भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.06

05.06.001

_*
भ्प्_05.06.001।0 राजोवाच
न नूनं भगव आत्मारामाणां योग-समीरित-ज्ञानावभर्जित-कर्म-बीजानाम् ऐश्वर्याणि पुनः क्लेशदानि भवितुम् अर्हन्ति यदृच्-छयोपगतानि

05.06.002

_*
भ्प्_05.06.002।0 ऋषिर् उवाच
सत्यम् उक्तं किन्त्व् इह वा एके न मनसो ऽद्धा विश्रम्भम् अनवस्थानस्य शठ-किरात इव सङ्गच्छन्ते

05.06.003

_*
भ्प्_05.06.003।0 तथा चोक्तम्
न कुर्यात् कर्हिचित् सख्यं मनसि ह्य् अनवस्थिते ।
यद्-विश्रम्भाच् चिराच् चीर्णं चस्कन्द तप ऐश्वरम्

05.06.004

नित्यं ददाति कामस्य च्छिद्रं तम् अनु ये ऽरयः ।
योगिनः कृत-मैत्रस्य पत्युर् जायेव पुंश्चली

05.06.005

कामो मन्युर् मदो लोभः शोक-मोह-भयादयः ।
कर्म-बन्धश् च यन्-मूलः स्वीकुर्यात् को नु तद् बुधः

05.06.006

अथैवम् अखिल-लोक-पाल-ललामो ऽपि विलक्षणैर् जडवद् अवधूत-वेष-भाषा-चरितैर् अविलक्षित-भगवत्-प्रभावो योगिनां साम्पराय-विधिम् अनुशिक्षयन् स्व-कलेवरं जिहासुर् आत्मन्य् आत्मानम् असंव्यवहितम् अनर्थान्तर-भावेनान्वीक्षमाण उपरतानुवृत्तिर् उपरराम

05.06.007

_*
तस्य ह वा एवं मुक्त-लिङ्गस्य भगवत ऋषभस्य योगमाया-वासनया देह इमां जगतीम् अभिमानाभासेन सङ्क्रममाणः कोङ्क-वेङ्क-कुटकान् दक्षिण-कर्णाटकान् देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्म-कवल उन्माद इव मुक्त-मूर्धजो ऽसंवीत एव विचचार

05.06.008

_*
अथ समीर-वेग-विधूत-वेणु-विकर्षण-जातोग्र-दावानलस् तद् वनम् आलेलिहानः सह तेन ददाह

05.06.009

_*
यस्य किलानुचरितम् उपाकर्ण्य कोङ्क-वेङ्क-कुटकानां राजार्हन्-नामोपशिक्ष्य कलाव् अधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्व-धर्म-पथम् अकुतो-भयम् अपहाय कुपथ-पाखण्डम् असमञ्जसं निज-मनीषया मन्दः सम्प्रवर्तयिष्यते

05.06.010

_*
येन ह वाव कलौ मनुजापसदा देव-माया-मोहिताः स्व-विधि-नियोग-शौच-चारित्र-विहीना देव-हेलनान्य् अपव्रतानि निज-निजेच्छया गृह्णाना अस्नानानाचमनाशौच-केशोल्लुञ्चनादीनि कलिनाधर्म-बहुलेनोपहत-धियो ब्रह्म-ब्राह्मण-यज्ञ-पुरुष-लोक-विदूषकाः प्रायेण भविष्यन्ति

05.06.011

_*
ते च ह्य् अर्वाक्तनया निज-लोक-यात्रयान्ध-परम्परयाश्वस्तास् तमस्य् अन्धे स्वयम् एव प्रपतिष्यन्ति

05.06.012

_*
अयम् अवतारो रजसोपप्लुत-कैवल्योपशिक्षणार्थः

05.06.013

_*
भ्प्_05.06.013।0 तस्यानुगुणान् श्लोकान् गायन्ति----
अहो भुवः सप्त-समुद्रवत्या द्वीपेषु वर्षेष्व् अधिपुण्यम् एतत् ।
गायन्ति यत्रत्य-जना मुरारेः कर्माणि भद्राण्य् अवतारवन्ति

05.06.014

अहो नु वंशो यशसावदातः प्रैयव्रतो यत्र पुमान् पुराणः ।
कृतावतारः पुरुषः स आद्यश् चचार धर्मं यद् अकर्म-हेतुम्

05.06.015

को न्व् अस्य काष्ठाम् अपरो ऽनुगच्छेन् मनो-रथेनाप्य् अभवस्य योगी ।
यो योग-मायाः स्पृहयत्य् उदस्ता ह्य् असत्तया येन कृत-प्रयत्नाः

05.06.016

इति ह स्म सकल-वेद-लोक-देव-ब्राह्मण-गवां परम-गुरोर् भगवत ऋषभाख्यस्य विशुद्धाचरितम् ईरितं पुंसां समस्त-दुश्चरिताभिहरणं परम-महा-मङ्गलायनम् इदम् अनुश्रद्धयोपचितयानुशृणोत्य् आश्रावयति वावहितो भगवति तस्मिन् वासुदेव एकान्ततो भक्तिर् अनयोर् अपि समनुवर्तते

05.06.017

_*
यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc