भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.07

05.07.001

_*
राजन् पतिर् गुरुर् अलं भवतां यदूनां $ दैवं प्रियः कुल-पतिः क्व च किङ्करो वः &
राजन् पतिर् गुरुर् अलं भवतां यदूनां $ दैवं प्रियः कुल-पतिः क्व च किङ्करो वः &
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो % मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ भ्प्_05.06.018* ॥
नित्यानुभूत-निज-लाभ-निवृत्त-तृष्णः $ श्रेयस्य् अतद्-रचनया चिर-सुप्त-बुद्धेः &
नित्यानुभूत-निज-लाभ-निवृत्त-तृष्णः $ श्रेयस्य् अतद्-रचनया चिर-सुप्त-बुद्धेः &
लोकस्य यः करुणयाभयम् आत्म-लोकम् % आख्यान् नमो भगवते ऋषभाय तस्मै ॥ भ्प्_05.06.019*
0 श्री-शुक उवाच
भरतस् तु महा-भागवतो यदा भगवतावनि-तल-परिपालनाय सञ्चिन्तितस् तद्-अनुशासन-परः पञ्चजनीं विश्वरूप-दुहितरम् उपयेमे

05.07.002

_*
तस्याम् उ ह वा आत्मजान् कार्त्स्न्येनानुरूपान् आत्मनः पञ्च जनयाम् आस भूतादिर् इव भूत-सूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनम् आवरणं धूम्रकेतुम् इति

05.07.003

_*
अजनाभं नामैतद् वर्षं भारतम् इति यत आरभ्य व्यपदिशन्ति

05.07.004

_*
स बहुविन् मही-पतिः पितृ-पितामहवद् उरु-वत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्व-धर्मम् अनुवर्तमानः पर्यपालयत्

05.07.005

_*
ईजे च भगवन्तं यज्ञ-क्रतु-रूपं क्रतुभिर् उच्चावचैः श्रद्धयाहृताग्निहोत्र-दर्श-पूर्णमास-चातुर्मास्य-पशु-सोमानां प्रकृति-विकृतिभिर् अनुसवनं चातुर्होत्र-विधिना

05.07.006

_*
सम्प्रचरत्सु नाना-यागेषु विरचिताङ्ग-क्रियेष्व् अपूर्वं यत् तत् क्रिया-फलं धर्माख्यं परे ब्रह्मणि यज्ञ-पुरुषे सर्व-देवता-लिङ्गानां मन्त्राणाम् अर्थ-नियाम-कतया साक्षात्-कर्तरि पर-देवतायां भगवति वासुदेव एव भावयमान आत्म-नैपुण्य-मृदित-कषायो हविःष्व् अध्वर्युभिर् गृह्यमाणेषु स यजमानो यज्ञ-भाजो देवांस् तान् पुरुषावयवेष्व् अभ्यध्यायत्

05.07.007

_*
एवं कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्यान्तर्-हृदयाकाश-शरीरे ब्रह्मणि भगवति वासुदेवे महा-पुरुष-रूपोपलक्षणे श्रीवत्स-कौस्तुभ-वन-मालारि-दर-गदादिभिर् उपलक्षिते निज-पुरुष-हृल्-लिखितेनात्मनि पुरुष-रूपेण विरोचमान उच्चैस्तरां भक्तिर् अनुदिनम् एधमान-रयाजायत

05.07.008

_*
एवं वर्षायुत-सहस्र-पर्यन्तावसित-कर्म-निर्वाणावसरो ऽधिभुज्यमानं स्व-तनयेभ्यो रिक्थं पितृ-पैतामहं यथा-दायं विभज्य स्वयं सकल-सम्पन्-निकेतात् स्व-निकेतात् पुलहाश्रमं प्रवव्राज

05.07.009

_*
यत्र ह वाव भगवान् हरिर् अद्यापि तत्रत्यानां निज-जनानां वात्सल्येन सन्निधाप्यत इच्छा-रूपेण

05.07.010

_*
यत्राश्रम-पदान्य् उभयतो नाभिभिर् दृषच्-चक्रैश् चक्र-नदी नाम सरित्-प्रवरा सर्वतः पवित्री-करोति

05.07.011

_*
तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने विविध-कुसुम-किसलय-तुलसिकाम्बुभिः कन्द-मूल-फलोपहारैश् च समीहमानो भगवत आराधनं विविक्त उपरत-विषयाभिलाष उपभृतोपशमः परां निर्वृतिम् अवाप

05.07.012

_*
तयेत्थम् अविरत-पुरुष-परिचर्यया भगवति प्रवर्धमाना-नुराग-भर-द्रुत-हृदय-शैथिल्यः प्रहर्ष-वेगेनात्मन्य् उद्भिद्यमान-रोम-पुलक-कुलक औत्कण्ठ्य-प्रवृत्त-प्रणय-बाष्प-निरुद्धावलोक-नयन एवं निज-रमणारुण-चरणारविन्दानुध्यान-परिचित-भक्ति-योगेन परिप्लुत-परमाह्लाद-गम्भीर-हृदय-ह्रदावगाढ-धिषणस् ताम् अपि क्रियमाणां भगवत्-सपर्यां न सस्मार

05.07.013

_*
इत्थं धृत-भगवद्-व्रत ऐणेयाजिन-वाससानुसवनाभिषेकार्द्र-कपिश-कुटिल-जटा-कलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषम् उज्जिहाने सूर्य-मण्डले ऽभ्युपतिष्ठन्न् एतद् उ होवाच

05.07.014

_*
परो-रजः सवितुर् जात-वेदो देवस्य भर्गो मनसेदं जजान ।
सुरेतसादः पुनर् आविश्य चष्टे हंसं गृध्राणं नृषद्-रिङ्गिराम् इमः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc