भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 05.04

05.04.001

_*
भ्प्_05.04.001।0 श्री-शुक उवाच
अथ ह तम् उत्पत्त्यैवाभिव्यज्यमान-भगवल्-लक्षणं साम्योपशम-वैराग्यैश्वर्य-महा-विभूतिभिर् अनुदिनम् एधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश् चावनि-तल-समवनायातितरां जगृधुः

05.04.002

_*
तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्-छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार

05.04.003

_*
यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तद् अवधार्य भगवान् ऋषभदेवो योगेश्वरः प्रहस्यात्म-योगमायया स्व-वर्षम् अजनाभं नामाभ्यवर्षत्

05.04.004

_*
नाभिस् तु यथाभिलषितं सुप्रजस्त्वम् अवरुध्याति-प्रमोद-भर-विह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीत-नरलोक-सधर्मं भगवन्तं पुराण-पुरुषं माया-विलसित-मतिर् वत्स तातेति सानुरागम् उपलालयन् परां निर्वृतिम् उपगतः

05.04.005

_*
विदितानुरागम् आपौर-प्रकृति जन-पदो राजा नाभिर् आत्मजं समय-सेतु-रक्षायाम् अभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्न-निपुणेन तपसा समाधि-योगेन नर-नारायणाख्यं भगवन्तं वासुदेवम् उपासीनः कालेन तन्-महिमानम् अवाप

05.04.006

_*
भ्प्_05.04.006।0 यस्य ह पाण्डवेय श्लोकाव् उदाहरन्ति----
को नु तत् कर्म राजर्षेर् नाभेर् अन्व् आचरेत् पुमान् ।
अपत्यताम् अगाद् यस्य हरिः शुद्धेन कर्मणा

05.04.007

ब्रह्मण्यो ऽन्यः कुतो नाभेर् विप्रा मङ्गल-पूजिताः ।
यस्य बर्हिषि यज्ञेशं दर्शयाम् आसुर् ओजसा

05.04.008

अथ ह भगवान् ऋषभदेवः स्व-वर्षं कर्म-क्षेत्रम् अनुमन्यमानः प्रदर्शित-गुरुकुल-वासो लब्ध-वरैर् गुरुभिर् अनुज्ञातो गृहमेधिनां धर्मान् अनुशिक्षमाणो जयन्त्याम् इन्द्र-दत्तायाम् उभय-लक्षणं कर्म समाम्नायाम्नातम् अभियुञ्जन्न् आत्मजानाम् आत्म-समानानां शतं जनयाम् आस

05.04.009

_*
येषां खलु महा-योगी भरतो ज्येष्ठः श्रेष्ठ-गुण आसीद् येनेदं वर्षं भारतम् इति व्यपदिशन्ति

05.04.010

_*
तम् अनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर् भद्रसेन इन्द्रस्पृग् विदर्भः कीकट इति नव नवति प्रधानाः

05.04.011

_*
कविर् हविर् अन्तरिक्षः प्रबुद्धः पिप्पलायनः ।
आविर्होत्रो ऽथ द्रुमिलश् चमसः करभाजनः

05.04.012

इति भागवत-धर्म-दर्शना नव महा-भागवतास् तेषां सुचरितं भगवन्-महिमोपबृंहितं वसुदेव-नारद-संवादम् उपशमायनम् उपरिष्टाद् वर्णयिष्यामः

05.04.013

_*
यवीयांस एकाशीतिर् जायन्तेयाः पितुर् आदेशकरा महा-शालीना महा-श्रोत्रिया यज्ञ-शीलाः कर्म-विशुद्धा ब्राह्मणा बभूवुः

05.04.014

_*
भगवान् ऋषभ-संज्ञ आत्म-तन्त्रः स्वयं नित्य-निवृत्तानर्थ-परम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत् कर्माण्य् आरभमाणः कालेनानुगतं धर्मम् आचरणेनोपशिक्षयन्न् अतद्-विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थ-यशः-प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत्

05.04.015

_*
यद् यच् छीर्षण्याचरितं तत् तद् अनुवर्तते लोकः

05.04.016

_*
यद्यपि स्व-विदितं सकल-धर्मं ब्राह्मं गुह्यं ब्राह्मणैर् दर्शित-मार्गेण सामादिभिर् उपायैर् जनताम् अनुशशास

05.04.017

_*
द्रव्य-देश-काल-वयः-श्रद्धर्त्विग्-विविधोद्देशोपचितैः सर्वैर् अपि क्रतुभिर् यथोपदेशं शत-कृत्व इयाज

05.04.018

_*
भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो वाञ्छत्य् अविद्यमानम् इवात्मनो ऽन्यस्मात् कथञ्चन किमपि कर्हिचिद् अवेक्षते भर्तर्य् अनुसवनं विजृम्भित-स्नेहातिशयम् अन्तरेण

05.04.019

_*
स कदाचिद् अटमानो भगवान् ऋषभो ब्रह्मावर्त-गतो ब्रह्मर्षि-प्रवर-सभायां प्रजानां निशामयन्तीनाम् आत्मजान् अवहितात्मनः प्रश्रय-प्रणय-भर-सुयन्त्रितान् अप्य् उपशिक्षयन्न् इति होवाच

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc