भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.21

04.21.001

भ्प्_04.21.001।0 मैत्रेय उवाच
मौक्तिकैः कुसुम-स्रग्भिर् दुकूलैः स्वर्ण-तोरणैः ।
महा-सुरभिभिर् धूपैर् मण्डितं तत्र तत्र वै

04.21.002

चन्दनागुरु-तोयार्द्र- रथ्या-चत्वर-मार्गवत् ।
पुष्पाक्षत-फलैस् तोक्मैर् लाजैर् अर्चिर्भिर् अर्चितम्

04.21.003

सवृन्दैः कदली-स्तम्भैः पूग-पोतैः परिष्कृतम् ।
तरु-पल्लव-मालाभिः सर्वतः समलङ्कृतम्

04.21.004

प्रजास् तं दीप-बलिभिः सम्भृताशेष-मङ्गलैः ।
अभीयुर् मृष्ट-कन्याश् च मृष्ट-कुण्डल-मण्डिताः

04.21.005

शङ्ख-दुन्दुभि-घोषेण ब्रह्म-घोषेण चर्त्विजाम् ।
विवेश भवनं वीरः स्तूयमानो गत-स्मयः

04.21.006

पूजितः पूजयाम् आस तत्र तत्र महा-यशाः ।
पौराञ् जानपदांस् तांस् तान् प्रीतः प्रिय-वर-प्रदः

04.21.007

स एवम् आदीन्य् अनवद्य-चेष्टितः कर्माणि भूयांसि महान् महत्तमः ।
कुर्वन् शशासावनि-मण्डलं यशः स्फीतं निधायारुरुहे परं पदम्

04.21.008

भ्प्_04.21.008।0 सूत उवाच
तद् आदि-राजस्य यशो विजृम्भितं गुणैर् अशेषैर् गुणवत्-सभाजितम् ।
क्षत्ता महा-भागवतः सदस्पते कौषारविं प्राह गृणन्तम् अर्चयन्

04.21.009

भ्प्_04.21.009।0 विदुर उवाच
सो ऽभिषिक्तः पृथुर् विप्रैर् लब्धाशेष-सुरार्हणः ।
बिभ्रत् स वैष्णवं तेजो बाह्वोर् याभ्यां दुदोह गाम्

04.21.010

को न्व् अस्य कीर्तिं न शृणोत्य् अभिज्ञो यद्-विक्रमोच्छिष्टम् अशेष-भूपाः ।
लोकाः स-पाला उपजीवन्ति कामम् अद्यापि तन् मे वद कर्म शुद्धम्

04.21.011

भ्प्_04.21.011।0 मैत्रेय उवाच
गङ्गा-यमुनयोर् नद्योर् अन्तरा क्षेत्रम् आवसन् ।
आरब्धान् एव बुभुजे भोगान् पुण्य-जिहासया

04.21.012

सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् ।
अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः

04.21.013

एकदासीन् महा-सत्र- दीक्षा तत्र दिवौकसाम् ।
समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम

04.21.014

तस्मिन्न् अर्हत्सु सर्वेषु स्व्-अर्चितेषु यथार्हतः ।
उत्थितः सदसो मध्ये ताराणाम् उडुराड् इव

04.21.015

प्रांशुः पीनायत-भुजो गौरः कञ्जारुणेक्षणः ।
सुनासः सुमुखः सौम्यः पीनांसः सुद्विज-स्मितः

04.21.016

व्यूढ-वक्षा बृहच्-छ्रोणिर् वलि-वल्गु-दलोदरः ।
आवर्त-नाभिर् ओजस्वी काञ्चनोरुर् उदग्र-पात्

04.21.017

सूक्ष्म-वक्रासित-स्निग्ध- मूर्धजः कम्बु-कन्धरः ।
महा-धने दुकूलाग्र्ये परिधायोपवीय च

04.21.018

व्यञ्जिताशेष-गात्र-श्रीर् नियमे न्यस्त-भूषणः ।
कृष्णाजिन-धरः श्रीमान् कुश-पाणिः कृतोचितः

04.21.019

शिशिर-स्निग्ध-ताराक्षः समैक्षत समन्ततः ।
ऊचिवान् इदम् उर्वीशः सदः संहर्षयन्न् इव

04.21.020

चारु चित्र-पदं श्लक्ष्णं मृष्टं गूढम् अविक्लवम् ।
सर्वेषाम् उपकारार्थं तदा अनुवदन्न् इव

04.21.021

भ्प्_04.21.021।0 राजोवाच
सभ्याः शृणुत भद्रं वः साधवो य इहागताः ।
सत्सु जिज्ञासुभिर् धर्मम् आवेद्यं स्व-मनीषितम्

04.21.022

अहं दण्ड-धरो राजा प्रजानाम् इह योजितः ।
रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक्

04.21.023

तस्य मे तद्-अनुष्ठानाद् यान् आहुर् ब्रह्म-वादिनः ।
लोकाः स्युः काम-सन्दोहा यस्य तुष्यति दिष्ट-दृक्

04.21.024

य उद्धरेत् करं राजा प्रजा धर्मेष्व् अशिक्षयन् ।
प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः

04.21.025

तत् प्रजा भर्तृ-पिण्डार्थं स्वार्थम् एवानसूयवः ।
कुरुताधोक्षज-धियस् तर्हि मे ऽनुग्रहः कृतः

04.21.026

यूयं तद् अनुमोदध्वं पितृ-देवर्षयो ऽमलाः ।
कर्तुः शास्तुर् अनुज्ञातुस् तुल्यं यत् प्रेत्य तत् फलम्

04.21.027

अस्ति यज्ञ-पतिर् नाम केषाञ्चिद् अर्ह-सत्तमाः ।
इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः

04.21.028

मनोर् उत्तानपादस्य ध्रुवस्यापि महीपतेः ।
प्रियव्रतस्य राजर्षेर् अङ्गस्यास्मत्-पितुः पितुः

04.21.029

ईदृशानाम् अथान्येषाम् अजस्य च भवस्य च ।
प्रह्लादस्य बलेश् चापि कृत्यम् अस्ति गदाभृता

04.21.030

दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्म-विमोहितान् ।
वर्ग-स्वर्गापवर्गाणां प्रायेणैकात्म्य-हेतुना

04.21.031

यत्-पाद-सेवाभिरुचिस् तपस्विनाम् अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती यथा पदाङ्गुष्ठ-विनिःसृता सरित्

04.21.032

विनिर्धुताशेष-मनो-मलः पुमान् असङ्ग-विज्ञान-विशेष-वीर्यवान् ।
यद्-अङ्घ्रि-मूले कृत-केतनः पुनर् न संसृतिं क्लेश-वहां प्रपद्यते

04.21.033

तम् एव यूयं भजतात्म-वृत्तिभिर् मनो-वचः-काय-गुणैः स्व-कर्मभिः ।
अमायिनः काम-दुघाङ्घ्रि-पङ्कजं यथाधिकारावसितार्थ-सिद्धयः

04.21.034

असाव् इहानेक-गुणो ऽगुणो ऽध्वरः पृथग्-विध-द्रव्य-गुण-क्रियोक्तिभिः ।
सम्पद्यते ऽर्थाशय-लिङ्ग-नामभिर् विशुद्ध-विज्ञान-घनः स्वरूपतः

04.21.035

प्रधान-कालाशय-धर्म-सङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम् ।
क्रिया-फलत्वेन विभुर् विभाव्यते यथानलो दारुषु तद्-गुणात्मकः

04.21.036

अहो ममामी वितरन्त्य् अनुग्रहं हरिं गुरुं यज्ञ-भुजाम् अधीश्वरम् ।
स्व-धर्म-योगेन यजन्ति मामका निरन्तरं क्षोणि-तले दृढ-व्रताः

04.21.037

मा जातु तेजः प्रभवेन् महर्द्धिभिस् तितिक्षया तपसा विद्यया च ।
देदीप्यमाने ऽजित-देवतानां कुले स्वयं राज-कुलाद् द्विजानाम्

04.21.038

ब्रह्मण्य-देवः पुरुषः पुरातनो नित्यं हरिर् यच्-चरणाभिवन्दनात् ।
अवाप लक्ष्मीम् अनपायिनीं यशो जगत्-पवित्रं च महत्तमाग्रणीः

04.21.039

यत्-सेवयाशेष-गुहाशयः स्व-राड् विप्र-प्रियस् तुष्यति कामम् ईश्वरः ।
तद् एव तद्-धर्म-परैर् विनीतैः सर्वात्मना ब्रह्म-कुलं निषेव्यताम्

04.21.040

पुमान् लभेतानतिवेलम् आत्मनः प्रसीदतो ऽत्यन्त-शमं स्वतः स्वयम् ।
यन्-नित्य-सम्बन्ध-निषेवया ततः परं किम् अत्रास्ति मुखं हविर्-भुजाम्

04.21.041

अश्नात्य् अनन्तः खलु तत्त्व-कोविदैः श्रद्धा-हुतं यन्-मुख इज्य-नामभिः ।
न वै तथा चेतनया बहिष्-कृते हुताशने पारमहंस्य-पर्यगुः

04.21.042

यद् ब्रह्म नित्यं विरजं सनातनं श्रद्धा-तपो-मङ्गल-मौन-संयमैः ।
समाधिना बिभ्रति हार्थ-दृष्टये यत्रेदम् आदर्श इवावभासते

04.21.043

तेषाम् अहं पाद-सरोज-रेणुम् आर्या वहेयाधि-किरीटम् आयुः ।
यं नित्यदा बिभ्रत आशु पापं नश्यत्य् अमुं सर्व-गुणा भजन्ति

04.21.044

गुणायनं शील-धनं कृत-ज्ञं वृद्धाश्रयं संवृणते ऽनु सम्पदः ।
प्रसीदतां ब्रह्म-कुलं गवां च जनार्दनः सानुचरश् च मह्यम्

04.21.046

भ्प्_04.21.045।0 मैत्रेय उवाच
इति ब्रुवाणं नृपतिं पितृ-देव-द्विजातयः ।
तुष्टुवुर् हृष्ट-मनसः साधु-वादेन साधवः

04.21.047

पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः ।
ब्रह्म-दण्ड-हतः पापो यद् वेनो ऽत्यतरत् तमः

04.21.048

हिरण्यकशिपुश् चापि भगवन्-निन्दया तमः ।
विविक्षुर् अत्यगात् सूनोः प्रह्लादस्यानुभावतः

04.21.049

वीर-वर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः ।
यस्येदृश्य् अच्युते भक्तिः सर्व-लोकैक-भर्तरि

04.21.050

अहो वयं ह्य् अद्य पवित्र-कीर्ते त्वयैव नाथेन मुकुन्द-नाथाः ।
य उत्तमश्लोकतमस्य विष्णोर् ब्रह्मण्य-देवस्य कथां व्यनक्ति

04.21.051

नात्यद्भुतम् इदं नाथ तवाजीव्यानुशासनम् ।
प्रजानुरागो महतां प्रकृतिः करुणात्मनाम्

04.21.052

अद्य नस् तमसः पारस् त्वयोपासादितः प्रभो ।
भ्राम्यतां नष्ट-दृष्टीनां कर्मभिर् दैव-संज्ञितैः

04.21.053

नमो विवृद्ध-सत्त्वाय पुरुषाय महीयसे ।
यो ब्रह्म क्षत्रम् आविश्य बिभर्तीदं स्व-तेजसा

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc