भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.22

04.22.001

भ्प्_04.22.001।0 मैत्रेय उवाच
जनेषु प्रगृणत्स्व् एवं पृथुं पृथुल-विक्रमम् ।
तत्रोपजग्मुर् मुनयश् चत्वारः सूर्य-वर्चसः

04.22.002

तांस् तु सिद्धेश्वरान् राजा व्योम्नो ऽवतरतो ऽर्चिषा ।
लोकान् अपापान् कुर्वाणान् सानुगो ऽचष्ट लक्षितान्

04.22.003

तद्-दर्शनोद्गतान् प्राणान् प्रत्यादित्सुर् इवोत्थितः ।
स-सदस्यानुगो वैन्य इन्द्रियेशो गुणान् इव

04.22.004

गौरवाद् यन्त्रितः सभ्यः प्रश्रयानत-कन्धरः ।
विधिवत् पूजयां चक्रे गृहीताध्यर्हणासनान्

04.22.005

तत्-पाद-शौच-सलिलैर् मार्जितालक-बन्धनः ।
तत्र शीलवतां वृत्तम् आचरन् मानयन्न् इव

04.22.006

हाटकासन आसीनान् स्व-धिष्ण्येष्व् इव पावकान् ।
श्रद्धा-संयम-संयुक्तः प्रीतः प्राह भवाग्रजान्

04.22.007

भ्प्_04.22.007।0 पृथुर् उवाच
अहो आचरितं किं मे मङ्गलं मङ्गलायनाः ।
यस्य वो दर्शनं ह्य् आसीद् दुर्दर्शानां च योगिभिः

04.22.008

किं तस्य दुर्लभतरम् इह लोके परत्र च ।
यस्य विप्राः प्रसीदन्ति शिवो विष्णुश् च सानुगः

04.22.009

नैव लक्षयते लोको लोकान् पर्यटतो ऽपि यान् ।
यथा सर्व-दृशं सर्व आत्मानं ये ऽस्य हेतवः

04.22.010

अधना अपि ते धन्याः साधवो गृह-मेधिनः ।
यद्-गृहा ह्य् अर्ह-वर्याम्बु- तृण-भूमीश्वरावराः

04.22.011

व्यालालय-द्रुमा वै तेष्व् अरिक्ताखिल-सम्पदः ।
यद्-गृहास् तीर्थ-पादीय- पादतीर्थ-विवर्जिताः

04.22.012

स्वागतं वो द्विज-श्रेष्ठा यद्-व्रतानि मुमुक्षवः ।
चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च

04.22.013

कच्चिन् नः कुशलं नाथा इन्द्रियार्थार्थ-वेदिनाम् ।
व्यसनावाप एतस्मिन् पतितानां स्व-कर्मभिः

04.22.014

भवत्सु कुशल-प्रश्न आत्मारामेषु नेष्यते ।
कुशलाकुशला यत्र न सन्ति मति-वृत्तयः

04.22.015

तद् अहं कृत-विश्रम्भः सुहृदो वस् तपस्विनाम् ।
सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत्

04.22.016

व्यक्तम् आत्मवताम् आत्मा भगवान् आत्म-भावनः ।
स्वानाम् अनुग्रहायेमां सिद्ध-रूपी चरत्य् अजः

04.22.017

भ्प्_04.22.017।0 मैत्रेय उवाच
पृथोस् तत् सूक्तम् आकर्ण्य सारं सुष्ठु मितं मधु ।
स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह

04.22.018

भ्प्_04.22.018।0 सनत्-कुमार उवाच
साधु पृष्टं महाराज सर्व-भूत-हितात्मना ।
भवता विदुषा चापि साधूनां मतिर् ईदृशी

04.22.019

सङ्गमः खलु साधूनाम् उभयेषां च सम्मतः ।
यत्-सम्भाषण-सम्प्रश्नः सर्वेषां वितनोति शम्

04.22.020

अस्त्य् एव राजन् भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने ।
रतिर् दुरापा विधुनोति नैष्ठिकी कामं कषायं मलम् अन्तर्-आत्मनः

04.22.021

शास्त्रेष्व् इयान् एव सुनिश्चितो नृणां क्षेमस्य सध्र्यग्-विमृशेषु हेतुः ।
असङ्ग आत्म-व्यतिरिक्त आत्मनि दृढा रतिर् ब्रह्मणि निर्गुणे च या

04.22.022

सा श्रद्धया भगवद्-धर्म-चर्यया जिज्ञासयाध्यात्मिक-योग-निष्ठया ।
योगेश्वरोपासनया च नित्यं पुण्य-श्रवः-कथया पुण्यया च

04.22.023

अर्थेन्द्रियाराम-सगोष्ठ्य्-अतृष्णया तत्-सम्मतानाम् अपरिग्रहेण च ।
विविक्त-रुच्या परितोष आत्मनि विना हरेर् गुण-पीयूष-पानात्

04.22.024

अहिंसया पारमहंस्य-चर्यया स्मृत्या मुकुन्दाचरिताग्र्य-सीधुना ।
यमैर् अकामैर् नियमैश् चाप्य् अनिन्दया निरीहया द्वन्द्व-तितिक्षया च

04.22.025

हरेर् मुहुस् तत्पर-कर्ण-पूर- गुणाभिधानेन विजृम्भमाणया ।
भक्त्या ह्य् असङ्गः सद्-असत्य् अनात्मनि स्यान् निर्गुणे ब्रह्मणि चाञ्जसा रतिः

04.22.026

यदा रतिर् ब्रह्मणि नैष्ठिकी पुमान् आचार्यवान् ज्ञान-विराग-रंहसा ।
दहत्य् अवीर्यं हृदयं जीव-कोशं पञ्चात्मकं योनिम् इवोत्थितो ऽग्निः

04.22.027

दग्धाशयो मुक्त-समस्त-तद्-गुणो नैवात्मनो बहिर् अन्तर् विचष्टे ।
परात्मनोर् यद्-व्यवधानं पुरस्तात् स्वप्ने यथा पुरुषस् तद्-विनाशे

04.22.028

आत्मानम् इन्द्रियार्थं च परं यद् उभयोर् अपि ।
सत्य् आशय उपाधौ वै पुमान् पश्यति नान्यदा

04.22.029

निमित्ते सति सर्वत्र जलादाव् अपि पूरुषः ।
आत्मनश् च परस्यापि भिदां पश्यति नान्यदा

04.22.030

इन्द्रियैर् विषयाकृष्टैर् आक्षिप्तं ध्यायतां मनः ।
चेतनां हरते बुद्धेः स्तम्बस् तोयम् इव ह्रदात्

04.22.031

भ्रश्यत्य् अनुस्मृतिश् चित्तं ज्ञान-भ्रंशः स्मृति-क्षये ।
तद्-रोधं कवयः प्राहुर् आत्मापह्नवम् आत्मनः

04.22.032

नातः परतरो लोके पुंसः स्वार्थ-व्यतिक्रमः ।
यद्-अध्य् अन्यस्य प्रेयस्त्वम् आत्मनः स्व-व्यतिक्रमात्

04.22.033

अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।
भ्रंशितो ज्ञान-विज्ञानाद् येनाविशति मुख्यताम्

04.22.034

न कुर्यात् कर्हिचित् सङ्गं तमस् तीव्रं तितीरिषुः ।
धर्मार्थ-काम-मोक्षाणां यद् अत्यन्त-विघातकम्

04.22.035

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।
त्रैवर्ग्यो ऽर्थो यतो नित्यं कृतान्त-भय-संयुतः

04.22.036

परे ऽवरे च ये भावा गुण-व्यतिकराद् अनु ।
न तेषां विद्यते क्षेमम् ईश-विध्वंसिताशिषाम्

04.22.041

तत् त्वं नरेन्द्र जगताम् अथ तस्थूषां च $ देहेन्द्रियासु-धिषणात्मभिर् आवृतानाम् &अम्प्;
यः क्षेत्रवित्-तपतया हृदि विश्वग् आविः % प्रत्यक् चकास्ति भगवांस् तम् अवेहि सो ऽस्मि ॥ भ्प्_04.22.037* ॥
यस्मिन्न् इदं सद्-असद्-आत्मतया विभाति $ माया विवेक-विधुति स्रजि वाहि-बुद्धिः &
यस्मिन्न् इदं सद्-असद्-आत्मतया विभाति $ माया विवेक-विधुति स्रजि वाहि-बुद्धिः &
तं नित्य-मुक्त-परिशुद्ध-विशुद्ध-तत्त्वं % प्रत्यूढ-कर्म-कलिल-प्रकृतिं प्रपद्ये ॥ भ्प्_04.22.038* ॥
यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या $ कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः &
यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या $ कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः &
तद्वन् न रिक्त-मतयो यतयो ऽपि रुद्ध- % स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ भ्प्_04.22.039* ॥
कृच्छ्रो महान् इह भवार्णवम् अप्लवेशां $ षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति &
कृच्छ्रो महान् इह भवार्णवम् अप्लवेशां $ षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति &
तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं % कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् ॥ भ्प्_04.22.040*
0 मैत्रेय उवाच
स एवं ब्रह्म-पुत्रेण कुमारेणात्म-मेधसा ।
दर्शितात्म-गतिः सम्यक् प्रशस्योवाच तं नृपः

04.22.042

भ्प्_04.22.042।0 राजोवाच
कृतो मे ऽनुग्रहः पूर्वं हरिणार्तानुकम्पिना ।
तम् आपादयितुं ब्रह्मन् भगवन् यूयम् आगताः

04.22.043

निष्पादितश् च कार्त्स्न्येन भगवद्भिर् घृणालुभिः ।
साधूच्छिष्टं हि मे सर्वम् आत्मना सह किं ददे

04.22.044

प्राणा दाराः सुता ब्रह्मन् गृहाश् च स-परिच्छदाः ।
राज्यं बलं मही कोश इति सर्वं निवेदितम्

04.22.045

सैना-पत्यं च राज्यं च दण्ड-नेतृत्वम् एव च ।
सर्व लोकाधिपत्यं च वेद-शास्त्र-विद् अर्हति

04.22.046

स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः

04.22.048

यैर् ईदृशी भगवतो गतिर् आत्म-वाद $ एकान्ततो निगमिभिः प्रतिपादिता नः &अम्प्;
तुष्यन्त्व् अदभ्र-करुणाः स्व-कृतेन नित्यं % को नाम तत् प्रतिकरोति विनोद-पात्रम् ॥ भ्प्_04.22.047*
0 मैत्रेय उवाच
त आत्म-योग-पतय आदि-राजेन पूजिताः ।
शीलं तदीयं शंसन्तः खे ऽभवन् मिषतां नृणाम्

04.22.049

वैन्यस् तु धुर्यो महतां संस्थित्याध्यात्म-शिक्षया ।
आप्त-कामम् इवात्मानं मेन आत्मन्य् अवस्थितः

04.22.050

कर्माणि च यथा-कालं यथा-देशं यथा-बलम् ।
यथोचितं यथा-वित्तम् अकरोद् ब्रह्म-सात्-कृतम्

04.22.051

फलं ब्रह्मणि सन्न्यस्य निर्विषङ्गः समाहितः ।
कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम्

04.22.052

गृहेषु वर्तमानो ऽपि स साम्राज्य-श्रियान्वितः ।
नासज्जतेन्द्रियार्थेषु निरहम्-मतिर् अर्कवत्

04.22.053

एवम् अध्यात्म-योगेन कर्माण्य् अनुसमाचरन् ।
पुत्रान् उत्पादयाम् आस पञ्चार्चिष्य् आत्म-सम्मतान्

04.22.054

विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् ।
सर्वेषां लोक-पालानां दधारैकः पृथुर् गुणान्

04.22.055

गोपीथाय जगत्-सृष्टेः काले स्वे स्वे ऽच्युतात्मकः ।
मनो-वाग्-वृत्तिभिः सौम्यैर् गुणैः संरञ्जयन् प्रजाः

04.22.056

राजेत्य् अधान् नामधेयं सोम-राज इवापरः ।
सूर्यवद् विसृजन् गृह्णन् प्रतपंश् च भुवो वसु

04.22.057

दुर्धर्षस् तेजसेवाग्निर् महेन्द्र इव दुर्जयः ।
तितिक्षया धरित्रीव द्यौर् इवाभीष्ट-दो नृणाम्

04.22.058

वर्षति स्म यथा-कामं पर्जन्य इव तर्पयन् ।
समुद्र इव दुर्बोधः सत्त्वेनाचल-राड् इव

04.22.059

धर्म-राड् इव शिक्षायाम् आश्चर्ये हिमवान् इव ।
कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा

04.22.060

मातरिश्वेव सर्वात्मा बलेन महसौजसा ।
अविषह्यतया देवो भगवान् भूत-राड् इव

04.22.061

कन्दर्प इव सौन्दर्ये मनस्वी मृग-राड् इव ।
वात्सल्ये मनुवन् नृणां प्रभुत्वे भगवान् अजः

04.22.062

बृहस्पतिर् ब्रह्म-वादे आत्मवत्त्वे स्वयं हरिः ।
भक्त्या गो-गुरु-विप्रेषु विष्वक्सेनानुवर्तिषु ।
ह्रिया प्रश्रय-शीलाभ्याम् आत्म-तुल्यः परोद्यमे

04.22.063

कीर्त्योर्ध्व-गीतया पुम्भिस् त्रैलोक्ये तत्र तत्र ह ।
प्रविष्टः कर्ण-रन्ध्रेषु स्त्रीणां रामः सताम् इव

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc