भागवत पुराण · अध्याय 05.01
भ्प्_05.01.001।0 राजोवाच
प्रियव्रतो भागवताअत्मारामः कथं मुने ।
गृहे ऽरमत यन्-मूलः कर्म-बन्धः पराभवः
न नूनं मुक्त-सङ्गानां तादृशानां द्विजर्षभ ।
गृहेष्व् अभिनिवेशो ऽयं पुंसां भवितुम् अर्हति
महतां खलु विप्रर्षे उत्तमश्लोक-पादयोः ।
छाया-निर्वृत-चित्तानां न कुटुम्बे स्पृहा-मतिः
संशयो ऽयं महान् ब्रह्मन् दारागार-सुतादिषु ।
सक्तस्य यत् सिद्धिर् अभूत् कृष्णे च मतिर् अच्युता
भ्प्_05.01.005।0 श्री-शुक उवाच
बाढम् उक्तं भगवत उत्तमश्लोकस्य श्रीमच्-चरणारविन्द-मकरन्द-रस आवेशित-चेतसो भागवत-परमहंस-दयित-कथां किञ्चिद् अन्तराय-विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति
_*
यर्हि वाव ह राजन् स राज-पुत्रः प्रियव्रतः परम-भागवतो नारदस्य चरणोपसेवयाञ्जसावगत-परमार्थ-सतत्त्वो ब्रह्म-सत्रेण दीक्षिष्यमाणो ऽवनि-तल-परिपालनायाम्नात-प्रवर-गुण-गणैकान्त-भाजनतया स्व-पित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधान-समाधि-योगेन समावेशित-सकल-कारक-क्रिया-कलापो नैवाभ्यनन्दद् यद्यपि तद् अप्रत्याम्नातव्यं तद्-अधिकरण आत्मनो ऽन्यस्माद् असतो ऽपि पराभवम् अन्वीक्षमाणः
_*
अथ ह भगवान् आदि-देव एतस्य गुण-विसर्गस्य परिबृंहणानुध्यान-व्यवसित-सकल-जगद्-अभिप्राय आत्म-योनिर् अखिल-निगम-निज-गण-परिवेष्टितः स्व-भवनाद् अवततार
_*
स तत्र तत्र गगन-तल उडु-पतिर् इव विमानावलिभिर् अनुपथम् अमर-परिवृढैर् अभिपूज्यमानः पथि पथि च वरूथशः सिद्ध-गन्धर्व-साध्य-चारण-मुनि-गणैर् उपगीयमानो गन्ध-मादन-द्रोणीम् अवभासयन्न् उपससर्प
_*
तत्र ह वा एनं देवर्षिर् हंस-यानेन पितरं भगवन्तं हिरण्य-गर्भम् उपलभमानः सहसैवोत्थायार्हणेन सह पिता-पुत्राभ्याम् अवहिताञ्जलिर् उपतस्थे
_*
भगवान् अपि भारत तद्-उपनीतार्हणः सूक्त-वाकेनातितराम् उदित-गुण-गणावतार-सुजयः प्रियव्रतम् आदि-पुरुषस् तं सदय-हासावलोक इति होवाच
_*
भ्प्_05.01.011।0 श्री-भगवान् उवाच
निबोध तातेदम् ऋतं ब्रवीमि मासूयितुं देवम् अर्हस्य् अप्रमेयम् ।
वयं भवस् ते तत एष महर्षिर् वहाम सर्वे विवशा यस्य दिष्टम्
न तस्य कश्चित् तपसा विद्यया वा न योग-वीर्येण मनीषया वा ।
नैवार्थ-धर्मैः परतः स्वतो वा कृतं विहन्तुं तनु-भृद् विभूयात्
भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय ।
सुखाय दुःखाय च देह-योगम् अव्यक्त-दिष्टं जनताङ्ग धत्ते
यद्-वाचि तन्त्यां गुण-कर्म-दामभिः सुदुस्तरैर् वत्स वयं सुयोजिताः ।
सर्वे वहामो बलिम् ईश्वराय प्रोता नसीव द्वि-पदे चतुष्-पदः
ईशाभिसृष्टं ह्य् अवरुन्ध्महे ऽङ्ग दुःखं सुखं वा गुण-कर्म-सङ्गात् ।
आस्थाय तत् तद् यद् अयुङ्क्त नाथश् चक्षुष्मतान्धा इव नीयमानाः
मुक्तो ऽपि तावद् बिभृयात् स्व-देहम् आरब्धम् अश्नन्न् अभिमान-शून्यः ।
यथानुभूतं प्रतियात-निद्रः किं त्व् अन्य-देहाय गुणान् न वृङ्क्ते
भयं प्रमत्तस्य वनेष्व् अपि स्याद् यतः स आस्ते सह-षट्-सपत्नः ।
जितेन्द्रियस्यात्म-रतेर् बुधस्य गृहाश्रमः किं नु करोत्य् अवद्यम्
यः षट् सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् ।
अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद् विपश्चित्
त्वं त्व् अब्ज-नाभाङ्घ्रि-सरोज-कोश- दुर्गाश्रितो निर्जित-षट्-सपत्नः ।
भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान् विमुक्त-सङ्गः प्रकृतिं भजस्व
भ्प्_05.01.020।0 श्री-शुक उवाच
इति समभिहितो महा-भागवतो भगवतस् त्रि-भुवन-गुरोर् अनुशासनम् आत्मनो लघुतयावनत-शिरोधरो बाढम् इति सबहु-मानम् उवाह
_*
भगवान् अपि मनुना यथावद् उपकल्पितापचितिः प्रियव्रत-नारदयोर् अविषमम् अभिसमीक्षमाणयोर् आत्मसम् अवस्थानम् अवाङ्-मनसं क्षयम् अव्यवहृतं प्रवर्तयन्न् अगमत्
_*
मनुर् अपि परेणैवं प्रतिसन्धित-मनोरथः सुरर्षि-वरानुमतेनात्मजम् अखिल-धरा-मण्डल-स्थिति-गुप्तय आस्थाप्य स्वयम् अति-विषम-विषय-विष-जलाशयाशाया उपरराम
_*
इति ह वाव स जगती-पतिर् ईश्वरेच्छयाधिनिवेशित-कर्माधिकारो ऽखिल-जगद्-बन्ध-ध्वंसन-परानुभावस्य भगवत आदि-पुरुषस्याङ्घ्रि-युगलानवरत-ध्यानानुभावेन परिरन्धित-कषायाशयो ऽवदातो ऽपि मान-वर्धनो महतां महीतलम् अनुशशास
_*
अथ च दुहितरं प्रजापतेर् विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्याम् उ ह वाव आत्मजान् आत्म-समान-शील-गुण-कर्म-रूप-वीर्योदारान् दश भावयाम् बभूव कन्यां च यवीयसीम् ऊर्जस्वतीं नाम
_*
आग्नीध्रेध्मजिह्व-यज्ञबाहु-महावीर-हिरण्यरेतो-घृतपृष्ठ-सवन-मेधातिथि-वीतिहोत्र-कवय इति सर्व एवाग्नि-नामानः
_*
एतेषां कविर् महावीरः सवन इति त्रय आसन्न् ऊर्ध्व-रेतसस् त आत्म-विद्यायाम् अर्भ-भावाद् आरभ्य कृत-परिचयाः पारमहंस्यम् एवाश्रमम् अभजन्
_*
तस्मिन्न् उ ह वा उपशम-शीलाः परमर्षयः सकल-जीव-निकायावासस्य भगवतो वासुदेवस्य भीतानां शरण-भूतस्य श्रीमच्-चरणारविन्दाविरत-स्मरणाविगलित-परम-भक्ति-योगानु-भावेन परिभावितान्तर्-हृदयाधिगते भगवति सर्वेषां भूतानाम् आत्म-भूते प्रत्यग्-आत्मन्य् एवात्मनस् तादात्म्यम् अविशेषेण समीयुः
_*
अन्यस्याम् अपि जायायां त्रयः पुत्रा आसन्न् उत्तमस् तामसो रैवत इति मन्वन्तराधिपतयः
_*
एवम् उपशमायनेषु स्व-तनयेष्व् अथ जगती-पतिर् जगतीम् अर्बुदान्य् एकादश परिवत्सराणाम् अव्याहताखिल-पुरुष-कार-सार-सम्भृत-दोर्-दण्ड-युगलापीडित-मौर्वी-गुण-स्तनित-विरमित-धर्म-प्रतिपक्षो बर्हिष्मत्याश् चानुदिनम् एधमान-प्रमोद-प्रसरण-यौषिण्य-व्रीडा-प्रमुषित-हासावलोक-रुचिर-क्ष्वेल्य्-आदिभिः पराभूयमान-विवेक इवानवबुध्यमान इव महामना बुभुजे
_*
यावद् अवभासयति सुर-गिरिम् अनुपरिक्रामन् भगवान् आदित्यो वसुधा-तलम् अर्धेनैव प्रतपत्य् अर्धेनावच्छादयति तदा हि भगवद्-उपासनोपचिताति-पुरुष-प्रभावस् तद् अनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीम् अपि दिनं करिष्यामीति सप्त-कृत् वस्तरणिम् अनुपर्यक्रामद् द्वितीय इव पतङ्गः
_*
ये वा उ ह तद्-रथ-चरण-नेमि-कृत-परिखातास् ते सप्त सिन्धव आसन् यत एव कृताः सप्त भुवो द्वीपाः
_*
जम्बू-प्लक्ष-शाल्मलि-कुश-क्रौञ्च-शाक-पुष्कर-संज्ञास् तेषां परिमाणं पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो यथा-सङ्ख्यं द्वि-गुण-मानेन बहिः समन्तत उपकॢप्ताः
_*
दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद् यस्याम् आसीद् देवयानी नाम काव्य-सुता
_*
नैवं-विधः पुरुष-कार उरुक्रमस्य $ पुंसां तद्-अङ्घ्रि-रजसा जित-षड्-गुणानाम् &
नैवं-विधः पुरुष-कार उरुक्रमस्य $ पुंसां तद्-अङ्घ्रि-रजसा जित-षड्-गुणानाम् &
चित्रं विदूर-विगतः सकृद् आददीत % यन्-नामधेयम् अधुना स जहाति बन्धम् ॥ भ्प्_05.01.034* ॥
स एवम् अपरिमित-बल-पराक्रम एकदा तु देवर्षि-चरणानुशयनानु-पतित-गुण-विसर्ग-संसर्गेणानिर्वृतम् इवात्मानं मन्यमान आत्म-निर्वेद इदम् आह
_*
अहो असाध्व् अनुष्ठितं यद् अभिनिवेशितो ऽहम् इन्द्रियैर् अविद्या-रचित-विषम-विषयान्ध-कूपे तद् अलम् अलम् अमुष्या वनिताया विनोद-मृगं मां धिग् धिग् इति गर्हयां चकार
_*
पर-देवता-प्रसादाधिगतात्म-प्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथा-दायं विभज्य भुक्त-भोगां च महिषीं मृतकम् इव सह महा-विभूतिम् अपहाय स्वयं निहित-निर्वेदो हृदि गृहीत-हरि-विहारानुभावो भगवतो नारदस्य पदवीं पुनर् एवानुससार
_*
भ्प्_05.01.038।0 तस्य ह वा एते श्लोकाः
प्रियव्रत-कृतं कर्म को नु कुर्याद् विनेश्वरम् ।
यो नेमि-निम्नैर् अकरोच् छायां घ्नन् सप्त वारिधीन्
भू-संस्थानं कृतं येन सरिद्-गिरि-वनादिभिः ।
सीमा च भूत-निर्वृत्यै द्वीपे द्वीपे विभागशः
भौमं दिव्यं मानुषं च महित्वं कर्म-योगजम् ।
यश् चक्रे निरयौपम्यं पुरुषानुजन-प्रियः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0