भागवत पुराण · अध्याय 05.05
_*
भ्प्_05.05.001।0 ऋषभ उवाच
नायं देहो देह-भाजां नृलोके कष्टान् कामान् अर्हते विड्-भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद् यस्माद् ब्रह्म-सौख्यं त्व् अनन्तम्
महत्-सेवां द्वारम् आहुर् विमुक्तेस् तमो-द्वारं योषितां सङ्गि-सङ्गम् ।
महान्तस् ते सम-चित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये
ये वा मयीशे कृत-सौहृदार्था जनेषु देहम्भर-वार्तिकेषु ।
गृहेषु जायात्मज-रातिमत्सु न प्रीति-युक्ता यावद्-अर्थाश् च लोके
नूनं प्रमत्तः कुरुते विकर्म यद् इन्द्रिय-प्रीतय आपृणोति ।
न साधु मन्ये यत आत्मनो ऽयम् असन्न् अपि क्लेशद आस देहः
पराभवस् तावद् अबोध-जातो यावन् न जिज्ञासत आत्म-तत्त्वम् ।
यावत् क्रियास् तावद् इदं मनो वै कर्मात्मकं येन शरीर-बन्धः
एवं मनः कर्म-वशं प्रयुङ्क्ते अविद्ययात्मन्य् उपधीयमाने ।
प्रीतिर् न यावन् मयि वासुदेवे न मुच्यते देह-योगेन तावत्
यदा न पश्यत्य् अयथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित् ।
गत-स्मृतिर् विन्दति तत्र तापान् आसाद्य मैथुन्यम् अगारम् अज्ञः
पुंसः स्त्रिया मिथुनी-भावम् एतं तयोर् मिथो हृदय-ग्रन्थिम् आहुः ।
अतो गृह-क्षेत्र-सुताप्त-वित्तैर् जनस्य मोहो ऽयम् अहं ममेति
यदा मनो-हृदय-ग्रन्थिर् अस्य कर्मानुबद्धो दृढ आश्लथेत ।
तदा जनः सम्परिवर्तते ऽस्माद् मुक्तः परं यात्य् अतिहाय हेतुम्
हंसे गुरौ मयि भक्त्यानुवृत्या वितृष्णया द्वन्द्व-तितिक्षया च ।
सर्वत्र जन्तोर् व्यसनावगत्या जिज्ञासया तपसेहा-निवृत्त्या
मत्-कर्मभिर् मत्-कथया च नित्यं मद्-देव-सङ्गाद् गुण-कीर्तनान् मे ।
निर्वैर-साम्योपशमेन पुत्रा जिहासया देह-गेहात्म-बुद्धेः
अध्यात्म-योगेन विविक्त-सेवया प्राणेन्द्रियात्माभिजयेन सध्र्यक् ।
सच्-छ्रद्धया ब्रह्मचर्येण शश्वद् असम्प्रमादेन यमेन वाचाम्
सर्वत्र मद्-भाव-विचक्षणेन ज्ञानेन विज्ञान-विराजितेन ।
योगेन धृत्य्-उद्यम-सत्त्व-युक्तो लिङ्गं व्यपोहेत् कुशलो ऽहम्-आख्यम्
कर्माशयं हृदय-ग्रन्थि-बन्धम् अविद्ययासादितम् अप्रमत्तः ।
अनेन योगेन यथोपदेशं सम्यग् व्यपोह्योपरमेत योगात्
पुत्रांश् च शिष्यांश् च नृपो गुरुर् वा मल्-लोक-कामो मद्-अनुग्रहार्थः ।
इत्थं विमन्युर् अनुशिष्याद् अतज्-ज्ञान् न योजयेत् कर्मसु कर्म-मूढान् ।
कं योजयन् मनुजो ऽर्थं लभेत निपातयन् नष्ट-दृशं हि गर्ते
लोकः स्वयं श्रेयसि नष्ट-दृष्टिर् यो ऽर्थान् समीहेत निकाम-कामः ।
अन्योन्य-वैरः सुख-लेश-हेतोर् अनन्त-दुःखं च न वेद मूढः
कस् तं स्वयं तद्-अभिज्ञो विपश्चिद् अविद्यायाम् अन्तरे वर्तमानम् ।
दृष्ट्वा पुनस् तं सघृणः कुबुद्धिं प्रयोजयेद् उत्पथगं यथान्धम्
गुरुर् न स स्यात् स्व-जनो न स स्यात् पिता न स स्याज् जननी न सा स्यात् ।
दैवं न तत् स्यान् न पतिश् च स स्यान् न मोचयेद् यः समुपेत-मृत्युम्
इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः ।
पृष्ठे कृतो मे यद् अधर्म आराद् अतो हि माम् ऋषभं प्राहुर् आर्याः
तस्माद् भवन्तो हृदयेन जाताः सर्वे महीयांसम् अमुं सनाभम् ।
अक्लिष्ट-बुद्ध्या भरतं भजध्वं शुश्रूषणं तद् भरणं प्रजानाम्
भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास् तेषु सबोध-निष्ठाः ।
ततो मनुष्याः प्रमथास् ततो ऽपि गन्धर्व-सिद्धा विबुधानुगा ये
देवासुरेभ्यो मघवत्-प्रधाना दक्षादयो ब्रह्म-सुतास् तु तेषाम् ।
भवः परः सो ऽथ विरिञ्च-वीर्यः स मत्-परो ऽहं द्विज-देव-देवः
न ब्राह्मणैस् तुलये भूतम् अन्यत् पश्यामि विप्राः किम् अतः परं तु ।
यस्मिन् नृभिः प्रहुतं श्रद्धयाहम् अश्नामि कामं न तथाग्नि-होत्रे
धृता तनूर् उशती मे पुराणी येनेह सत्त्वं परमं पवित्रम् ।
शमो दमः सत्यम् अनुग्रहश् च तपस् तितिक्षानुभवश् च यत्र
मत्तो ऽप्य् अनन्तात् परतः परस्मात् स्वर्गापवर्गाधिपतेर् न किञ्चित् ।
येषां किम् उ स्याद् इतरेण तेषाम् अकिञ्चनानां मयि भक्ति-भाजाम्
सर्वाणि मद्-धिष्ण्यतया भवद्भिश् चराणि भूतानि सुता ध्रुवाणि ।
सम्भावितव्यानि पदे पदे वो विविक्त-दृग्भिस् तद् उ हार्हणं मे
मनो-वचो-दृक्-करणेहितस्य साक्षात्-कृतं मे परिबर्हणं हि ।
विना पुमान् येन महा-विमोहात् कृतान्त-पाशान् न विमोक्तुम् ईशेत्
भ्प्_05.05.028।0 श्री-शुक उवाच
एवम् अनुशास्यात्मजान् स्वयम् अनुशिष्टान् अपि लोकानुशासनार्थं महानुभावः परम-सुहृद् भगवान् ऋषभापदेश उपशम-शीलानाम् उपरत-कर्मणां महा-मुनीनां भक्ति-ज्ञान-वैराग्य-लक्षणं पारमहंस्य-धर्मम् उपशिक्षमाणः स्व-तनय-शत-ज्येष्ठं परम-भागवतं भगवज्-जन-परायणं भरतं धरणि-पालनायाभिषिच्य स्वयं भवन एवोर्वरित-शरीर-मात्र-परिग्रह उन्मत्त इव गगन-परिधानः प्रकीर्ण-केश आत्मन्य् आरोपिताहवनीयो ब्रह्मावर्तात् प्रवव्राज
_*
जडान्ध-मूक-बधिर-पिशाचोन्मादकवद्-अवधूत-वेषो ऽभिभाष्यमाणो ऽपि जनानां गृहीत-मौन-व्रतस् तूष्णीं बभूव
_*
तत्र तत्र पुर-ग्रामाकर-खेट-वाट-खर्वट-शिबिर-व्रज-घोष-सार्थ-गिरि-वनाश्रमादिष्व् अनुपथम् अवनिचरापसदैः परिभूयमानो मक्षिकाभिर् इव वन-गजस् तर्जन-ताडनावमेहन-ष्ठीवन-ग्राव-शकृद्-रजः-प्रक्षेप-पूति-वात-दुरुक्तैस् तद् अविगणयन्न् एवासत्-संस्थान एतस्मिन् देहोपलक्षणे सद्-अपदेश उभयानुभव-स्वरूपेण स्व-महिमावस्थानेनासमारोपिताहं-ममाभिमानत्वाद् अविखण्डित-मनाः पृथिवीम् एक-चरः परिबभ्राम
_*
अति-सुकुमार-कर-चरणोरः-स्थल-विपुल-बाह्व्-अंस-गल-वदनाद्य्-अवयव-विन्यासः प्रकृति-सुन्दर-स्वभाव-हास-सुमुखो नव-नलिन-दलायमान-शिशिर-तारारुणायत-नयन-रुचिरः सदृश-सुभग-कपोल-कर्ण-कण्ठ-नासो विगूढ-स्मित-वदन-महोत्सवेन पुर-वनितानां मनसि कुसुम-शरासनम् उपदधानः पराग्-अवलम्बमान-कुटिल-जटिल-कपिश-केश-भूरि-भारो ऽवधूत-मलिन-निज-शरीरेण ग्रह-गृहीत इवादृश्यत
_*
यर्हि वाव स भगवान् लोकम् इमं योगस्याद्धा प्रतीपम् इवाचक्षाणस् तत्-प्रतिक्रिया-कर्म बीभत्सितम् इति व्रतम् आजगरम्-आस्थितः शयान एवाश्नाति पिबति खादत्य् अवमेहति हदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः
_*
तस्य ह यः पुरीष-सुरभि-सौगन्ध्य-वायुस् तं देशं दश-योजनं समन्तात् सुरभिं चकार
_*
एवं गो-मृग-काक-चर्यया व्रजंस् तिष्ठन्न् आसीनः शयानः काक-मृग-गो-चरितः पिबति खादत्य् अवमेहति स्म
_*
इति नाना-योग-चर्याचरणो भगवान् कैवल्य-पतिर् ऋषभो ऽविरत-परम-महानन्दानुभव आत्मनि सर्वेषां भूतानाम् आत्म-भूते भगवति वासुदेव आत्मनो ऽव्यवधानानन्त-रोदर-भावेन सिद्ध-समस्तार्थ-परिपूर्णो योगैश्वर्याणि वैहायस-मनो-जवान्तर्धान-परकाय-प्रवेश-दूर-ग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप हृदयेनाभ्यनन्दत्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0