भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.09

05.09.001

_*
भ्प्_05.09.001।0 श्री-शुक उवाच
अथ कस्यचिद् द्विज-वरस्याङ्गिरः-प्रवरस्य शम-दम-तपः-स्वाध्यायाध्ययन-त्याग-सन्तोष-तितिक्षा-प्रश्रय-विद्यानसूयात्म-ज्ञानानन्द-युक्तस्यात्म-सदृश-श्रुत-शीलाचार-रूपौदार्य-गुणा नव सोदर्या अङ्गजा बभूवुर् मिथुनं च यवीयस्यां भार्यायाम्

05.09.002

_*
यस् तु तत्र पुमांस् तं परम-भागवतं राजर्षि-प्रवरं भरतम् उत्सृष्ट-मृग-शरीरं चरम-शरीरेण विप्रत्वं गतम् आहुः

05.09.003

_*
तत्रापि स्वजन-सङ्गाच् च भृशम् उद्विजमानो भगवतः कर्म-बन्ध-विध्वंसन-श्रवण-स्मरण-गुण-विवरण-चरणारविन्द-युगलं मनसा विदधद् आत्मनः प्रतिघातम् आशङ्कमानो भगवद्-अनुग्रहेणानुस्मृत-स्व-पूर्व-जन्मावलिर् आत्मानम् उन्मत्त-जडान्ध-बधिर-स्वरूपेण दर्शयाम् आस लोकस्य

05.09.004

_*
तस्यापि ह वा आत्मजस्य विप्रः पुत्र-स्नेहानुबद्ध-मना आसमावर्तनात् संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्म-नियमान् अनभिप्रेतान् अपि समशिक्षयद् अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति

05.09.005

_*
स चापि तद् उ ह पितृ-सन्निधाव् एवासध्रीचीनम् इव स्म करोति छन्दांस्य् अध्यापयिष्यन् सह व्याहृतिभिः सप्रणव-शिरस् त्रिपदीं सावित्रीं ग्रैष्म-वासन्तिकान् मासान् अधीयानम् अप्य् असमवेत-रूपं ग्राहयाम् आस

05.09.006

_*
एवं स्व-तनुज आत्मन्य् अनुरागावेशित-चित्तः शौचाध्ययन-व्रत-नियम-गुर्व्-अनल-शुश्रूषणाद्य्-औपकुर्वाणक-कर्माण्य् अनभियुक्तान्य् अपि समनुशिष्टेन भाव्यम् इत्य् असद्-आग्रहः पुत्रम् अनुशास्य स्वयं तावद् अनधिगत-मनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः

05.09.007

_*
अथ यवीयसी द्विज-सती स्व-गर्भ-जातं मिथुनं सपत्न्या उपन्यस्य स्वयम् अनुसंस्थया पतिलोकम् अगात्

05.09.008

_*
पितर्य् उपरते भ्रातर एनम् अतत्-प्रभाव-विदस् त्रय्यां विद्यायाम् एव पर्यवसित-मतयो न पर-विद्यायां जड-मतिर् इति भ्रातुर् अनुशासन-निर्बन्धान् न्यवृत्सन्त

05.09.009

_*
स च प्राकृतैर् द्विपद-पशुभिर् उन्मत्त-जड-बधिर-मूकेत्य् अभिभाष्यमाणो यदा तद्-अनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितम् अल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रिय-प्रीति-निमित्तम् नित्य-निवृत्त-निमित्त-स्व-सिद्ध-विशुद्धानुभवानन्द-स्वात्म-लाभाधिगमः सुख-दुःखयोर् द्वन्द्व-निमित्तयोर् असम्भावित-देहाभिमानः

05.09.010

_*
शीतोष्ण-वात-वर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिल-संवेशनानुन्मर्दनामज्जन-रजसा महामणिर् इवानभिव्यक्त-ब्रह्म-वर्चसः कुपटावृत-कटिर् उपवीतेनोरु-मषिणा द्विजातिर् इति ब्रह्म-बन्धुर् इति संज्ञयातज्-ज्ञजनावमतो विचचार

05.09.011

_*
यदा तु परत आहारं कर्म-वेतनत ईहमानः स्व-भ्रातृभिर् अपि केदार-कर्मणि निरूपितस् तद् अपि करोति किन्तु न समं विषमं न्यूनम् अधिकम् इति वेद कण-पिण्याक-फली-करण-कुल्माष-स्थालीपुरीषादीन्य् अप्य् अमृतवद् अभ्यवहरति

05.09.012

_*
अथ कदाचित् कश्चिद् वृषल-पतिर् भद्र-काल्यै पुरुष-पशुम् आलभतापत्य-कामः

05.09.013

_*
तस्य ह दैव-मुक्तस्य पशोः पदवीं तद्-अनुचराः परिधावन्तो निशि निशीथ-समये तमसावृतायाम् अनधिगत-पशव आकस्मिकेन विधिना केदारान् वीरासनेन मृग-वराहादिभ्यः संरक्षमाणम् अङ्गिरः-प्रवर-सुतम् अपश्यन्

05.09.014

_*
अथ त एनम् अनवद्य-लक्षणम् अवमृश्य भर्तृ-कर्म-निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका-गृहम् उपनिन्युर् मुदा विकसित् अ-वदनाः

05.09.015

_*
अथ पणयस् तं स्व-विधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेप-स्रक्-तिलकादिभिर् उपस्कृतं भुक्तवन्तं धूप-दीप-माल्य-लाज-किसलयाङ्कुर-फलोपहारोपेतया वैशस-संस्थया महता गीत-स्तुति-मृदङ्ग-पणव-घोषेण च पुरुष-पशुं भद्र-काल्याः पुरत उपवेशयाम् आसुः

05.09.016

_*
अथ वृषल-राज-पणिः पुरुष-पशोर् असृग्-आसवेन देवीं भद्र-कालीं यक्ष्यमाणस् तद्-अभिमन्त्रितम् असिम् अति-कराल-निशितम् उपाददे

05.09.017

_*
इति तेषां वृषलानां रजस्-तमः-प्रकृतीनां धन-मद-रज-उत्सिक्त-मनसां भगवत्-कला-वीर-कुलं कदर्थी-कृत्योत्पथेन स्वैरं विहरतां हिंसा-विहाराणां कर्माति-दारुणं यद् ब्रह्म-भूतस्य साक्षाद् ब्रह्मर्षि-सुतस्य निर्वैरस्य सर्व-भूत-सुहृदः सूनायाम् अप्य् अननुमतम् आलम्भनं तद् उपलभ्य ब्रह्म-तेजसाति-दुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्र-काली

05.09.018

_*
भृशम् अमर्ष-रोषावेश-रभस-विलसित-भ्रु-कुटि-विटप-कुटिल-दंष्ट्रारुणेक्षणाटोपाति-भयानक-वदना हन्तु-कामेवेदं महाट्ट-हासम् अति-संरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्ण-शीर्ष्णां गलात् स्रवन्तम् असृग्-आसवम् अत्युष्णं सह गणेन निपीयाति-पान-मद-विह्वलोच्चैस्तरां स्व-पार्षदैः सह जगौ ननर्त च विजहार च शिरः-कन्दुक-लीलया

05.09.019

_*
एवम् एव खलु महद्-अभिचाराति-क्रमः कार्त्स्न्येनात्मने फलति

05.09.020

_*
न वा एतद् विष्णुदत्त महद्-अद्भुतं यद् असम्भ्रमः स्व-शिरश्-छेदन आपतिते ऽपि विमुक्त-देहाद्य्-आत्म-भाव-सुदृढ-हृदय-ग्रन्थीनां सर्व-सत्त्व-सुहृद्-आत्मनां निर्वैराणां साक्षाद् भगवतानिमिषारि-वरायुधेनाप्रमत्तेन तैस् तैर् भावैः परिरक्ष्यमाणानां तत्-पाद-मूलम् अकुतश्चिद्-भयम् उपसृतानां भागवत-परमहंसानाम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc