भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.08

05.08.001

भ्प्_05.08.001।0 श्री-शुक उवाच
एकदा तु महा-नद्यां कृताभिषेक-नैयमिकावश्यको ब्रह्माक्षरम् अभिगृणानो मुहूर्त-त्रयम् उदकान्त उपविवेश

05.08.002

_*
तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्याशम् एकैवोपजगाम

05.08.003

_*
तया पेपीयमान उदके तावद् एवाविदूरेण नदतो मृग-पतेर् उन्नादो लोक-भयङ्कर उदपतत्

05.08.004

_*
तम् उपश्रुत्य सा मृग-वधूः प्रकृति-विक्लवा चकित-निरीक्षणा सुतराम् अपि हरि-भयाभिनिवेश-व्यग्र-हृदया पारिप्लव-दृष्टिर् अगत-तृषा भयात् सहसैवोच्चक्राम

05.08.005

_*
तस्या उत्पतन्त्या अन्तर्वत्न्या उरु-भयावगलितो योनि-निर्गतो गर्भः स्रोतसि निपपात

05.08.006

_*
तत्-प्रसवोत्सर्पण-भय-खेदातुरा स्व-गणेन वियुज्यमाना कस्याञ्चिद् दर्यां कृष्ण-सारसती निपपाताथ च ममार

05.08.007

_*
तं त्व् एण-कुणकं कृपणं स्रोतसानूह्यमानम् अभिवीक्ष्यापविद्धं बन्धुर् इवानुकम्पया राजर्षिर् भरत आदाय मृत-मातरम् इत्य् आश्रम-पदम् अनयत्

05.08.008

_*
तस्य ह वा एण-कुणक उच्चैर् एतस्मिन् कृत-निजाभिमानस्याहर्-अहस् तत्-पोषण-पालन-लालन-प्रीणनानुध्यानेनात्म-नियमाः सह-यमाः पुरुष-परिचर्यादय एकैकशः कतिपयेनाहर्-गणेन वियुज्यमानाः किल सर्व एवोदवसन्

05.08.009

_*
अहो बतायं हरिण-कुणकः कृपण ईश्वर-रथ-चरण-परिभ्रमण-रयेण स्व-गण-सुहृद्-बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो माम् एव माता-पितरौ भ्रातृ-ज्ञातीन् यौथिकांश् चैवोपेयाय नान्यं कञ्चन वेद मय्य् अति-विस्रब्धश् चात एव मया मत्-परायणस्य पोषण-पालन-प्रीणन-लालनम् अनसूयुनानुष्ठेयं शरण्योपेक्षा-दोष-विदुषा

05.08.010

_*
नूनं ह्य् आर्याः साधव उपशम-शीलाः कृपण-सुहृद एवं-विधार्थे स्वार्थान् अपि गुरुतरान् उपेक्षन्ते

05.08.011

_*
इति कृतानुषङ्ग आसन-शयनाटन-स्नानाशनादिषु सह मृग-जहुना स्नेहानुबद्ध-हृदय आसीत्

05.08.012

_*
कुश-कुसुम-समित्-पलाश-फल-मूलोदकान्य् आहरिष्यमाणो वृकसाला-वृकादिभ्यो भयम् आशंसमानो यदा सह हरिण-कुणकेन वनं समाविशति

05.08.013

_*
पथिषु च मुग्ध-भावेन तत्र तत्र विषक्त-मति-प्रणय-भर-हृदयः कार्पण्यात् स्कन्धेनोद्वहति एवम् उत्सङ्ग उरसि चाधायोपलालयन् मुदं परमाम् अवाप

05.08.014

_*
क्रियायां निर्वर्त्यमानायाम् अन्तराले ऽप्य् उत्थायोत्थाय यदैनम् अभिचक्षीत तर्हि वाव स वर्ष-पतिः प्रकृति-स्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद् वत्स ते सर्वत इति

05.08.015

_*
अन्यदा भृशम् उद्विग्न-मना नष्ट-द्रविण इव कृपणः सकरुणम् अति-तर्षेण हरिण-कुणक-विरह-विह्वल-हृदय-सन्तापस् तम् एवानुशोचन् किल कश्मलं महद् अभिरम्भित इति होवाच

05.08.016

_*
अपि बत स वै कृपण एण-बालको मृत-हरिणी-सुतो ऽहो ममानार्यस्य शठ-किरात-मतेर् अकृत-सुकृतस्य कृत-विस्रम्भ आत्म-प्रत्ययेन तद् अविगणयन् सुजन इवागमिष्यति

05.08.017

_*
अपि क्षेमेणास्मिन्न् आश्रमोपवने शष्पाणि चरन्तं देव-गुप्तं द्रक्ष्यामि

05.08.018

_*
अपि च न वृकः साला-वृको ऽन्यतमो वा नैक-चर एक-चरो वा भक्षयति

05.08.019

_*
निम्लोचति ह भगवान् सकल-जगत्-क्षेमोदयस् त्रय्य्-आत्माद्यापि मम न मृग-वधू-न्यास आगच्छति

05.08.020

_*
अपि स्विद् अकृत-सुकृतम् आगत्य मां सुखयिष्यति हरिण-राज-कुमारो विविध-रुचिर-दर्शनीय-निज-मृग-दारक-विनोदैर् असन्तोषं स्वानाम् अपनुदन्

05.08.021

_*
क्ष्वेलिकायां मां मृषा-समाधिनामीलित-दृशं प्रेम-संरम्भेण चकित-चकित आगत्य पृषद्-अपरुष-विषाणाग्रेण लुठति

05.08.022

_*
आसादित-हविषि बर्हिषि दूषिते मयोपालब्धो भीत-भीतः सपद्य् उपरत-रास ऋषि-कुमारवद् अवहित-करण-कलाप आस्ते

05.08.023

_*
किं वा अरे आचरितं तपस् तपस्विन्यानया यद् इयम् अवनिः सविनय-कृष्ण-सार-तनय-तनुतर-सुभग-शिवतमाखर-खुर-पद-पङ्क्तिभिर् द्रविण-विधुरातुरस्य कृपणस्य मम द्रविण-पदवीं सूचयन्त्य् आत्मानं च सर्वतः कृत-कौतुकं द्विजानां स्वर्गापवर्ग-कामानां देव-यजनं करोति

05.08.024

_*
अपि स्विद् असौ भगवान् उडु-पतिर् एनं मृग-पति-भयान् मृत-मातरं मृग-बालकं स्वाश्रम-परिभ्रष्टम् अनुकम्पया कृपण-जन-वत्सलः परिपाति

05.08.025

_*
किं वात्मज-विश्लेष-ज्वर-दव-दहन-शिखाभिर् उपतप्यमान-हृदय-स्थल-नलिनीकं माम् उपसृत-मृगी-तनयं शिशिर-शान्तानुराग-गुणित-निज-वदन-सलिलामृतमय-गभस्तिभिः स्वधयतीति च

05.08.026

_*
एवम् अघटमान-मनोरथाकुल-हृदयो मृग-दारकाभासेन स्वारब्ध-कर्मणा योगारम्भणतो विभ्रंशितः स योग-तापसो भगवद्-आराधन-लक्षणाच् च कथम् इतरथा जात्य्-अन्तर एण-कुणक आसङ्गः साक्षान् निःश्रेयस-प्रतिपक्षतया प्राक्-परित्यक्त-दुस्त्यज-हृदयाभिजातस्य तस्यैवम् अन्तराय-विहत-योगारम्भणस्य राजर्षेर् भरतस्य तावन् मृगार्भक-पोषण-पालन-प्रीणन-लालनानुषङ्गेणाविगणयत आत्मानम् अहिर् इवाखु-बिलं दुरतिक्रमः कालः कराल-रभस आपद्यत

05.08.027

_*
तदानीम् अपि पार्श्व-वर्तिनम् आत्मजम् इवानुशोचन्तम् अभिवीक्षमाणो मृग एवाभिनिवेशित-मना विसृज्य लोकम् इमं सह मृगेण कलेवरं मृतम् अनु न मृत-जन्मानुस्मृतिर् इतरवन् मृग-शरीरम् अवाप

05.08.028

_*
तत्रापि ह वा आत्मनो मृगत्व-कारणं भगवद्-आराधन-समीहानुभावेनानुस्मृत्य भृशम् अनुतप्यमान आह

05.08.029

_*
अहो कष्टं भ्रष्टो ऽहम् आत्मवताम् अनुपथाद् यद्-विमुक्त-समस्त-सङ्गस्य विविक्त-पुण्यारण्य-शरणस्यात्मवत आत्मनि सर्वेषाम् आत्मनां भगवति वासुदेवे तद्-अनुश्रवण-मनन-सङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्य-सकल-यामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस् तत् तु पुनर् ममाबुधस्यारान् मृग-सुतम् अनु परिसुस्राव

05.08.030

_*
इत्य् एवं निगूढ-निर्वेदो विसृज्य मृगीं मातरं पुनर् भगवत्-क्षेत्रम् उपशम-शील-मुनि-गण-दयितं शालग्रामं पुलस्त्य-पुलहाश्रमं कालञ्जरात् प्रत्याजगाम

05.08.031

_*
तस्मिन्न् अपि कालं प्रतीक्षमाणः सङ्गाच् च भृशम् उद्विग्न आत्म-सहचरः शुष्क-पर्ण-तृण-वीरुधा वर्तमानो मृगत्व-निमित्तावसानम् एव गणयन् मृग-शरीरं तीर्थोदक-क्लिन्नम् उत्-ससर्ज

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc