भागवत पुराण · अध्याय 05.14
_*
भ्प्_05.14.001।0 स होवाच
स एष देहात्म-मानिनां सत्त्वादि-गुण-विशेष-विकल्पित-कुशलाकु-शल-समवहार-विनिर्मित-विविध-देहावलिभिर् वियोग-संयोगाद्य्-अनादि-संसारानुभवस्य द्वार-भूतेन षड्-इन्द्रिय-वर्गेण तस्मिन् दुर्गाध्ववद् असुगमे ऽध्वन्य् आपतित ईश्वरस्य भगवतो विष्णोर् वश-वर्तिन्या मायया जीव-लोको ऽयं यथा वणिक्-सार्थो ऽर्थ-परः स्व-देह-निष्पादित-कर्मानुभवः श्मशानवद् अशिवतमायां संसाराटव्यां गतो नाद्यापि विफल-बहु-प्रतियोगेहस् तत्-तापोपशमनीं हरि-गुरु-चरणारविन्द-मधुकरानुपदवीम् अवरुन्धे
_*
यस्याम् उ ह वा एते षड्-इन्द्रिय-नामानः कर्मणा दस्यव एव ते तद् यथा पुरुषस्य धनं यत् किञ्चिद् धर्मौपयिकं बहु-कृच्छ्राधिगतं साक्षात् परम-पुरुषाराधन-लक्षणो यो ऽसौ धर्मस् तं तु साम्पराय उदाहरन्ति तद्-धर्म्यं धनं दर्शन-स्पर्शन-श्रवणास्वादनावघ्राण-सङ्कल्प-व्यवसाय-गृह-ग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्-पन्ति
_*
अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृक-सृगाला एवानिच्छतो ऽपि कदर्यस्य कुटुम्बिन उरणकवत् संरक्ष्यमाणं मिषतो ऽपि हरन्ति
_*
यथा ह्य् अनुवत्सरं कृष्यमाणम् अप्य् अदग्ध-बीजं क्षेत्रं पुनर् एवावपन-काले गुल्म-तृण-वीरुद्भिर् गह्वरम् इव भवत्य् एवम् एव गृहाश्रमः कर्म-क्षेत्रं यस्मिन् न हि कर्माण्य् उत्सीदन्ति यद् अयं काम-करण्ड एष आवसथः
_*
तत्र गतो दंश-मशक-समापसदैर् मनुजैः शलभ-शकुन्त-तस्कर-मूषकादिभिर् उपरुध्यमान-बहिः-प्राणः क्वचित् परिवर्तमानो ऽस्मिन्न् अध्वन्य् अविद्या-काम-कर्मभिर् उपरक्त-मनसानुपपन्नार्थं नर-लोकं गन्धर्व-नगरम् उपपन्नम् इति मिथ्या-दृष्टिर् अनुपश्यति
_*
तत्र च क्वचिद् आतपोदक-निभान् विषयान् उपधावति पान-भोजन-व्यवायादि-व्यसन-लोलुपः
_*
क्वचिच् चाशेष-दोष-निषदनं पुरीष-विशेषं तद्-वर्ण-गुण-निर्मित-मतिः सुवर्णम् उपादित्सत्य् अग्नि-काम-कातर इवोल्मुक-पिशाचम्
_*
अथ कदाचिन् निवास-पानीय-द्रविणाद्य्-अनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्याम् इतस् ततः परिधावति
_*
क्वचिच् च वात्यौपम्यया प्रमदयारोहम् आरोपितस् तत्-काल-रजसा रजनी-भूत इवासाधु-मर्यादो रजस्-वलाक्षो ऽपि दिग्-देवता अतिरजस्-वल-मतिर् न विजानाति
_*
क्वचित् सकृद् अवगत-विषय-वैतथ्यः स्वयं पराभिध्यानेन विभ्रंशित-स्मृतिस् तयैव मरीचि-तोय-प्रायांस् तान् एवाभिधावति
_*
क्वचिद् उलूक-झिल्ली-स्वनवद् अति-परुष-रभसाटोपं प्रत्यक्षं परोक्षं वा रिपु-राज-कुल-निर्भर्त्सितेनाति-व्यथित-कर्ण-मूल-हृदयः
_*
स यदा दुग्ध-पूर्व-सुकृतस् तदा कारस्कर-काकतुण्डाद्य्-अपुण्य-द्रुम-लता-विषोद-पानवद् उभयार्थ-शून्य-द्रविणान् जीवन्-मृतान् स्वयं जीवन्-म्रियमाण उपधावति
_*
एकदासत्-प्रसङ्गान् निकृत-मतिर् व्युदक-स्रोतः-स्खलनवद् उभयतो ऽपि दुःखदं पाखण्डम् अभियाति
_*
यदा तु पर-बाधयान्ध आत्मने नोपनमति तदा हि पितृ-पुत्र-बर्हिष्मतः पितृ-पुत्रान् वा स खलु भक्षयति
_*
क्वचिद् आसाद्य गृहं दाववत् प्रियार्थ-विधुरम् असुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदम् उपगच्छति
_*
क्वचित् काल-विष-मित-राज-कुल-रक्षसापहृत-प्रियतम-धनासुः प्रमृतक इव विगत-जीव-लक्षण आस्ते
_*
कदाचिन् मनोरथोपगत-पितृ-पितामहाद्य् असत् सद् इति स्वप्न-निर्वृति-लक्षणम् अनुभवति
_*
क्वचिद् गृहाश्रम-कर्म-चोदनाति-भर-गिरिम् आरुरुक्षमाणो लोक-व्यसन-कर्षित-मनाः कण्टक-शर्करा-क्षेत्रं प्रविशन्न् इव सीदति
_*
क्वचिच् च दुःसहेन कायाभ्यन्तर-वह्निना गृहीत-सारः स्व-कुटुम्बाय क्रुध्यति
_*
स एव पुनर् निद्राजगर-गृहीतो ऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत्-किञ्चन वेद शव इवापविद्धः
_*
कदाचिद् भग्न-मान-दंष्ट्रो दुर्जन-दन्द-शूकैर् अलब्ध-निद्रा-क्षणो व्यथित-हृदयेनानुक्षीयमाण-विज्ञानो ऽन्ध-कूपे ऽन्धवत् पतति
_*
कर्हि स्म चित् काम-मधु-लवान् विचिन्वन् यदा पर-दार-पर-द्रव्-याण्य् अवरुन्धानो राज्ञा स्वामिभिर् वा निहतः पतत्य् अपारे निरये
_*
अथ च तस्माद् उभयथापि हि कर्मास्मिन्न् आत्मनः संसारावपनम् उदाहरन्ति
_*
मुक्तस् ततो यदि बन्धाद् देवदत्त उपाच्छिनत्ति तस्माद् अपि विष्णुमित्र इत्य् अनवस्थितिः
_*
क्वचिच् च शीत-वाताद्य्-अनेकाधिदैविक-भौतिकात्मीयानां दशानां प्रतिनिवारणे ऽकल्पो दुरन्त-चिन्तया विषण्ण आस्ते
_*
क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् अन्येभ्यो वा काकिणिका-मात्रम् अप्य् अपहरन् यत् किञ्चिद् वा विद्वेषम् एति वित्त-शाठ्यात्
_*
अध्वन्य् अमुष्मिन्न् इम उपसर्गास् तथा सुख-दुःख-राग-द्वेष-भयाभिमान-प्रमादोन्माद-शोक-मोह-लोभ-मात्सर्येर्ष्याव-मान-क्षुत्-पिपासाधि-व्याधि-जन्म-जरा-मरणादयः
_*
क्वापि देव-मायया स्त्रिया भुज-लतोपगूढः प्रस्कन्न-विवेक-विज्ञानो यद्-विहार-गृहारम्भाकुल-हृदयस् तद्-आश्रयावसक्त-सुत-दुहितृ-कलत्र-भाषितावलोक-विचेष्टितापहृत-हृदय आत्मानम् अजितात्मापारे ऽन्धे तमसि प्रहिणोति
_*
कदाचिद् ईश्वरस्य भगवतो विष्णोश् चक्रात् परमाण्व्-आदि-द्वि-परार्धापवर्ग-कालोपलक्षणात् परिवर्तितेन वयसा रंहसा हरत आब्रह्म-तृण-स्तम्बादीनां भूतानाम् अनिमिषतो मिषतां वित्रस्त-हृदयस् तम् एवेश्वरं काल-चक्र-निजायुधं साक्षाद् भगवन्तं यज्ञ-पुरुषम् अनादृत्य पाखण्ड-देवताः कङ्क-गृध्र-बक-वट-प्राया आर्य-समय-परिहृताः साङ्केत्येनाभिधत्ते
_*
यदा पाखण्डिभिर् आत्म-वञ्चितैस् तैर् उरु वञ्चितो ब्रह्म-कुलं समावसंस् तेषां शीलम् उपनयनादि-श्रौत-स्मार्त-कर्मानुष्ठा-नेन भगवतो यज्ञ-पुरुषस्याराधनम् एव तद् अरोचयन् शूद्र-कुलं भजते निगमाचारे ऽशुद्धितो यस्य मिथुनी-भावः कुटुम्ब-भरणं यथा वानर-जातेः
_*
तत्रापि निरवरोधः स्वैरेण विहरन्न् अति-कृपण-बुद्धिर् अन्योन्य-मुख-निरीक्षणादिना ग्राम्य-कर्मणैव विस्मृत-कालावधिः
_*
क्वचिद् द्रुमवद् ऐहिकार्थेषु गृहेषु रंस्यन् यथा वानरः सुत-दार-वत्सलो व्यवाय-क्षणः
_*
एवम् अध्वन्य् अवरुन्धानो मृत्यु-गज-भयात् तमसि गिरि-कन्दर-प्राये
_*
क्वचिच् छीत-वाताद्य्-अनेक-दैविक-भौतिकात्मीयानां दुःखानां प्रतिनिवारणे ऽकल्पो दुरन्त-विषय-विषण्ण आस्ते
_*
क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् उपयाति वित्त-शाठ्येन
_*
क्वचित् क्षीण-धनः शय्यासनाशनाद्य्-उपभोग-विहीनो यावद् अप्रतिलब्ध-मनोरथोपगतादाने ऽवसित-मतिस् ततस् ततो ऽवमानादीनि जनाद् अभिलभते
_*
एवं वित्त-व्यतिषङ्ग-विवृद्ध-वैरानुबन्धो ऽपि पूर्व-वासनया मिथ उद्वहत्य् अथापवहति
_*
एतस्मिन् संसाराध्वनि नाना-क्लेशोपसर्ग-बाधित आपन्न-विपन्नो यत्र यस् तम् उ ह वावेतरस् तत्र विसृज्य जातं जातम् उपादाय शोचन् मुह्यन् बिभ्यद्-विवदन् क्रन्दन् संहृष्यन् गायन् नह्यमानः साधु-वर्जितो नैवावर्तते ऽद्यापि यत आरब्ध एष नर-लोक-सार्थो यम् अध्वनः पारम् उपदिशन्ति
_*
यद् इदं योगानुशासनं न वा एतद् अवरुन्धते यन् न्यस्त-दण्डा मुनय उपशम-शीला उपरतात्मानः समवगच्छन्ति
_*
यद् अपि दिग्-इभ-जयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्न् अस्याम् एव ममेयम् इति कृत-वैरानुबन्धायां विसृज्य स्वयम् उपसंहृताः
_*
कर्म-वल्लीम् अवलम्ब्य तत आपदः कथञ्चिन् नरकाद् विमुक्तः पुनर् अप्य् एवं संसाराध्वनि वर्तमानो नर-लोक-सार्थम् उपयाति एवम् उपरि गतो ऽपि
_*
भ्प्_05.14.042।0 तस्येदम् उपगायन्ति----
आर्षभस्येह राजर्षेर् मनसापि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः
यो दुस्त्यजान् दार-सुतान् सुहृद् राज्यं हृदि-स्पृशः ।
जहौ युवैव मलवद् उत्तमश्लोक-लालसः
यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् $ प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् &अम्प्;
नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्- % सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः ॥ भ्प्_05.14.044* ॥
यज्ञाय धर्म-पतये विधि-नैपुणाय $ योगाय साङ्ख्य-शिरसे प्रकृतीश्वराय &
यज्ञाय धर्म-पतये विधि-नैपुणाय $ योगाय साङ्ख्य-शिरसे प्रकृतीश्वराय &
नारायणाय हरये नम इत्य् उदारं % हास्यन् मृगत्वम् अपि यः समुदाजहार ॥ भ्प्_05.14.045* ॥
य इदं भागवत-सभाजितावदात-गुण-कर्मणो राजर्षेर् भरतस्यानुचरितं स्वस्त्य्-अयनम् आयुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणोत्य् आख्यास्यत्य् अभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0