभ्यां परिभ्रमति

05.20.031

_*
तद्-द्वीपस्याप्य् अधिपतिः प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणक-धातकि-नामानौ वर्ष-पती नियुज्य स स्वयं पूर्वजवद्-भगवत्-कर्म-शील एवास्ते

05.20.032

_*
तद्-वर्ष-पुरुषा भगवन्तं ब्रह्म-रूपिणं सकर्मकेण कर्मणाराधयन्तीदं चोदाहरन्ति

05.20.033

_*
यत् तत् कर्ममयं लिङ्गं ब्रह्म-लिङ्गं जनो ऽर्चयेत् ।
एकान्तम् अद्वयं शान्तं तस्मै भगवते नम इति

05.20.034

ततः परस्ताल् लोकालोक-नामाचलो लोकालोकयोर् अन्तराले परित उपक्षिप्तः

05.20.035

_*
यावन् मानसोत्तर-मेर्वोर् अन्तरं तावती भूमिः काञ्चन्य् अन्यादर्श-तलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित् पुनः प्रत्युपलभ्यते तस्मात् सर्व-सत्त्व-परिहृतासीत्

05.20.036

_*
लोकालोक इति समाख्या यद् अनेनाचलेन लोकालोकस्यान्तर्वर्-तिनावस्थाप्यते

05.20.037

_*
स लोक-त्रयान्ते परित ईश्वरेण विहितो यस्मात् सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्-गणानां गभस्तयो ऽर्वाचीनांस् त्रीन् लोकान् आवितन्वाना न कदाचित् पराचीना भवितुम् उत्सहन्ते तावद् उन्-नहनायामः

05.20.038

_*
एतावान् लोक-विन्यासो मान-लक्षण-संस्थाभिर् विचिन्तितः कविभिः स तु पञ्चाशत्-कोटि-गणितस्य भू-गोलस्य तुरीय-भागो ऽयं लोकालोकाचलः

05.20.039

_*
तद्-उपरिष्टाच् चतसृष्व् आशास्वात्म-योनिनाखिल-जगद्-गुरुणाधिनिवेशिता ये द्विरद-पतय ऋषभः पुष्करचूडो वामनो ऽपराजित इति सकल-लोक-स्थिति-हेतवः

05.20.040

_*
तेषां स्व-विभूतीनां लोक-पालानां च विविध-वीर्योपबृंहणाय भगवान् परम-महा-पुरुषो महा-विभूति-पतिर् अन्तर्याम्य् आत्मनो विशुद्ध-सत्त्वं धर्म-ज्ञान-वैराग्यैश्वर्याद्य्-अष्ट-महा-सिद्ध्य्-उपलक्षणं विष्वक्सेनादिभिः स्व-पार्षद-प्रवरैः परिवारितो निज-वरायुधोपशोभितैर् निज-भुज-दण्डैः सन्धारयमाणस् तस्मिन् गिरि-वरे समन्तात् सकल-लोक-स्वस्तय आस्ते

05.20.041

_*
आकल्पम् एवं वेषं गत एष भगवान् आत्म-योगमायया विरचित-विविध-लोक-यात्रा-गोपीयायेत्य् अर्थः

05.20.042

_*
यो ऽन्तर्-विस्तार एतेन ह्य् अलोक-परिमाणं च व्याख्यातं यद् बहिर् लोकालोकाचलात् ततः परस्ताद् योगेश्वर-गतिं विशुद्धाम् उदाहरन्ति

05.20.043

_*
अण्ड-मध्य-गतः सूर्यो द्याव्-आभूम्योर् यद् अन्तरम् ।
सूर्याण्ड-गोलयोर् मध्ये कोट्यः स्युः पञ्च-विंशतिः

05.20.044

मृते ऽण्ड एष एतस्मिन् यद् अभूत् ततो मार्तण्ड इति व्यपदेशः हिरण्यगर्भ इति यद् धिरण्याण्ड-समुद्भवः

05.20.045

_*
सूर्येण हि विभज्यन्ते दिशः खं द्यौर् मही भिदा ।
स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः

05.20.046

देव-तिर्यङ्-मनुष्याणां सरीसृप-सवीरुधाम् ।
सर्व-जीव-निकायानां सूर्य आत्मा दृग्-ईश्वरः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc