भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.13

05.13.001

भ्प्_05.13.001।0 ब्राह्मण उवाच
दुरत्यये ऽध्वन्य् अजया निवेशितो रजस्-तमः-सत्त्व-विभक्त-कर्मदृक् ।
स एष सार्थो ऽर्थ-परः परिभ्रमन् भवाटवीं याति न शर्म विन्दति

05.13.002

यस्याम् इमे षण् नर-देव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात् ।
गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तम् आविश्य यथोरणं वृकाः

05.13.003

प्रभूत-वीरुत्-तृण-गुल्म-गह्वरे कठोर-दंशैर् मशकैर् उपद्रुतः ।
क्वचित् तु गन्धर्व-पुरं प्रपश्यति क्वचित् क्वचिच् चाशु-रयोल्मुक-ग्रहम्

05.13.004

निवास-तोय-द्रविणात्म-बुद्धिस् ततस् ततो धावति भो अटव्याम् ।
क्वचिच् च वात्योत्थित-पांसु-धूम्रा दिशो न जानाति रजस्-वलाक्षः

05.13.005

अदृश्य-झिल्ली-स्वन-कर्ण-शूल उलूक-वाग्भिर् व्यथितान्तरात्मा ।
अपुण्य-वृक्षान् श्रयते क्षुधार्दितो मरीचि-तोयान्य् अभिधावति क्वचित्

05.13.006

क्वचिद् वितोयाः सरितो ऽभियाति परस्परं चालषते निरन्धः ।
आसाद्य दावं क्वचिद् अग्नि-तप्तो निर्विद्यते क्व च यक्षैर् हृतासुः

05.13.007

शूरैर् हृत-स्वः क्व च निर्विण्ण-चेताः शोचन् विमुह्यन्न् उपयाति कश्मलम् ।
क्वचिच् च गन्धर्व-पुरं प्रविष्टः प्रमोदते निर्वृतवन् मुहूर्तम्

05.13.008

चलन् क्वचित् कण्टक-शर्कराङ्घ्रिर् नगारुरुक्षुर् विमना इवास्ते ।
पदे पदे ऽभ्यन्तर-वह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय

05.13.009

क्वचिन् निगीर्णो ऽजगराहिना जनो नावैति किञ्चिद् विपिने ऽपविद्धः ।
दष्टः स्म शेते क्व च दन्द-शूकैर् अन्धो ऽन्ध-कूपे पतितस् तमिस्रे

05.13.010

कर्हि स्म चित् क्षुद्र-रसान् विचिन्वंस् तन्-मक्षिकाभिर् व्यथितो विमानः ।
तत्राति-कृच्छ्रात् प्रतिलब्धमानो बलाद् विलुम्पन्त्य् अथ तं ततो ऽन्ये

05.13.011

क्वचिच् च शीतातप-वात-वर्ष- प्रतिक्रियां कर्तुम् अनीश आस्ते ।
क्वचिन् मिथो विपणन् यच् च किञ्चिद् विद्वेषम् ऋच्छत्य् उत वित्त-शाठ्यात्

05.13.012

क्वचित् क्वचित् क्षीण-धनस् तु तस्मिन् शय्यासन-स्थान-विहार-हीनः ।
याचन् पराद् अप्रतिलब्ध-कामः पारक्य-दृष्टिर् लभते ऽवमानम्

05.13.013

अन्योन्य-वित्त-व्यतिषङ्ग-वृद्ध- वैरानुबन्धो विवहन् मिथश् च ।
अध्वन्य् अमुष्मिन्न् उरु-कृच्छ्र-वित्त- बाधोपसर्गैर् विहरन् विपन्नः

05.13.014

तांस् तान् विपन्नान् स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः ।
आवर्तते ऽद्यापि न कश्चिद् अत्र वीराध्वनः पारम् उपैति योगम्

05.13.015

मनस्विनो निर्जित-दिग्-गजेन्द्रा ममेति सर्वे भुवि बद्ध-वैराः ।
मृधे शयीरन् न तु तद् व्रजन्ति यन् न्यस्त-दण्डो गत-वैरो ऽभियाति

05.13.016

प्रसज्जति क्वापि लता-भुजाश्रयस् तद्-आश्रयाव्यक्त-पद-द्विज-स्पृहः ।
क्वचित् कदाचिद् धरि-चक्रतस् त्रसन् सख्यं विधत्ते बक-कङ्क-गृध्रैः

05.13.017

तैर् वञ्चितो हंस-कुलं समाविशन्न् अरोचयन् शीलम् उपैति वानरान् ।
तज्-जाति-रासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षण-विस्मृतावधिः

05.13.018

द्रुमेषु रंस्यन् सुत-दार-वत्सलो व्यवाय-दीनो विवशः स्व-बन्धने ।
क्वचित् प्रमादाद् गिरि-कन्दरे पतन् वल्लीं गृहीत्वा गज-भीत आस्थितः

05.13.019

अतः कथञ्चित् स विमुक्त आपदः पुनश् च सार्थं प्रविशत्य् अरिन्दम ।
अध्वन्य् अमुष्मिन्न् अजया निवेशितो भ्रमञ् जनो ऽद्यापि न वेद कश्चन

05.13.020

रहूगण त्वम् अपि ह्य् अध्वनो ऽस्य सन्न्यस्त-दण्डः कृत-भूत-मैत्रः ।
असज्-जितात्मा हरि-सेवया शितं ज्ञानासिम् आदाय तराति-पारम्

05.13.021

भ्प्_05.13.021।0 राजोवाच
अहो नृ-जन्माखिल-जन्म-शोभनं किं जन्मभिस् त्व् अपरैर् अप्य् अमुष्मिन् ।
न यद् धृषीकेश-यशः-कृतात्मनां महात्मनां वः प्रचुरः समागमः

05.13.022

न ह्य् अद्भुतं त्वच्-चरणाब्ज-रेणुभिर् हतांहसो भक्तिर् अधोक्षजे ऽमला ।
मौहूर्तिकाद् यस्य समागमाच् च मे दुस्तर्क-मूलो ऽपहतो ऽविवेकः

05.13.023

नमो महद्भ्यो ऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आवटुभ्यः ।
ये ब्राह्मणा गाम् अवधूत-लिङ्गाश् चरन्ति तेभ्यः शिवम् अस्तु राज्ञाम्

05.13.024

भ्प्_05.13.024।0 श्री-शुक उवाच
इत्य् एवम् उत्तरा-मातः स वै ब्रह्मर्षि-सुतः सिन्धु-पतय आत्म-सतत्त्वं विगणयतः परानुभावः परम-कारुणिकतयोपदिश्य रहूगणेन सकरुणम् अभिवन्दित-चरण आपूर्णार्णव इव निभृत-करणोर्म्य्-आशयो धरणिम् इमां विचचार

05.13.025

_*
सौवीर-पतिर् अपि सुजन-समवगत-परमात्म-सतत्त्व आत्मन्य् अविद्याध्यारोपितां च देहात्म-मतिं विससर्ज एवं हि नृप भगवद्-आश्रिताश्रितानुभावः

05.13.026

_*
भ्प्_05.13.026।0 राजोवाच
यो ह वा इह बहु-विदा महा-भागवत त्वयाभिहितः परोक्षेण वचसा जीव-लोक-भवाध्वा स ह्य् आर्य-मनीषया कल्पित-विषयोनाञ्जसाव्युत्पन्न-लोक-समधिगमः अथ तद् एवैतद् दुरवगमं समवेतानुकल्पेन निर्दिश्यताम् इति

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc