भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.06

04.06.001

भ्प्_04.06.001।0 मैत्रेय उवाच
अथ देव-गणाः सर्वे रुद्रानीकैः पराजिताः ।
शूल-पट्टिश-निस्त्रिंश- गदा-परिघ-मुद्गरैः

04.06.002

सञ्छिन्न-भिन्न-सर्वाङ्गाः सर्त्विक्-सभ्या भयाकुलाः ।
स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन्

04.06.003

उपलभ्य पुरैवैतद् भगवान् अब्ज-सम्भवः ।
नारायणश् च विश्वात्मा न कस्याध्वरम् ईयतुः

04.06.004

तद् आकर्ण्य विभुः प्राह तेजीयसि कृतागसि ।
क्षेमाय तत्र सा भूयान् न प्रायेण बुभूषताम्

04.06.005

अथापि यूयं कृत-किल्बिषा भवं ये बर्हिषो भाग-भाजं परादुः ।
प्रसादयध्वं परिशुद्ध-चेतसा क्षिप्र-प्रसादं प्रगृहीताङ्घ्रि-पद्मम्

04.06.006

आशासाना जीवितम् अध्वरस्य लोकः स-पालः कुपिते न यस्मिन् ।
तम् आशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः

04.06.007

नाहं न यज्ञो न च यूयम् अन्ये ये देह-भाजो मुनयश् च तत्त्वम् ।
विदुः प्रमाणं बल-वीर्ययोर् वा यस्यात्म-तन्त्रस्य क उपायं विधित्सेत्

04.06.008

स इत्थम् आदिश्य सुरान् अजस् तु तैः समन्वितः पितृभिः स-प्रजेशैः ।
ययौ स्व-धिष्ण्यान् निलयं पुर-द्विषः कैलासम् अद्रि-प्रवरं प्रियं प्रभोः

04.06.009

जन्मौषधि-तपो-मन्त्र- योग-सिद्धैर् नरेतरैः ।
जुष्टं किन्नर-गन्धर्वैर् अप्सरोभिर् वृतं सदा

04.06.010

नाना-मणिमयैः शृङ्गैर् नाना-धातु-विचित्रितैः ।
नाना-द्रुम-लता-गुल्मैर् नाना-मृग-गणावृतैः

04.06.011

नानामल-प्रस्रवणैर् नाना-कन्दर-सानुभिः ।
रमणं विहरन्तीनां रमणैः सिद्ध-योषिताम्

04.06.012

मयूर-केकाभिरुतं मदान्धालि-विमूर्च्छितम् ।
प्लावितै रक्त-कण्ठानां कूजितैश् च पतत्त्रिणाम्

04.06.013

आह्वयन्तम् इवोद्धस्तैर् द्विजान् काम-दुघैर् द्रुमैः ।
व्रजन्तम् इव मातङ्गैर् गृणन्तम् इव निर्झरैः

04.06.014

मन्दारैः पारिजातैश् च सरलैश् चोपशोभितम् ।
तमालैः शाल-तालैश् च कोविदारासनार्जुनैः

04.06.015

चूतैः कदम्बैर् नीपैश् च नाग-पुन्नाग-चम्पकैः ।
पाटलाशोक-बकुलैः कुन्दैः कुरबकैर् अपि

04.06.016

स्वर्णार्ण-शत-पत्रैश् च वर-रेणुक-जातिभिः ।
कुब्जकैर् मल्लिकाभिश् च माधवीभिश् च मण्डितम्

04.06.017

पनसोदुम्बराश्वत्थ- प्लक्ष-न्यग्रोध-हिङ्गुभिः ।
भूर्जैर् ओषधिभिः पूगै राजपूगैश् च जम्बुभिः

04.06.018

खर्जूराम्रातकाम्राद्यैः प्रियाल-मधुकेङ्गुदैः ।
द्रुम-जातिभिर् अन्यैश् च राजितं वेणु-कीचकैः

04.06.019

कुमुदोत्पल-कह्लार- शतपत्र-वनर्द्धिभिः ।
नलिनीषु कलं कूजत्- खग-वृन्दोपशोभितम्

04.06.020

मृगैः शाखामृगैः क्रोडैर् मृगेन्द्रैर् ऋक्ष-शल्यकैः ।
गवयैः शरभैर् व्याघ्रै रुरुभिर् महिषादिभिः

04.06.021

कर्णान्त्रैकपदाश्वास्यैर् निर्जुष्टं वृक-नाभिभिः ।
कदली-खण्ड-संरुद्ध- नलिनी-पुलिन-श्रियम्

04.06.022

पर्यस्तं नन्दया सत्याः स्नान-पुण्यतरोदया ।
विलोक्य भूतेश-गिरिं विबुधा विस्मयं ययुः

04.06.023

ददृशुस् तत्र ते रम्याम् अलकां नाम वै पुरीम् ।
वनं सौगन्धिकं चापि यत्र तन्-नाम पङ्कजम्

04.06.024

नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः ।
तीर्थपाद-पदाम्भोज- रजसातीव पावने

04.06.025

ययोः सुर-स्त्रियः क्षत्तर् अवरुह्य स्व-धिष्ण्यतः ।
क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रति-कर्शिताः

04.06.026

ययोस् तत्-स्नान-विभ्रष्ट- नव-कुङ्कुम-पिञ्जरम् ।
वितृषो ऽपि पिबन्त्य् अम्भः पाययन्तो गजा गजीः

04.06.027

तार-हेम-महारत्न- विमान-शत-सङ्कुलाम् ।
जुष्टां पुण्यजन-स्त्रीभिर् यथा खं सतडिद्-घनम्

04.06.028

हित्वा यक्षेश्वर-पुरीं वनं सौगन्धिकं च तत् ।
द्रुमैः काम-दुघैर् हृद्यं चित्र-माल्य-फल-च्छदैः

04.06.029

रक्त-कण्ठ-खगानीक- स्वर-मण्डित-षट्पदम् ।
कलहंस-कुल-प्रेष्ठं खरदण्ड-जलाशयम्

04.06.030

वन-कुञ्जर-सङ्घृष्ट- हरिचन्दन-वायुना ।
अधि पुण्यजन-स्त्रीणां मुहुर् उन्मथयन् मनः

04.06.031

वैदूर्य-कृत-सोपाना वाप्य उत्पल-मालिनीः ।
प्राप्तं किम्पुरुषैर् दृष्ट्वा त आराद् ददृशुर् वटम्

04.06.032

स योजन-शतोत्सेधः पादोन-विटपायतः ।
पर्यक्-कृताचल-च्छायो निर्नीडस् ताप-वर्जितः

04.06.033

तस्मिन् महा-योगमये मुमुक्षु-शरणे सुराः ।
ददृशुः शिवम् आसीनं त्यक्तामर्षम् इवान्तकम्

04.06.034

सनन्दनाद्यैर् महा-सिद्धैः शान्तैः संशान्त-विग्रहम् ।
उपास्यमानं सख्या च भर्त्रा गुह्यक-रक्षसाम्

04.06.035

विद्या-तपो-योग-पथम् आस्थितं तम् अधीश्वरम् ।
चरन्तं विश्व-सुहृदं वात्सल्याल् लोक-मङ्गलम्

04.06.036

लिङ्गं च तापसाभीष्टं भस्म-दण्ड-जटाजिनम् ।
अङ्गेन सन्ध्याभ्र-रुचा चन्द्र-लेखां च बिभ्रतम्

04.06.037

उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् ।
नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम्

04.06.038

कृत्वोरौ दक्षिणे सव्यं पाद-पद्मं च जानुनि ।
बाहुं प्रकोष्ठे ऽक्ष-मालाम् आसीनं तर्क-मुद्रया

04.06.039

तं ब्रह्म-निर्वाण-समाधिम् आश्रितं व्युपाश्रितं गिरिशं योग-कक्षाम् ।
स-लोक-पाला मुनयो मनूनाम् आद्यं मनुं प्राञ्जलयः प्रणेमुः

04.06.040

स तूपलभ्यागतम् आत्म-योनिं सुरासुरेशैर् अभिवन्दिताङ्घ्रिः ।
उत्थाय चक्रे शिरसाभिवन्दनम् अर्हत्तमः कस्य यथैव विष्णुः

04.06.041

तथापरे सिद्ध-गणा महर्षिभिर् ये वै समन्ताद् अनु नीललोहितम् ।
नमस्कृतः प्राह शशाङ्क-शेखरं कृत-प्रणामं प्रहसन्न् इवात्मभूः

04.06.042

भ्प्_04.06.042।0 ब्रह्मोवाच
आने त्वाम् ईशं विश्वस्य जगतो योनि-बीजयोः ।
शक्तेः शिवस्य च परं यत् तद् ब्रह्मा निरन्तरम्

04.06.043

त्वम् एव भगवन्न् एतच् छिव-शक्त्योः स्वरूपयोः ।
विश्वं सृजसि पास्य् अत्सि क्रीडन्न् ऊर्ण-पटो यथा

04.06.044

त्वम् एव धर्मार्थ-दुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथाध्वरम् ।
त्वयैव लोके ऽवसिताश् च सेतवो यान् ब्राह्मणाः श्रद्दधते धृत-व्रताः

04.06.045

त्वं कर्मणां मङ्गल मङ्गलानां कर्तुः स्व-लोकं तनुषे स्वः परं वा ।
अमङ्गलानां च तमिस्रम् उल्बणं विपर्ययः केन तद् एव कस्यचित्

04.06.046

न वै सतां त्वच्-चरणार्पितात्मनां भूतेषु सर्वेष्व् अभिपश्यतां तव ।
भूतानि चात्मन्य् अपृथग्-दिदृक्षतां प्रायेण रोषो ऽभिभवेद् यथा पशुम्

04.06.047

पृथग्-धियः कर्म-दृशो दुराशयाः परोदयेनार्पित-हृद्-रुजो ऽनिशम् ।
परान् दुरुक्तैर् वितुदन्त्य् अरुन्तुदास् तान् मावधीद् दैव-वधान् भवद्-विधः

04.06.048

यस्मिन् यदा पुष्कर-नाभ-मायया दुरन्तया स्पृष्ट-धियः पृथग्-दृशः ।
कुर्वन्ति तत्र ह्य् अनुकम्पया कृपां न साधवो दैव-बलात् कृते क्रमम्

04.06.049

भवांस् तु पुंसः परमस्य मायया दुरन्तयास्पृष्ट-मतिः समस्त-दृक् ।
तया हतात्मस्व् अनुकर्म-चेतःस्व् अनुग्रहं कर्तुम् इहार्हसि प्रभो

04.06.050

कुर्व् अध्वरस्योद्धरणं हतस्य भोः त्वयासमाप्तस्य मनो प्रजापतेः ।
न यत्र भागं तव भागिनो ददुः कुयाजिनो येन मखो निनीयते

04.06.051

जीवताद् यजमानो ऽयं प्रपद्येताक्षिणी भगः ।
भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश् च पूर्ववत्

04.06.052

देवानां भग्न-गात्राणाम् ऋत्विजां चायुधाश्मभिः ।
भवतानुगृहीतानाम् आशु मन्यो ऽस्त्व् अनातुरम्

04.06.053

एष ते रुद्र भागो ऽस्तु यद्-उच्छिष्टो ऽध्वरस्य वै ।
यज्ञस् ते रुद्र भागेन कल्पताम् अद्य यज्ञ-हन्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc