भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.05

04.05.001

भ्प्_04.05.001।0 मैत्रेय उवाच
भवो भवान्या निधनं प्रजापतेर् असत्-कृताया अवगम्य नारदात् ।
स्व-पार्षद-सैन्यं च तद्-अध्वरर्भुभिर् विद्रावितं क्रोधम् अपारम् आदधे

04.05.002

क्रुद्धः सुदष्टौष्ठ-पुटः स धूर्-जटिर् जटां तडिद्-वह्नि-सटोग्र-रोचिषम् ।
उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीर-नादो विससर्ज तां भुवि

04.05.003

ततो ऽतिकायस् तनुवा स्पृशन् दिवं सहस्र-बाहुर् घन-रुक् त्रि-सूर्य-दृक् ।
कराल-दंष्ट्रो ज्वलद्-अग्नि-मूर्धजः कपाल-माली विविधोद्यतायुधः

04.05.004

तं किं करोमीति गृणन्तम् आह बद्धाञ्जलिं भगवान् भूत-नाथः ।
दक्षं स-यज्ञं जहि मद्-भटानां त्वम् अग्रणी रुद्र भटांशको मे

04.05.005

आज्ञप्त एवं कुपितेन मन्युना स देव-देवं परिचक्रमे विभुम् ।
मेने-तदात्मानम् असङ्ग-रंहसा महीयसां तात सहः सहिष्णुम्

04.05.006

अन्वीयमानः स तु रुद्र-पार्षदैर् भृशं नदद्भिर् व्यनदत् सुभैरवम् ।
उद्यम्य शूलं जगद्-अन्तकान्तकं सम्प्राद्रवद् घोषण-भूषणाङ्घ्रिः

04.05.007

अथर्त्विजो यजमानः सदस्याः ककुभ्य् उदीच्यां प्रसमीक्ष्य रेणुम् ।
तमः किम् एतत् कुत एतद् रजो ऽभूद् इति द्विजा द्विज-पत्न्यश् च दध्युः

04.05.008

वाता न वान्ति न हि सन्ति दस्यवः प्राचीन-बर्हिर् जीवति होग्र-दण्डः ।
गावो न काल्यन्त इदं कुतो रजो लोको ऽधुना किं प्रलयाय कल्पते

04.05.009

प्रसूति-मिश्राः स्त्रिय उद्विग्न-चित्ता ऊचुर् विपाको वृजिनस्यैव तस्य ।
यत् पश्यन्तीनां दुहितॄणां प्रजेशः सुतां सतीम् अवदध्याव् अनागाम्

04.05.010

यस् त्व् अन्त-काले व्युप्त-जटा-कलापः स्व-शूल-सूच्य्-अर्पित-दिग्-गजेन्द्रः ।
वितत्य नृत्यत्य् उदितास्त्र-दोर्-ध्वजान् उच्चाट्ट-हास-स्तनयित्नु-भिन्न-दिक्

04.05.011

अमर्षयित्वा तम् असह्य-तेजसं मन्यु-प्लुतं दुर्निरीक्ष्यं भ्रु-कुट्या ।
कराल-दंष्ट्राभिर् उदस्त-भागणं स्यात् स्वस्ति किं कोपयतो विधातुः

04.05.012

बह्व् एवम् उद्विग्न-दृशोच्यमाने जनेन दक्षस्य मुहुर् महात्मनः ।
उत्पेतुर् उत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक्

04.05.013

तावत् स रुद्रानुचरैर् महा-मखो नानायुधैर् वामनकैर् उदायुधैः ।
पिङ्गैः पिशङ्गैर् मकरोदराननैः पर्याद्रवद्भिर् विदुरान्वरुध्यत

04.05.014

केचिद् बभञ्जुः प्राग्-वंशं पत्नी-शालां तथापरे ।
सद आग्नीध्र-शालां च तद्-विहारं महानसम्

04.05.015

रुरुजुर् यज्ञ-पात्राणि तथैके ऽग्नीन् अनाशयन् ।
कुण्डेष्व् अमूत्रयन् केचिद् बिभिदुर् वेदि-मेखलाः

04.05.016

अबाधन्त मुनीन् अन्ये एके पत्नीर् अतर्जयन् ।
अपरे जगृहुर् देवान् प्रत्यासन्नान् पलायितान्

04.05.017

भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् ।
चण्डेशः पूषणं देवं भगं नन्दीश्वरो ऽग्रहीत्

04.05.018

सर्व एवर्त्विजो दृष्ट्वा सदस्याः स-दिवौकसः ।
तैर् अर्द्यमानाः सुभृशं ग्रावभिर् नैकधाद्रवन्

04.05.019

जुह्वतः स्रुव-हस्तस्य श्मश्रूणि भगवान् भवः ।
भृगोर् लुलुञ्चे सदसि यो ऽहसच् छ्मश्रु दर्शयन्

04.05.020

भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि ।
उज्जहार सद-स्थो ऽक्ष्णा यः शपन्तम् असूसुचत्

04.05.021

पूष्णो ह्य् अपातयद् दन्तान् कालिङ्गस्य यथा बलः ।
शप्यमाने गरिमणि यो ऽहसद् दर्शयन् दतः

04.05.022

आक्रम्योरसि दक्षस्य शित-धारेण हेतिना ।
छिन्दन्न् अपि तद् उद्धर्तुं नाशक्नोत् त्र्यम्बकस् तदा

04.05.023

शस्त्रैर् अस्त्रान्वितैर् एवम् अनिर्भिन्न-त्वचं हरः ।
विस्मयं परम् आपन्नो दध्यौ पशुपतिश् चिरम्

04.05.024

दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर् मखे ।
यजमान-पशोः कस्य कायात् तेनाहरच् छिरः

04.05.025

साधु-वादस् तदा तेषां कर्म तत् तस्य पश्यताम् ।
भूत-प्रेत-पिशाचानां अन्येषां तद्-विपर्ययः

04.05.026

जुहावैतच् छिरस् तस्मिन् दक्षिणाग्नाव् अमर्षितः ।
तद्-देव-यजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc