भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.16

05.16.001

भ्प्_05.16.001।0 राजोवाच
उक्तस् त्वया भू-मण्डलायाम-विशेषो यावद् आदित्यस् तपति यत्र चासौ ज्योतिषां गणैश् चन्द्रमा वा सह दृश्यते

05.16.002

_*
तत्रापि प्रियव्रत-रथ-चरण-परिखातैः सप्तभिः सप्त सिन्धव उपकॢप्ता यत एतस्याः सप्त-द्वीप-विशेष-विकल्पस् त्वया भगवन् खलु सूचित एतद् एवाखिलम् अहं मानतो लक्षणतश् च सर्वं वि-जिज्ञासामि

05.16.003

_*
भगवतो गुणमये स्थूल-रूप आवेशितं मनो ह्य् अगुणे ऽपि सूक्ष्मतम आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षमम् आवेशितुं तद् उ हैतद् गुरो ऽर्हस्य् अनुवर्णयितुम् इति

05.16.004

_*
भ्प्_05.16.004।0 ऋषिर् उवाच
न वै महाराज भगवतो माया-गुण-विभूतेः काष्ठां मनसा वचसा वाधिगन्तुम् अलं विबुधायुषापि पुरुषस् तस्मात् प्राधान्-येनैव भू-गोलक-विशेषं नाम-रूप-मान-लक्षणतो व्याख्यास्यामः

05.16.005

_*
यो वायं द्वीपः कुवलय-कमल-कोशाभ्यन्तर-कोशो नियुत-योजन-विशालः समवर्तुलो यथा पुष्कर-पत्रम्

05.16.006

_*
यस्मिन् नव वर्षाणि नव-योजन-सहस्रायामान्य् अष्टभिर् मर्यादा-गिरिभिः सुविभक्तानि भवन्ति

05.16.007

_*
एषां मध्ये इलावृतं नामाभ्यन्तर-वर्षं यस्य नाभ्याम् अवस्थितः सर्वतः सौवर्णः कुल-गिरि-राजो मेरुर् द्वीपायाम-समुन्नाहः कर्णिका-भूतः कुवलय-कमलस्य मूर्धनि द्वा-त्रिंशत् सहस्र-योजन-विततो मूले षोडश-सहस्रं तावत् आन्तर्-भूम्यां प्रविष्टः

05.16.008

_*
उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यक-हिरण्मय-कुरूणां वर्षाणां मर्यादा-गिरयः प्राग्-आयता उभयतः क्षारोदावधयो द्वि-सहस्र-पृथव एकैकशः पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति

05.16.009

_*
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्राग्-आयता यथा नीलादयो ऽयुत-योजनोत्सेधा हरि-वर्ष-किम्पुरुष-भारतानां यथा-सङ्ख्यम्

05.16.010

_*
तथैवेलावृतम् अपरेण पूर्वेण च माल्यवद्-गन्धमादनाव् आनील-निषधायतौ द्वि-सहस्रं पप्रथतुः केतुमाल-भद्राश्वयोः सीमानं विदधाते

05.16.011

_*
मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्य् अयुत-योजन-विस्तारोन्नाहा मेरोश् चतुर्-दिशम् अवष्टम्भ-गिरय उपकॢप्ताः

05.16.012

_*
चतुर्ष्व् एतेषु चूत-जम्बू-कदम्ब-न्यग्रोधाश् चत्वारः पादप-प्रवराः पर्वत-केतव इवाधि-सहस्र-योजनोन्नाहास् तावद् विटप-विततयः शत-योजन-परिणाहाः

05.16.013

_*
ह्रदाश् चत्वारः पयो-मध्व्-इक्षुरस-मृष्ट-जला यद्-उपस्पर्शिन उपदेव-गणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति

05.16.014

_*
देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रम् इति

05.16.015

_*
येष्व् अमर-परिवृढाः सह सुर-ललना-ललाम-यूथ-पतय उपदेव-गणैर् उपगीयमान-महिमानः किल विहरन्ति

05.16.016

_*
मन्दरोत्सङ्ग एकादश-शत-योजनोत्तुङ्ग-देवचूत-शिरसो गिरि-शिखर-स्थूलानि फलान्य् अमृत-कल्पानि पतन्ति

05.16.017

_*
तेषां विशीर्यमाणानाम् अति-मधुर-सुरभि-सुगन्धि-बहुलारुण-रसोदेनारुणोदा नाम नदी मन्दर-गिरि-शिखरान् निपतन्ती पूर्-वेणेलावृतम् उपप्लावयति

05.16.018

_*
यद्-उपजोषणाद् भवान्या अनुचरीणां पुण्य-जन-वधूनाम् अवयव-स्पर्श-सुगन्ध-वातो दश-योजनं समन्ताद् अनुवासयति

05.16.019

_*
एवं जम्बू-फलानाम् अत्युच्च-निपात-विशीर्णानाम् अनस्थि-प्रायाणाम् इभ-काय-निभानां रसेन जम्बू नाम नदी मेरु-मन्दर-शिखराद् अयुत-योजनाद् अवनि-तले निपतन्ती दक्षिणेनात्मानं यावद् इलावृतम् उपस्यन्दयति

05.16.020

_*
तावद् उभयोर् अपि रोधसोर् या मृत्तिका तद्-रसेनानुविध्यमाना वाय्व्-अर्क-संयोग-विपाकेन सदामर-लोकाभरणं जाम्बू-नदं नाम सुवर्णं भवति

05.16.021

_*
यद् उ ह वाव विबुधादयः सह युवतिभिर् मुकुट-कटक-कटि-सूत्राद्य्-आभरण-रूपेण खलु धारयन्ति

05.16.022

_*
यस् तु महा-कदम्बः सुपार्श्व-निरूढो यास् तस्य कोटरेभ्यो विनिःसृताः पञ्चायाम-परिणाहाः पञ्च मधु-धाराः सुपार्श्व-शिखरात् पतन्त्यो ऽपरेणात्मानम् इलावृतम् अनुमोदयन्ति

05.16.023

_*
या ह्य् उपयुञ्जानानां मुख-निर्वासितो वायुः समन्ताच् छत-योजनम् अनुवासयति

05.16.024

_*
एवं कुमुद-निरूढो यः शतवल्शो नाम वटस् तस्य स्कन्धेभ्यो नीचीनाः पयो-दधि-मधु-घृत-गुडान्नाद्य्-अम्बर-शय्यासनाभरणादयः सर्व एव काम-दुघा नदाः कुमुदाग्रात् पतन्तस् तम् उत्तरेणेलावृतम् उपयोजयन्ति

05.16.025

_*
यान् उपजुषाणानां न कदाचिद् अपि प्रजानां वली-पलित-क्लम-स्वेद-दौर्गन्ध्य-जरामय-मृत्यु-शीतोष्ण-वैवर्ण्योपसर्गादयस् ताप-विशेषा भवन्ति यावज् जीवं सुखं निरतिशयम् एव

05.16.026

_*
कुरङ्ग-कुरर-कुसुम्भ-वैकङ्क-त्रिकूट-शिशिर-पतङ्ग-रुचक-निषध-शिनीवास-कपिल-शङ्ख-वैदूर्य-जारुधि-हंस-ऋषभ-नाग-कालञ्जर-नारदादयो विंशति-गिरयो मेरोः कर्णिकाया इव केसर-भूता मूल-देशे परित उपकॢप्ताः

05.16.027

_*
जठर-देवकूटौ मेरुं पूर्वेणाष्टादश-योजन-सहस्रम् उदगायतौ द्वि-सहस्रं पृथु-तुङ्गौ भवतः एवम् अपरेण पवन-पारियात्रौ दक्षिणेन कैलास-करवीरौ प्राग्-आयताव् एवम् उत्तरतस् त्रिशृङ्ग-मकराव् अष्टभिर् एतैः परिसृतो ऽग्निर् इव परितश् चकास्ति काञ्चन-गिरिः

05.16.028

_*
मेरोर् मूर्धनि भगवत आत्म-योनेर् मध्यत उपकॢप्तां पुरीम् अयुत-योजन-साहस्रीं सम-चतुरस्रां शातकौम्भीं वदन्ति

05.16.029

_*
ताम् अनुपरितो लोक-पालानाम् अष्टानां यथा-दिशं यथा-रूपं तुरीय-मानेन पुरो ऽष्टाव् उपकॢप्ताः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc