भागवत पुराण · अध्याय 05.02
भ्प्_05.01.001।0 श्री-शुक उवाच
एवं पितरि सम्प्रवृत्ते तद्-अनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपौकसः प्रजा औरसवद् धर्मावेक्षमाणः पर्यगोपायत्
_*
स च कदाचित् पितृलोक-कामः सुर-वर-वनिताक्रीडाचल-द्रोण्यां भगवन्तं विश्व-सृजां पतिम् आभृत-परिचर्योपकरण आत्म इकाग्र्येण तपस्व्य् आराधयां बभूव
_*
तद् उपलभ्य भगवान् आदि-पुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसम् अभियापयाम् आस
_*
सा च तद्-आश्रमोपवनम् अति-रमणीयं विविध-निबिड-विटपि-विटप-निकर-संश्लिष्ट-पुरट-लतारूढ-स्थल-विहङ्गम-मिथुनैः प्रोच्यमान-श्रुतिभिः प्रतिबोध्यमान-सलिल-कुक्कुट-कारण्डव-कलहंसादिभिर् विचित्रम् उपकूजितामल-जलाशय-कमलाकरम् उपबभ्राम
_*
तस्याः सुललित-गमन-पद-विन्यास-गति-विलासायाश् चानुपदं खण-खणायमान-रुचिर-चरणाभरण-स्वनम् उपाकर्ण्य नरदेव-कुमारः समाधि-योगेनामीलित-नयन-नलिन-मुकुल-युगलम् ईषद् विकचय्य व्यचष्ट
_*
ताम् एवाविदूरे मधुकरीम् इव सुमनस उपजिघ्रन्तीं दिविज-मनुज-मनो-नयनाह्लाद-दुघैर् गति-विहार-व्रीडा-विनयावलोक-सुस्वराक्षरावयवैर् मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निज-मुख-विगलितामृतासव-सहास-भाषणामोद-मदान्ध-मधुकर-निकरोपरोधेन द्रुत-पद-विन्यासेन वल्गु-स्पन्दन-स्तन-कलश-कबर-भार-रशनां देवीं तद्-अवलोकनेन विवृतावसरस्य भगवतो मकर-ध्वजस्य वशम् उपनीतो जडवद् इति होवाच
_*
का त्वं चिकीर्षसि च किं मुनि-वर्य शैले $ मायासि कापि भगवत्-पर-देवतायाः &
का त्वं चिकीर्षसि च किं मुनि-वर्य शैले $ मायासि कापि भगवत्-पर-देवतायाः &
विज्ये बिभर्षि धनुषी सुहृद्-आत्मनो ऽर्थे % किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ भ्प्_05.02.007* ॥
बाणाव् इमौ भगवतः शत-पत्र-पत्रौ $ शान्ताव् अपुङ्ख-रुचिराव् अति-तिग्म-दन्तौ &
बाणाव् इमौ भगवतः शत-पत्र-पत्रौ $ शान्ताव् अपुङ्ख-रुचिराव् अति-तिग्म-दन्तौ &
कस्मै युयुङ्क्षसि वने विचरन् न विद्मः % क्षेमाय नो जड-धियां तव विक्रमो ऽस्तु ॥ भ्प्_05.02.008* ॥
शिष्या इमे भगवतः परितः पठन्ति $ गायन्ति साम सरहस्यम् अजस्रम् ईशम् &
शिष्या इमे भगवतः परितः पठन्ति $ गायन्ति साम सरहस्यम् अजस्रम् ईशम् &
युष्मच्-छिखा-विलुलिताः सुमनो ऽभिवृष्टीः % सर्वे भजन्त्य् ऋषि-गणा इव वेद-शाखाः ॥ भ्प्_05.02.009* ॥
वाचं परं चरण-पञ्जर-तित्तिरीणां $ ब्रह्मन्न् अरूप-मुखरां शृणवाम तुभ्यम् &
वाचं परं चरण-पञ्जर-तित्तिरीणां $ ब्रह्मन्न् अरूप-मुखरां शृणवाम तुभ्यम् &
लब्धा कदम्ब-रुचिर् अङ्क-विटङ्क-बिम्बे % यस्याम् अलात-परिधिः क्व च वल्कलं ते ॥ भ्प्_05.02.010* ॥
किं सम्भृतं रुचिरयोर् द्विज शृङ्गयोस् ते $ मध्ये कृशो वहसि यत्र दृशिः श्रिता मे &
किं सम्भृतं रुचिरयोर् द्विज शृङ्गयोस् ते $ मध्ये कृशो वहसि यत्र दृशिः श्रिता मे &
पङ्को ऽरुणः सुरभिर् आत्म-विषाण ईदृग् % येनाश्रमं सुभग मे सुरभी-करोषि ॥ भ्प्_05.02.011* ॥
लोकं प्रदर्शय सुहृत्तम तावकं मे $ यत्रत्य इत्थम् उरसावयवाव् अपूर्वौ &
लोकं प्रदर्शय सुहृत्तम तावकं मे $ यत्रत्य इत्थम् उरसावयवाव् अपूर्वौ &
अस्मद्-विधस्य मन-उन्नयनौ बिभर्ति % बह्व् अद्भुतं सरस-रास-सुधादि वक्त्रे ॥ भ्प्_05.02.012* ॥
का वात्म-वृत्तिर् अदनाद् धविर् अङ्ग वाति $ विष्णोः कलास्य् अनिमिषोन्मकरौ च कर्णौ &
का वात्म-वृत्तिर् अदनाद् धविर् अङ्ग वाति $ विष्णोः कलास्य् अनिमिषोन्मकरौ च कर्णौ &
उद्विग्न-मीन-युगलं द्विज-पङ्क्ति-शोचिर् % आसन्न-भृङ्ग-निकरं सर इन् मुखं ते ॥ भ्प्_05.02.013* ॥
यो ऽसौ त्वया कर-सरोज-हतः पतङ्गो $ दिक्षु भ्रमन् भ्रमत एजयते ऽक्षिणी मे &
यो ऽसौ त्वया कर-सरोज-हतः पतङ्गो $ दिक्षु भ्रमन् भ्रमत एजयते ऽक्षिणी मे &
मुक्तं न ते स्मरसि वक्र-जटा-वरूथं % कष्टो ऽनिलो हरति लम्पट एष नीवीम् ॥ भ्प्_05.02.014* ॥
रूपं तपोधन तपश् चरतां तपोघ्नं $ ह्य् एतत् तु केन तपसा भवतोपलब्धम् &
रूपं तपोधन तपश् चरतां तपोघ्नं $ ह्य् एतत् तु केन तपसा भवतोपलब्धम् &
चर्तुं तपो ऽर्हसि मया सह मित्र मह्यं % किं वा प्रसीदति स वै भव-भावनो मे ॥ भ्प्_05.02.015* ॥
न त्वां त्यजामि दयितं द्विज-देव-दत्तं $ यस्मिन् मनो दृग् अपि नो न वियाति लग्नम् &
न त्वां त्यजामि दयितं द्विज-देव-दत्तं $ यस्मिन् मनो दृग् अपि नो न वियाति लग्नम् &
मां चारु-शृङ्ग्य् अर्हसि नेतुम् अनुव्रतं ते % चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ भ्प्_05.02.016*
0 श्री-शुक उवाच
इति ललनानुनयाति-विशारदो ग्राम्य-वैदग्ध्यया परिभाषया तां विबुध-वधूं विबुध-मतिर् अधिसभाजयाम् आस
_*
सा च ततस् तस्य वीर-यूथ-पतेर् बुद्धि-शील-रूप-वयः-श्रियौदार्येण पराक्षिप्त-मनास् तेन सहायुतायुत-परिवत्सरोपलक्षणं कालं जम्बूद्वीप-पतिना भौम-स्वर्ग-भोगान् बुभुजे
_*
तस्याम् उ ह वा आत्मजान् स राज-वर आग्नीध्रो नाभि-किम्पुरुष-हरिवर्षेलावृत-रम्यक-हिरण्मय-कुरु-भद्राश्व-केतुमाल-संज्ञान् नव पुत्रान् अजनयत्
_*
सा सूत्वाथ सुतान् नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर् भूय एवाजं देवम् उपतस्थे
_*
आग्नीध्र-सुतास् ते मातुर् अनुग्रहाद् औत्पत्तिकेनैव संहनन-बलोपेताः पित्रा विभक्ता आत्म-तुल्य-नामानि यथा-भागं जम्बूद्वीप-वर्षाणि बुभुजुः
_*
आग्नीध्रो राजातृप्तः कामानाम् अप्सरसम् एवानुदिनम् अधि-मन्यमानस् तस्याः सलोकतां श्रुतिभिर् अवारुन्ध यत्र पितरो मादयन्ते
_*
सम्परेते पितरि नव भ्रातरो मेरु-दुहित्-र् मेरुदेवीं प्रतिरूपाम् उग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिम् इति संज्ञा नवोदवहन्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0