भागवत पुराण · अध्याय 05.18
भ्प्_05.18.001।0 श्री-शुक उवाच
तथा च भद्रश्रवा नाम धर्म-सुतस् तत्-कुल-पतयः पुरुषा भद्राश्व-वर्षे साक्षाद् भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदम् अभिगृणन्त उपधावन्ति
_*
भ्प्_05.18.002।0 भद्रश्रवस ऊचुः
ओं नमो भगवते धर्मायात्म-विशोधनाय नम इति
_*
अहो विचित्रं भगवद्-विचेष्टितं घ्नन्तं जनो ऽयं हि मिषन् न पश्यति ।
ध्यायन्न् असद् यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति
वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यम् अजं नतो ऽस्मि तम्
विश्वोद्भव-स्थान-निरोध-कर्म ते ह्य् अकर्तुर् अङ्गीकृतम् अप्य् अपावृतः ।
युक्तं न चित्रं त्वयि कार्य-कारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः
वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद् यो नृ-तुरङ्ग-विग्रहः ।
प्रत्याददे वै कवये ऽभियाचते तस्मै नमस् ते ऽवितथेहिताय इति
हरि-वर्षे चापि भगवान् नर-हरि-रूपेणास्ते तद्-रूप-ग्रहण-निमित्तम् उत्तरत्राभिधास्ये तद् दयितं रूपं महा-पुरुष-गुण-भाजनो महा-भागवतो दैत्य-दानव-कुल-तीर्थीकरण-शीला-चरितः प्रह्लादो ऽव्यवधानानन्य-भक्ति-योगेन सह तद्-वर्ष-पुरुषैर् उपास्ते इदं चोदाहरति
_*
ओं नमो भगवते नरसिंहाय नमस् तेजस्-तेजसे आविर्-आविर्भव वज्र-नख वज्र-दंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ओं स्वाहा अभयम् अभयम् आत्मनि भूयिष्ठा ओं क्ष्रौम्
_*
स्वस्त्य् अस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश् च भद्रं भजताद् अधोक्षजे आवेश्यतां नो मतिर् अप्य् अहैतुकी
मागार-दारात्मज-वित्त-बन्धुषु सङ्गो यदि स्याद् भगवत्-प्रियेषु नः ।
यः प्राण-वृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्य् अदूरान् न तथेन्द्रिय-प्रियः
यत्-सङ्ग-लब्धं निज-वीर्य-वैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् ।
हरत्य् अजो ऽन्तः श्रुतिभिर् गतो ऽङ्गजं को वै न सेवेत मुकुन्द-विक्रमम्
यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः ।
हराव् अभक्तस्य कुतो महद्-गुणा मनोरथेनासति धावतो बहिः
हरिर् हि साक्षाद् भगवान् शरीरिणाम् आत्मा झषाणाम् इव तोयम् ईप्सितम् ।
हित्वा महांस् तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम्
तस्माद् रजो-राग-विषाद-मन्यु- मान-स्पृहा-भयदैन्याधिमूलम् ।
हित्वा गृहं संसृति-चक्रवालं नृसिंह-पादं भजताकुतोभयम् इति
केतुमाले ऽपि भगवान् कामदेव-स्वरूपेण लक्ष्म्याः प्रिय-चिकीर्षया प्रजापतेर् दुहित्-णां पुत्राणां तद्-वर्ष-पतीनां पुरुषायुषाहो-रात्र-परिसङ्ख्यानानां यासां गर्भा महा-पुरुष-महास्त्र-तेजसोद्वेजित-मनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति
_*
अतीव सुललित-गति-विलास-विलसित-रुचिर-हास-लेशावलोक-लीलया किञ्चिद्-उत्तम्भित-सुन्दर-भ्रू-मण्डल-सुभग-वदनारविन्द-श्रिया रमां रमयन्न् इन्द्रियाणि रमयते
_*
तद् भगवतो मायामयं रूपं परम-समाधि-योगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर् दुहितृभिर् उपेताहःसु च तद्-भर्तृभिर् उपास्ते इदं चोदाहरति
_*
ओं ह्रां ह्रीं ह्रूं ओं नमो भगवते हृषीकेशाय सर्व-गुण-विशेषैर् विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडश-कलाय च्छन्दो-मयायान्न-मयायामृत-मयाय सर्व-मयाय सहसे ओजसे बलाय कान्ताय कामाय नमस् ते उभयत्र भूयात्
_*
स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो ह्य् आराध्य लोके पतिम् आशासते ऽन्यम् ।
तासां न ते वै परिपान्त्य् अपत्यं प्रियं धनायूंषि यतो ऽस्व-तन्त्राः
स वै पतिः स्याद् अकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं नैवात्मलाभाद् अधि मन्यते परम्
या तस्य ते पाद-सरोरुहार्हणं निकामयेत् साखिल-काम-लम्पटा ।
तद् एव रासीप्सितम् ईप्सितो ऽर्चितो यद्-भग्न-याच्ञा भगवन् प्रतप्यते
मत्-प्राप्तये ऽजेश-सुरासुरादयस् तप्यन्त उग्रं तप ऐन्द्रिये धियः ।
ऋते भवत्-पाद-परायणान् न मां विन्दन्त्य् अहं त्वद्-धृदया यतो ऽजित
स त्वं ममाप्य् अच्युत शीर्ष्णि वन्दितं कराम्बुजं यत् त्वद्-अधायि सात्वताम् ।
बिभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितम् ऊहितुं विभुर् इति
रम्यके च भगवतः प्रियतमं मात्स्यम् अवतार-रूपं तद्-वर्ष-पुरुषस्य मनोः प्राक्-प्रदर्शितं स इदानीम् अपि महता भक्ति-योगेनाराधयतीदं चोदाहरति
_*
ओं नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महा-मत्स्याय नम इति
_*
अन्तर् बहिश् चाखिल-लोक-पालकैर् अदृष्ट-रूपो विचरस्य् उरु-स्वनः ।
स ईश्वरस् त्वं य इदं वशे ऽनयन् नाम्ना यथा दारुमयीं नरः स्त्रियम्
यं लोक-पालाः किल मत्सर-ज्वरा हित्वा यतन्तो ऽपि पृथक् समेत्य च ।
पातुं न शेकुर् द्वि-पदश् चतुष्-पदः सरीसृपं स्थाणु यद् अत्र दृश्यते
भवान् युगान्तार्णव ऊर्मि-मालिनि क्षोणीम् इमाम् ओषधि-वीरुधां निधिम् ।
मया सहोरु क्रमते ऽज ओजसा तस्मै जगत्-प्राण-गणात्मने नम इति
हिरण्मये ऽपि भगवान् निवसति कूर्म-तनुं बिभ्राणस् तस्य तत् प्रियतमां तनुम् अर्यमा सह वर्ष-पुरुषैः पितृ-गणाधिपतिर् उपधावति मन्त्रम् इमं चानुजपति
_*
ओं नमो भगवते अकूपाराय सर्व-सत्त्व-गुण-विशेषणायानु-पलक्षित-स्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमो ऽवस्थानाय नमस् ते
_*
यद्-रूपम् एतन् निज-माययार्पितम् अर्थ-स्वरूपं बहु-रूप-रूपितम् ।
सङ्ख्या न यस्यास्त्य् अयथोपलम्भनात् तस्मै नमस् ते ऽव्यपदेश-रूपिणे
जरायुजं स्वेदजम् अण्डजोद्भिदं चराचरं देवर्षि-पितृ-भूतम् ऐन्द्रियम् ।
द्यौः खं क्षितिः शैल-सरित्-समुद्र- द्वीप-ग्रहर्क्षेत्य् अभिधेय एकः
यस्मिन्न् असङ्ख्येय-विशेष-नाम- रूपाकृतौ कविभिः कल्पितेयम् ।
सङ्ख्या यया तत्त्व-दृशापनीयते तस्मै नमः साङ्ख्य-निदर्शनाय ते इति
उत्तरेषु च कुरुषु भगवान् यज्ञ-पुरुषः कृत-वराह-रूप आस्ते तं तु देवी हैषा भूः सह कुरुभिर् अस्खलित-भक्ति-योगेनोपधावति इमां च परमाम् उपनिषदम् आवर्तयति
_*
ओं नमो भगवते मन्त्र-तत्त्व-लिङ्गाय यज्ञ-क्रतवे महा-ध्वरावयवाय महा-पुरुषाय नमः कर्म-शुक्लाय त्रि-युगाय नमस् ते
_*
यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्व् इव जात-वेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर् नम ईरितात्मने
द्रव्य-क्रिया-हेत्व्-अयनेश-कर्तृभिर् माया-गुणैर् वस्तु-निरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्म-बुद्धिभिर् निरस्त-मायाकृतये नमो नमः
करोति विश्व-स्थिति-संयमोदयं यस्येप्सितं नेप्सितम् ईक्षितुर् गुणैः ।
माया यथायो भ्रमते तद्-आश्रयं ग्राव्णो नमस् ते गुण-कर्म-साक्षिणे
प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगद्-आदि-सूकरः ।
कृत्वाग्र-दंष्ट्रे निरगाद् उदन्वतः क्रीडन्न् इवेभः प्रणतास्मि तं विभुम् इति
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0