भागवत पुराण · अध्याय 05.15
_*
भ्प्_05.15.001।0
श्री-शुक उवाच
भरतस्यात्मजः सुमतिर् नामाभिहितो यम् उ ह वाव केचित् पाखण्डिन ऋषभ-पदवीम् अनुवर्तमानं चानार्या अवेद-समाम्नातां देवतां स्व-मनीषया पापीयस्या कलौ कल्पयिष्यन्ति
_*
तस्माद् वृद्धसेनायां देवताजिन्-नाम पुत्रो ऽभवत्
_*
अथासुर्यां तत्-तनयो देवद्युम्नस् ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः
_*
य आत्म-विद्याम् आख्याय स्वयं संशुद्धो महा-पुरुषम् अनुसस्मार
_*
प्रतीहात् सुवर्चलायां प्रतिहर्त्रादयस् त्रय आसन्न् इज्या-कोविदाः सूनवः प्रतिहर्तुः स्तुत्याम् अज-भूमानाव् अजनिषाताम्
_*
भूम्न ऋषिकुल्यायाम् उद्गीथस् ततः प्रस्तावो देवकुल्यायां प्रस्तावान् नियुत्सायां हृदयज आसीद् विभुर् विभो रत्यां च पृथुषेणस् तस्मान् नक्त आकूत्यां जज्ञे नक्ताद् द्रुति-पुत्रो गयो राजर्षि-प्रवर उदार-श्रवा अजायत साक्षाद् भगवतो विष्णोर् जगद्-रिरक्षिषया गृहीत-सत्त्वस्य कलात्मवत्त्वादि-लक्षणेन महा-पुरुषतां प्राप्तः
_*
स वै स्व-धर्मेण प्रजा-पालन-पोषण-प्रीणनोपलालनानुशासन-लक्षणेनेज्यादिना च भगवति महा-पुरुषे परावरे ब्रह्मणि सर्वात्मनार्पित-परमार्थ-लक्षणेन ब्रह्मविच्-चरणानुसेवयापादित-भगवद्-भक्ति-योगेन चाभीक्ष्णशः परिभाविताति-शुद्ध-मतिर् उपरतानात्म्य आत्मनि स्वयम् उपलभ्यमान-ब्रह्मात्मानुभवो ऽपि निरभिमान एवावनिम् अजूगुपत्
_*
तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति
_*
गयं नृपः कः प्रतियाति कर्मभिर् यज्वाभिमानी बहुविद् धर्म-गोप्ता ।
समागत-श्रीः सदसस्-पतिः सतां सत्-सेवको ऽन्यो भगवत्-कलाम् ऋते
यम् अभ्यषिञ्चन् परया मुदा सतीः सत्याशिषो दक्ष-कन्याः सरिद्भिः ।
यस्य प्रजानां दुदुहे धराशिषो निराशिषो गुण-वत्स-स्नुतोधाः
छन्दांस्य् अकामस्य च यस्य कामान् दुदूहुर् आजह्रुर् अथो बलिं नृपाः ।
प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठम् अंशं परेत्य
यस्याध्वरे भगवान् अध्वरात्मा मघोनि माद्यत्य् उरु-सोम-पीथे ।
श्रद्धा-विशुद्धाचल-भक्ति-योग- समर्पितेज्या-फलम् आजहार
यत्-प्रीणनाद् बर्हिषि देव-तिर्यङ्- मनुष्य-वीरुत्-तृणम् आविरिञ्चात् ।
प्रीयेत सद्यः स ह विश्व-जीवः प्रीतः स्वयं प्रीतिम् अगाद् गयस्य
गयाद् गयन्त्यां चित्ररथः सुगतिर् अवरोधन इति त्रयः पुत्रा बभूवुश् चित्ररथाद् ऊर्णायां सम्राड् अजनिष्ट तत उत्कलायां मरीचिर् मरीचेर् बिन्दुमत्यां बिन्दुम् आनुदपद्यत तस्मात् सरघायां मधुर् नामाभवन् मधोः सुमनसि वीरव्रतस् ततो भोजायां मन्थु-प्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस् ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर् विरोचनायां विरजो विरजस्य शतजित्-प्रवरं पुत्र-शतं कन्या च विषूच्यां किल जातम्
_*
भ्प्_05.15.015।0 तत्रायं श्लोकः
प्रैयव्रतं वंशम् इमं विरजश् चरमोद्भवः ।
अकरोद् अत्य्-अलं कीर्त्या विष्णुः सुर-गणं यथा
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0