भागवत पुराण · अध्याय 04.11
भ्प्_04.10.030।0 मुनय ऊचुः
औत्तानपाद भगवांस् तव शार्ङ्गधन्वा $ देवः क्षिणोत्व् अवनतार्ति-हरो विपक्षान् &
औत्तानपाद भगवांस् तव शार्ङ्गधन्वा $ देवः क्षिणोत्व् अवनतार्ति-हरो विपक्षान् &
यन्-नामधेयम् अभिधाय निशम्य चाद्धा % लोको ऽञ्जसा तरति दुस्तरम् अङ्ग मृत्युम् ॥ भ्प्_04.10.030*
0 मैत्रेय उवाच
निशम्य गदताम् एवम् ऋषीणां धनुषि ध्रुवः ।
सन्दधे ऽस्त्रम् उपस्पृश्य यन् नारायण-निर्मितम्
सन्धीयमान एतस्मिन् माया गुह्यक-निर्मिताः ।
क्षिप्रं विनेशुर् विदुर क्लेशा ज्ञानोदये यथा
तस्यार्षास्त्रं धनुषि प्रयुञ्जतः सुवर्ण-पुङ्खाः कलहंस-वाससः ।
विनिःसृता आविविशुर् द्विषद्-बलं यथा वनं भीम-रवाः शिखण्डिनः
तैस् तिग्म-धारैः प्रधने शिली-मुखैर् इतस् ततः पुण्य-जना उपद्रुताः ।
तम् अभ्यधावन् कुपिता उदायुधाः सुपर्णम् उन्नद्ध-फणा इवाहयः
स तान् पृषत्कैर् अभिधावतो मृधे निकृत्त-बाहूरु-शिरोधरोदरान् ।
निनाय लोकं परम् अर्क-मण्डलं व्रजन्ति निर्भिद्य यम् ऊर्ध्व-रेतसः
तान् हन्यमानान् अभिवीक्ष्य गुह्यकान् अनागसश् चित्र-रथेन भूरिशः ।
औत्तानपादिं कृपया पितामहो मनुर् जगादोपगतः सहर्षिभिः
भ्प्_04.11.007।0 मनुर् उवाच
अलं वत्सातिरोषेण तमो-द्वारेण पाप्मना ।
येन पुण्य-जनान् एतान् अवधीस् त्वम् अनागसः
नास्मत्-कुलोचितं तात कर्मैतत् सद्-विगर्हितम् ।
वधो यद् उपदेवानाम् आरब्धस् ते ऽकृतैनसाम्
नन्व् एकस्यापराधेन प्रसङ्गाद् बहवो हताः ।
भ्रातुर् वधाभितप्तेन त्वयाङ्ग भ्रातृ-वत्सल
नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् ।
यद् आत्मानं पराग् गृह्य पशुवद् भूत-वैशसम्
सर्व-भूतात्म-भावेन भूतावासं हरिं भवान् ।
आराध्याप दुराराध्यं विष्णोस् तत् परमं पदम्
स त्वं हरेर् अनुध्यातस् तत्-पुंसाम् अपि सम्मतः ।
कथं त्व् अवद्यं कृतवान् अनुशिक्षन् सतां व्रतम्
तितिक्षया करुणया मैत्र्या चाखिल-जन्तुषु ।
समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति
सम्प्रसन्ने भगवति पुरुषः प्राकृतैर् गुणैः ।
विमुक्तो जीव-निर्मुक्तो ब्रह्म निर्वाणम् ऋच्छति
भूतैः पञ्चभिर् आरब्धैर् योषित् पुरुष एव हि ।
तयोर् व्यवायात् सम्भूतिर् योषित्-पुरुषयोर् इह
एवं प्रवर्तते सर्गः स्थितिः संयम एव च ।
गुण-व्यतिकराद् राजन् मायया परमात्मनः
निमित्त-मात्रं तत्रासीन् निर्गुणः पुरुषर्षभः ।
व्यक्ताव्यक्तम् इदं विश्वं यत्र भ्रमति लोहवत्
स खल्व् इदं भगवान् काल-शक्त्या गुण-प्रवाहेण विभक्त-वीर्यः ।
करोत्य् अकर्तैव निहन्त्य् अहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या
सो ऽनन्तो ऽन्त-करः कालो ऽनादिर् आदि-कृद् अव्ययः ।
जनं जनेन जनयन् मारयन् मृत्युनान्तकम्
न वै स्व-पक्षो ऽस्य विपक्ष एव वा परस्य मृत्योर् विशतः समं प्रजाः ।
तं धावमानम् अनुधावन्त्य् अनीशा यथा रजांस्य् अनिलं भूत-सङ्घाः
आयुषो ऽपचयं जन्तोस् तथैवोपचयं विभुः ।
उभाभ्यां रहितः स्व-स्थो दुःस्थस्य विदधात्य् असौ
केचित् कर्म वदन्त्य् एनं स्वभावम् अपरे नृप ।
एके कालं परे दैवं पुंसः कामम् उतापरे
अव्यक्तस्याप्रमेयस्य नाना-शक्त्य्-उदयस्य च ।
न वै चिकीर्षितं तात को वेदाथ स्व-सम्भवम्
न चैते पुत्रक भ्रातुर् हन्तारो धनदानुगाः ।
विसर्गादानयोस् तात पुंसो दैवं हि कारणम्
स एव विश्वं सृजति स एवावति हन्ति च ।
अथापि ह्य् अनहङ्कारान् नाज्यते गुण-कर्मभिः
एष भूतानि भूतात्मा भूतेशो भूत-भावनः ।
स्व-शक्त्या मायया युक्तः सृजत्य् अत्ति च पाति च
तम् एव मृत्युम् अमृतं तात दैवं सर्वात्मनोपेहि जगत्-परायणम् ।
यस्मै बलिं विश्व-सृजो हरन्ति गावो यथा वै नसि दाम-यन्त्रिताः
यः पञ्च-वर्षो जननीं त्वं विहाय मातुः सपत्न्या वचसा भिन्न-मर्मा ।
वनं गतस् तपसा प्रत्यग्-अक्षम् आराध्य लेभे मूर्ध्नि पदं त्रि-लोक्याः
तम् एनम् अङ्गात्मनि मुक्त-विग्रहे व्यपाश्रितं निर्गुणम् एकम् अक्षरम् ।
आत्मानम् अन्विच्छ विमुक्तम् आत्म-दृग् यस्मिन्न् इदं भेदम् असत् प्रतीयते
त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त आनन्द-मात्र उपपन्न-समस्त-शक्तौ ।
भक्तिं विधाय परमां शनकैर् अविद्या- ग्रन्थिं विभेत्स्यसि ममाहम् इति प्ररूढम्
संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् ।
श्रुतेन भूयसा राजन्न् अगदेन यथामयम्
येनोपसृष्टात् पुरुषाल् लोक उद्विजते भृशम् ।
न बुधस् तद्-वशं गच्छेद् इच्छन्न् अभयम् आत्मनः
हेलनं गिरिश-भ्रातुर् धनदस्य त्वया कृतम् ।
यज् जघ्निवान् पुण्य-जनान् भ्रातृ-घ्नान् इत्य् अमर्षितः
तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः ।
न यावन् महतां तेजः कुलं नो ऽभिभविष्यति
एवं स्वायम्भुवः पौत्रम् अनुशास्य मनुर् ध्रुवम् ।
तेनाभिवन्दितः साकम् ऋषिभिः स्व-पुरं ययौ
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0