भागवत पुराण · अध्याय 04.31
भ्प्_04.31.001।0 मैत्रेय उवाच
तत उत्पन्न-विज्ञाना आश्व् अधोक्षज-भाषितम् ।
स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात्
दीक्षिता ब्रह्म-सत्रेण सर्व-भूतात्म-मेधसा ।
प्रतीच्यां दिशि वेलायां सिद्धो ऽभूद् यत्र जाजलिः
तान् निर्जित-प्राण-मनो-वचो-दृशो जितासनान् शान्त-समान-विग्रहान् ।
परे ऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः
तम् आगतं त उत्थाय प्रणिपत्याभिनन्द्य च ।
पूजयित्वा यथादेशं सुखासीनम् अथाब्रुवन्
भ्प्_04.31.005।0 प्रचेतस ऊचुः
स्वागतं ते सुरर्षे ऽद्य दिष्ट्या नो दर्शनं गतः ।
तव चङ्क्रमणं ब्रह्मन्न् अभयाय यथा रवेः
यद् आदिष्टं भगवता शिवेनाधोक्षजेन च ।
तद् गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो
तन् नः प्रद्योतयाध्यात्म- ज्ञानं तत्त्वार्थ-दर्शनम् ।
येनाञ्जसा तरिष्यामो दुस्तरं भव-सागरम्
भ्प्_04.31.008।0 मैत्रेय उवाच
इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः ।
भगवत्य् उत्तम-श्लोक आविष्टात्माब्रवीन् नृपान्
भ्प्_04.31.009।0 नारद उवाच
तज् जन्म तानि कर्माणि तद् आयुस् तन् मनो वचः ।
नृणां येन हि विश्वात्मा सेव्यते हरिर् ईश्वरः
किं जन्मभिस् त्रिभिर् वेह शौक्र-सावित्र-याज्ञिकैः ।
कर्मभिर् वा त्रयी-प्रोक्तैः पुंसो ऽपि विबुधायुषा
श्रुतेन तपसा वा किं वचोभिश् चित्त-वृत्तिभिः ।
बुद्ध्या वा किं निपुणया बलेनेन्द्रिय-राधसा
किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि ।
किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः
श्रेयसाम् अपि सर्वेषाम् आत्मा ह्य् अवधिर् अर्थतः ।
सर्वेषाम् अपि भूतानां हरिर् आत्मात्मदः प्रियः
यथा तरोर् मूल-निषेचनेन तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः ।
प्राणोपहाराच् च यथेन्द्रियाणां तथैव सर्वार्हणम् अच्युतेज्या
यथैव सूर्यात् प्रभवन्ति वारः पुनश् च तस्मिन् प्रविशन्ति काले ।
भूतानि भूमौ स्थिर-जङ्गमानि तथा हराव् एव गुण-प्रवाहः
एतत् पदं तज् जगद्-आत्मनः परं सकृद् विभातं सवितुर् यथा प्रभा ।
यथासवो जाग्रति सुप्त-शक्तयो द्रव्य-क्रिया-ज्ञान-भिदा-भ्रमात्ययः
यथा नभस्य् अभ्र-तमः-प्रकाशा भवन्ति भूपा न भवन्त्य् अनुक्रमात् ।
एवं परे ब्रह्मणि शक्तयस् त्व् अमू रजस् तमः सत्त्वम् इति प्रवाहः
तेनैकम् आत्मानम् अशेष-देहिनां कालं प्रधानं पुरुषं परेशम् ।
स्व-तेजसा ध्वस्त-गुण-प्रवाहम् आत्मैक-भावेन भजध्वम् अद्धा
दयया सर्व-भूतेषु सन्तुष्ट्या येन केन वा ।
सर्वेन्द्रियोपशान्त्या च तुष्यत्य् आशु जनार्दनः
अपहत-सकलैषणामलात्मन्य् अविरतम् एधित-भावनोपहूतः ।
निज-जन-वश-गत्वम् आत्मनो ऽयन् न सरति छिद्रवद् अक्षरः सतां हि
न भजति कुमनीषिणां स इज्यां हरिर् अधनात्म-धन-प्रियो रस-ज्ञः ।
श्रुत-धन-कुल-कर्मणां मदैर् ये विदधति पापम् अकिञ्चनेषु सत्सु
श्रियम् अनुचरतीं तद्-अर्थिनश् च द्विपद-पतीन् विबुधांश् च यत् स्व-पूर्णः ।
न भजति निज-भृत्य-वर्ग-तन्त्रः कथम् अमुम् उद्विसृजेत् पुमान् कृत-ज्ञः
भ्प्_04.31.023।0 मैत्रेय उवाच
इति प्रचेतसो राजन्न् अन्याश् च भगवत्-कथाः ।
श्रावयित्वा ब्रह्म-लोकं ययौ स्वायम्भुवो मुनिः
ते ऽपि तन्-मुख-निर्यातं यशो लोक-मलापहम् ।
हरेर् निशम्य तत्-पादं ध्यायन्तस् तद्-गतिं ययुः
एतत् ते ऽभिहितं क्षत्तर् यन् मां त्वं परिपृष्टवान् ।
प्रचेतसां नारदस्य संवादं हरि-कीर्तनम्
भ्प्_04.31.026।0 श्री-शुक उवाच
य एष उत्तानपदो मानवस्यानुवर्णितः ।
वंशः प्रियव्रतस्यापि निबोध नृप-सत्तम
यो नारदाद् आत्म-विद्याम् अधिगम्य पुनर् महीम् ।
भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात् पदम्
इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजित-वाद-सत्-कथाम् ।
प्रवृद्ध-भावो ऽश्रु-कलाकुलो मुनेर् दधार मूर्ध्ना चरणं हृदा हरेः
भ्प्_04.31.029।0 विदुर उवाच
सो ऽयम् अद्य महा-योगिन् भवता करुणात्मना ।
दर्शितस् तमसः पारो यत्राकिञ्चन-गो हरिः
भ्प्_04.31.030।0 श्री-शुक उवाच
इत्य् आनम्य तम् आमन्त्र्य विदुरो गजसाह्वयम् ।
स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः
एतद् यः शृणुयाद् राजन् राज्ञां हर्य्-अर्पितात्मनाम् ।
आयुर् धनं यशः स्वस्ति गतिम् ऐश्वर्यम् आप्नुयात्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0