भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.19

05.19.001

भ्प्_05.19.001।0 श्री-शुक उवाच
किम्पुरुषे वर्षे भगवन्तम् आदि-पुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्-चरण-सन्निकर्षाभिरतः परम-भागवतो हनुमान् सह किम्पुरुषैर् अविरत-भक्तिर् उपास्ते

05.19.002

_*
आर्ष्टिषेणेन सह गन्धर्वैर् अनुगीयमानां परम-कल्याणीं भर्तृ-भगवत्-कथां समुपशृणोति स्वयं चेदं गायति

05.19.003

_*
ओं नमो भगवते उत्तमश्लोकाय नम आर्य-लक्षण-शील-व्रताय नम उपशिक्षितात्मन उपासित-लोकाय नमः साधु-वाद-निकषणाय नमो ब्रह्मण्य-देवाय महा-पुरुषाय महा-राजाय नम इति

05.19.004

_*
यत् तद् विशुद्धानुभव-मात्रम् एकं स्व-तेजसा ध्वस्त-गुण-व्यवस्थम् ।
प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्य् अनाम-रूपं निरहं प्रपद्ये

05.19.005

मर्त्यावतारस् त्व् इह मर्त्य-शिक्षणं रक्षो-वधायैव न केवलं विभोः ।
कुतो ऽन्यथा स्याद् रमतः स्व आत्मनः सीता-कृतानि व्यसनानीश्वरस्य

05.19.006

न वै स आत्मात्मवतां सुहृत्तमः सक्तस् त्रि-लोक्यां भगवान् वासुदेवः ।
न स्त्री-कृतं कश्मलम् अश्नुवीत न लक्ष्मणं चापि विहातुम् अर्हति

05.19.007

न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः ।
तैर् यद् विसृष्टान् अपि नो वनौकसश् चकार सख्ये बत लक्ष्मणाग्रजः

05.19.008

सुरो ऽसुरो वाप्य् अथ वानरो नरः सर्वात्मना यः सुकृतज्ञम् उत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं य उत्तरान् अनयत् कोसलान् दिवम् इति

05.19.009

भारते ऽपि वर्षे भगवान् नर-नारायणाख्य आकल्पान्तम् उपचित-धर्म-ज्ञान-वैराग्यैश्वर्योपशमोपरमात्मोपलम्भनम् अनुग्रहायात्मवताम् अनुकम्पया तपो ऽव्यक्त-गतिश् चरति

05.19.010

_*
तं भगवान् नारदो वर्णाश्रमवतीभिर् भारतीभिः प्रजाभिर् भगवत्-प्रोक्ताभ्यां साङ्ख्य-योगाभ्यां भगवद्-अनुभावोपवर्णनं सावर्णेर् उपदेक्ष्यमाणः परम-भक्ति-भावेनोपसरति इदं चाभिगृणाति

05.19.011

_*
ओं नमो भगवते उपशम-शीलायोपरतानात्म्याय नमो ऽकिञ्चन-वित्ताय ऋषि-ऋषभाय नर-नारायणाय परमहंस-परम-गुरवे आत्मारामाधिपतये नमो नम इति

05.19.012

_*
भ्प्_05.19.012।0 गायति चेदम्
कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देह-गतो ऽपि दैहिकैः ।
द्रष्टुर् न दृग् यस्य गुणैर् विदूष्यते तस्मै नमो ऽसक्त-विविक्त-साक्षिणे

05.19.013

इदं हि योगेश्वर योग-नैपुणं हिरण्यगर्भो भगवाञ् जगाद यत् ।
यद् अन्त-काले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झित-दुष्कलेवरः

05.19.014

यथैहिकामुष्मिक-काम-लम्पटः सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्ययाद् यस् तस्य यत्नः श्रम एव केवलम्

05.19.015

तन् नः प्रभो त्वं कुकलेवरार्पितां त्वन्-माययाहं-ममताम् अधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावम् इति

05.19.016

भारते ऽप्य् अस्मिन् वर्षे सरिच्-छैलाः सन्ति बहवो मलयो मङ्गल-प्रस्थो मैनाकस् त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिर् ऋष्यमूकः श्री-शैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमान् ऋक्षगिरिः पारियात्रो द्रोणश् चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिर् इति चान्ये च शत-सहस्रशः शैलास् तेषां नितम्ब-प्रभवा नदा नद्यश् च सन्त्य् असङ्ख्याताः

05.19.017

_*
एतासाम् अपो भारत्यः प्रजा नामभिर् एव पुनन्तीनाम् आत्मना चोपस्पृशन्ति

05.19.018

_*
चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णावेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुर् अन्धः शोणश् च नदौ महानदी वेदस्मृतिर् ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश् चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महा-नद्यः

05.19.019

_*
अस्मिन्न् एव वर्षे पुरुषैर् लब्ध-जन्मभिः शुक्ल-लोहित-कृष्ण-वर्णेन स्वारब्धेन कर्मणा दिव्य-मानुष-नारक-गतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्य् एव सर्वेषां विधीयन्ते यथा-वर्ण-विधानम् अपवर्गश् चापि भवति

05.19.020

_*
यो ऽसौ भगवति सर्व-भूतात्मन्य् अनात्म्ये ऽनिरुक्ते ऽनिलयने परमात्मनि वासुदेवे ऽनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-द्वारेण यदा हि महा-पुरुष-पुरुष-प्रसङ्गः

05.19.021

_*
भ्प्_05.19.021।0 एतद् एव हि देवा गायन्ति
अहो अमीषां किम् अकारि शोभनं प्रसन्न एषां स्विद् उत स्वयं हरिः ।
यैर् जन्म लब्धं नृषु भारताजिरे मुकुन्द-सेवौपयिकं स्पृहा हि नः

05.19.022

किं दुष्करैर् नः क्रतुभिस् तपो-व्रतैर् दानादिभिर् वा द्युजयेन फल्गुना ।
न यत्र नारायण-पाद-पङ्कज- स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात्

05.19.023

कल्पायुषां स्थानजयात् पुनर्-भवात् क्षणायुषां भारत-भूजयो वरम् ।
क्षणेन मर्त्येन कृतं मनस्विनः सन्न्यस्य संयान्त्य् अभयं पदं हरेः

05.19.024

न यत्र वैकुण्ठ-कथा-सुधापगा न साधवो भागवतास् तदाश्रयाः ।
न यत्र यज्ञेश-मखा महोत्सवाः सुरेश-लोको ऽपि न वै स सेव्यताम्

05.19.025

प्राप्ता नृ-जातिं त्व् इह ये च जन्तवो ज्ञान-क्रिया-द्रव्य-कलाप-सम्भृताम् ।
न वै यतेरन्न् अपुनर्-भवाय ते भूयो वनौका इव यान्ति बन्धनम्

05.19.026

यैः श्रद्धया बर्हिषि भागशो हविर् निरुप्तम् इष्टं विधि-मन्त्र-वस्तुतः ।
एकः पृथङ्-नामभिर् आहुतो मुदा गृह्णाति पूर्णः स्वयम् आशिषां प्रभुः

05.19.027

सत्यं दिशत्य् अर्थितम् अर्थितो नृणां नैवार्थदो यत् पुनर् अर्थिता यतः ।
स्वयं विधत्ते भजताम् अनिच्छताम् इच्छापिधानं निज-पाद-पल्लवम्

05.19.028

यद्य् अत्र नः स्वर्ग-सुखावशेषितं स्विष्टस्य सूक्तस्य कृतस्य शोभनम् ।
तेनाजनाभे स्मृतिमज् जन्म नः स्याद् वर्षे हरिर् यद्-भजतां शं तनोति

05.19.029

भ्प्_05.19.029।0 श्री-शुक उवाच
जम्बूद्वीपस्य च राजन्न् उपद्वीपान् अष्टौ हैक उपदिशन्ति सगरात्मजैर् अश्वान्वेषण इमां महीं परितो निखनद्भिर् उपकल्पितान्

05.19.030

_*
तद् यथा स्वर्णप्रस्थश् चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति

05.19.031

_*
एवं तव भारतोत्तम जम्बूद्वीप-वर्ष-विभागो यथोपदेशम् उपवर्णित इति

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc