भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.17

05.17.001

_*
भ्प्_05.17.001।0 श्री-शुक उवाच
तत्र भगवतः साक्षाद् यज्ञ-लिङ्गस्य विष्णोर् विक्रमतो वाम-पादाङ्गुष्ठ-नख-निर्भिन्नोर्ध्वाण्ड-कटाह-विवरेणान्तः-प्रविष्टा या बाह्य-जल-धारा तच्-चरण-पङ्कजावनेजनारुण-किञ्जल्कोपरञ्जिताखिल-जगद्-अघ-मलापहोपस्पर्शनामला साक्षाद् भगवत्-पदीत्य् अनुपलक्षित-वचो ऽभिधीयमानाति-महता कालेन युग-सहस्रोपलक्षणेन दिवो मूर्धन्य् अवततार यत् तद् विष्णु-पदम् आहुः

05.17.002

_*
यत्र ह वाव वीर-व्रत औत्तानपादिः परम-भागवतो ऽस्मत्-कुल-देवता-चरणारविन्दोदकम् इति याम् अनुसवनम् उत्कृष्यमाण-भगवद्-भक्ति-योगेन दृढं क्लिद्यमानान्तर्-हृदय औत्कण्ठ्य-विवशामीलित-लोचन-युगल-कुड्मल-विगलितामल-बाष्प-कलयाभिव्यज्यमान-रोम-पुलक-कुलको ऽधुनापि परमादरेण शिरसा बिभर्ति

05.17.003

_*
ततः सप्त ऋषयस् तत् प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिर् एतावती भगवति सर्वात्मनि वासुदेवे ऽनुपरत-भक्ति-योग-लाभेनैवोपेक्षितान्यार्थात्म-गतयो मुक्तिम् इवागतां मुमुक्षव इव सबहु-मानम् अद्यापि जटा-जूटैर् उद्वहन्ति

05.17.004

_*
ततो ऽनेक-सहस्र-कोटि-विमानानीक-सङ्कुल-देव-यानेनावतर्-अन्तीन्दु मण्डलम् आवार्य ब्रह्म-सदने निपतति

05.17.005

_*
तत्र चतुर्धा भिद्यमाना चतुर्भिर् नामभिश् चतुर्-दिशम् अभिस्पन्दन्ती नद-नदी-पतिम् एवाभिनिविशति सीतालकनन्दा चक्षुर् भद्रेति

05.17.006

_*
सीता तु ब्रह्म-सदनात् केसराचलादि-गिरि-शिखरेभ्यो ऽधो ऽधः प्रस्रवन्ती गन्धमादन-मूर्धसु पतित्वान्तरेण भद्राश्व-वर्षं प्राच्यां दिशि क्षार-समुद्रम् अभिप्रविशति

05.17.007

_*
एवं माल्यवच्-छिखरान् निष्पतन्ती ततो ऽनुपरत-वेगा केतुमालम् अभि चक्षुः प्रतीच्यां दिशि सरित्-पतिं प्रविशति

05.17.008

_*
भद्रा चोत्तरतो मेरु-शिरसो निपतिता गिरि-शिखराद् गिरि-शिखरम् अतिहाय शृङ्गवतः शृङ्गाद् अवस्यन्दमाना उत्तरांस् तु कुरून् अभित उदीच्यां दिशि जलधिम् अभिप्रविशति

05.17.009

_*
तथैवालकनन्दा दक्षिणेन ब्रह्म-सदनाद् बहूनि गिरि-कूटान्य् अतिक्रम्य हेमकूटाद् धैमकूटान्य् अति-रभसतर-रंहसा लुठयन्ती भारतम् अभिवर्षं दक्षिणस्यां दिशि जलधिम् अभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदे ऽश्वमेध-राजसूयादीनां फलं न दुर्लभम् इति

05.17.010

_*
अन्ये च नदा नद्यश् च वर्षे वर्षे सन्ति बहुशो मेर्व्-आदि-गिरि-दुहितरः शतशः

05.17.011

_*
तत्रापि भारतम् एव वर्षं कर्म-क्षेत्रम् अन्यान्य् अष्ट वर्षाणि स्वर्गिणां पुण्य-शेषोपभोग-स्थानानि भौमानि स्वर्ग-पदानि व्यपदिशन्ति

05.17.012

_*
एषु पुरुषाणाम् अयुत-पुरुषायुर्-वर्षाणां देव-कल्पानां नागायुत-प्राणानां वज्र-संहनन-बल-वयो-मोद-प्रमुदित-महा-सौरत-मिथुन-व्यवायापवर्ग-वर्ष-धृतैक-गर्भ-कलत्राणां तत्र तु त्रेता-युग-समः कालो वर्तते

05.17.013

_*
यत्र ह देव-पतयः स्वैः स्वैर् गण-नायकैर् विहित-महार्हणाः सर्वर्तु-कुसुम-स्तबक-फल-किसलय-श्रियानम्यमान-विटप-लता-विटपिभिर् उपशुम्भमान-रुचिर-काननाश्रमायतन-वर्ष-गिरि-द्रोणीषु तथा चामल-जलाशयेषु विकच-विविध-नव-वनरुहामोद-मुदित-राज-हंस-जल-कुक्कुट-कारण्डव-सारस-चक्रवाकादिभिर् मधुकर-निकराकृतिभिर् उपकूजितेषु जल-क्रीडादिभिर् विचित्र-विनोदैः सुललित-सुर-सुन्दरीणां काम-कलिल-विलास-हास-लीलावलोकाकृष्ट-मनो-दृष्टयः स्वैरं विहरन्ति

05.17.014

_*
नवस्व् अपि वर्षेषु भगवान् नारायणो महा-पुरुषः पुरुषाणां तद्-अनुग्रहायात्म-तत्त्व-व्यूहेनात्मनाद्यापि सन्निधीयते

05.17.015

_*
इलावृते तु भगवान् भव एक एव पुमान् न ह्य् अन्यस् तत्रापरो निर्विशति भवान्याः शाप-निमित्त-ज्ञो यत्-प्रवेक्ष्यतः स्त्री-भावस् तत् पश्चाद् वक्ष्यामि

05.17.016

_*
भवानीनाथैः स्त्री-गणार्बुद-सहस्रैर् अवरुध्यमानो भगवतश् चतुर्मूर्तेर् महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्यैतद् अभिगृणन् भव उपधावति

05.17.017_1

_*
भ्प्_05.17.017।0 श्री-भगवान् उवाच
ओं नमो भगवते महा-पुरुषाय सर्व-गुण-सङ्ख्यानायानन्तायाव्यक्ताय नम इति

05.17.017_2

_*
भजे भजन्यारण-पाद-पङ्कजं भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्व् अलं भावित-भूत-भावनं भवापहं त्वा भव-भावम् ईश्वरम्

05.17.018

न यस्य माया-गुण-चित्त-वृत्तिभिर् निरीक्षतो ह्य् अण्व् अपि दृष्टिर् अज्यते ।
ईशे यथा नो ऽजित-मन्यु-रंहसां कस् तं न मन्येत जिगीषुर् आत्मनः

05.17.019

असद्-दृशो यः प्रतिभाति मायया क्षीबेव मध्व्-आसव-ताम्र-लोचनः ।
न नाग-वध्वो ऽर्हण ईशिरे ह्रिया यत्-पादयोः स्पर्शन-धर्षितेन्द्रियाः

05.17.020

यम् आहुर् अस्य स्थिति-जन्म-संयमं त्रिभिर् विहीनं यम् अनन्तम् ऋषयः ।
न वेद सिद्धार्थम् इव क्वचित् स्थितं भू-मण्डलं मूर्ध-सहस्र-धामसु

05.17.021

यस्याद्य आसीद् गुण-विग्रहो महान् विज्ञान-धिष्ण्यो भगवान् अजः किल ।
यत्-सम्भवो ऽहं त्रि-वृता स्व-तेजसा वैकारिकं तामसम् ऐन्द्रियं सृजे

05.17.022

एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः ।
महान् अहं वैकृत-तामसेन्द्रियाः सृजाम सर्वे यद्-अनुग्रहाद् इदम्

05.17.023

यन्-निर्मितां कर्ह्य् अपि कर्म-पर्वणीं मायां जनो ऽयं गुण-सर्ग-मोहितः ।
न वेद निस्तारण-योगम् अञ्जसा तस्मै नमस् ते विलयोदयात्मने

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc