भागवत पुराण · अध्याय 04.27
भ्प्_04.27.001।0 नारद उवाच
इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः ।
पुरञ्जनी महाराज रेमे रमयती पतिम्
स राजा महिषीं राजन् सुस्नातां रुचिराननाम् ।
कृत-स्वस्त्ययनां तृप्ताम् अभ्यनन्दद् उपागताम्
तयोपगूढः परिरब्ध-कन्धरो रहो ऽनुमन्त्रैर् अपकृष्ट-चेतनः ।
न काल-रंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदा-परिग्रहः
शयान उन्नद्ध-मदो महा-मना महार्ह-तल्पे महिषी-भुजोपधिः ।
ताम् एव वीरो मनुते परं यतस् तमो-ऽभिभूतो न निजं परं च यत्
तयैवं रममाणस्य काम-कश्मल-चेतसः ।
क्षणार्धम् इव राजेन्द्र व्यतिक्रान्तं नवं वयः
तस्याम् अजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः ।
शतान्य् एकादश विराड् आयुषो ऽर्धम् अथात्यगात्
दुहितॄर् दशोत्तर-शतं पितृ-मातृ-यशस्करीः ।
शीलौदार्य-गुणोपेताः पौरञ्जन्यः प्रजा-पते
स पञ्चाल-पतिः पुत्रान् पितृ-वंश-विवर्धनान् ।
दारैः संयोजयाम् आस दुहितॄः सदृशैर् वरैः
पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् ।
यैर् वै पौरञ्जनो वंशः पञ्चालेषु समेधितः
तेषु तद्-रिक्थ-हारेषु गृह-कोशानुजीविषु ।
निरूढेन ममत्वेन विषयेष्व् अन्वबध्यत
ईजे च क्रतुभिर् घोरैर् दीक्षितः पशु-मारकैः ।
देवान् पितॄन् भूत-पतीन् नाना-कामो यथा भवान्
युक्तेष्व् एवं प्रमत्तस्य कुटुम्बासक्त-चेतसः ।
आससाद स वै कालो यो ऽप्रियः प्रिय-योषिताम्
चण्डवेग इति ख्यातो गन्धर्वाधिपतिर् नृप ।
गन्धर्वास् तस्य बलिनः षष्ट्य्-उत्तर-शत-त्रयम्
गन्धर्व्यस् तादृशीर् अस्य मैथुन्यश् च सितासिताः ।
परिवृत्त्या विलुम्पन्ति सर्व-काम-विनिर्मिताम्
ते चण्डवेगानुचराः पुरञ्जन-पुरं यदा ।
हर्तुम् आरेभिरे तत्र प्रत्यषेधत् प्रजागरः
स सप्तभिः शतैर् एको विंशत्या च शतं समाः ।
पुरञ्जन-पुराध्यक्षो गन्धर्वैर् युयुधे बली
क्षीयमाणे स्व-सम्बन्धे एकस्मिन् बहुभिर् युधा ।
चिन्तां परां जगामार्तः स-राष्ट्र-पुर-बान्धवः
स एव पुर्यां मधु-भुक् पञ्चालेषु स्व-पार्षदैः ।
उपनीतं बलिं गृह्णन् स्त्री-जितो नाविदद् भयम्
कालस्य दुहिता काचित् त्रि-लोकीं वरम् इच्छती ।
पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन
दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा ।
या तुष्टा राजर्षये तु वृतादात् पूरवे वरम्
कदाचिद् अटमाना सा ब्रह्म-लोकान् महीं गतम् ।
वव्रे बृहद्-व्रतं मां तु जानती काम-मोहिता
मयि संरभ्य विपुल- मदाच् छापं सुदुःसहम् ।
स्थातुम् अर्हसि नैकत्र मद्-याच्ञा-विमुखो मुने
ततो विहत-सङ्कल्पा कन्यका यवनेश्वरम् ।
मयोपदिष्टम् आसाद्य वव्रे नाम्ना भयं पतिम्
ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् ।
सङ्कल्पस् त्वयि भूतानां कृतः किल न रिष्यति
द्वाव् इमाव् अनुशोचन्ति बालाव् असद्-अवग्रहौ ।
यल् लोक-शास्त्रोपनतं न राति न तद् इच्छति
अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु ।
एतावान् पौरुषो धर्मो यद् आर्तान् अनुकम्पते
काल-कन्योदित-वचो निशम्य यवनेश्वरः ।
चिकीर्षुर् देव-गुह्यं स सस्मितं ताम् अभाषत
मया निरूपितस् तुभ्यं पतिर् आत्म-समाधिना ।
नाभिनन्दति लोको ऽयं त्वाम् अभद्राम् असम्मताम्
त्वम् अव्यक्त-गतिर् भुङ्क्ष्व लोकं कर्म-विनिर्मितम् ।
या हि मे पृतना-युक्ता प्रजा-नाशं प्रणेष्यसि
प्रज्वारो ऽयं मम भ्राता त्वं च मे भगिनी भव ।
चराम्य् उभाभ्यां लोके ऽस्मिन्न् अव्यक्तो भीम-सैनिकः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0