भागवत पुराण · अध्याय 04.04
भ्प्_04.04.001।0 मैत्रेय उवाच
एतावद् उक्त्वा विरराम शङ्करः पत्न्य्-अङ्ग-नाशं ह्य् उभयत्र चिन्तयन् ।
सुहृद्-दिदृक्षुः परिशङ्किता भवान् निष्क्रामती निर्विशती द्विधास सा
सुहृद्-दिदृक्षा-प्रतिघात-दुर्मनाः स्नेहाद् रुदत्य् अश्रु-कलातिविह्वला ।
भवं भवान्य् अप्रतिपूरुषं रुषा प्रधक्ष्यतीवैक्षत जात-वेपथुः
ततो विनिःश्वस्य सती विहाय तं शोकेन रोषेण च दूयता हृदा ।
पित्रोर् अगात् स्त्रैण-विमूढ-धीर् गृहान् प्रेम्णात्मनो यो ऽर्धम् अदात् सतां प्रियः
ताम् अन्वगच्छन् द्रुत-विक्रमां सतीम् एकां त्रि-नेत्रानुचराः सहस्रशः ।
स-पार्षद-यक्षा मणिमन्-मदादयः पुरो-वृषेन्द्रास् तरसा गत-व्यथाः
तां सारिका-कन्दुक-दर्पणाम्बुज- श्वेतातपत्र-व्यजन-स्रग्-आदिभिः ।
गीतायनैर् दुन्दुभि-शङ्ख-वेणुभिर् वृषेन्द्रम् आरोप्य विटङ्किता ययुः
आब्रह्म-घोषोर्जित-यज्ञ-वैशसं विप्रर्षि-जुष्टं विबुधैश् च सर्वशः ।
मृद्-दार्व्-अयः-काञ्चन-दर्भ-चर्मभिर् निसृष्ट-भाण्डं यजनं समाविशत्
ताम् आगतां तत्र न कश्चनाद्रियद् विमानितां यज्ञ-कृतो भयाज् जनः ।
ऋते स्वसॄर् वै जननीं च सादराः प्रेमाश्रु-कण्ठ्यः परिषस्वजुर् मुदा
सौदर्य-सम्प्रश्न-समर्थ-वार्तया मात्रा च मातृ-ष्वसृभिश् च सादरम् ।
दत्तां सपर्यां वरम् आसनं च सा नादत्त पित्राप्रतिनन्दिता सती
अरुद्र-भागं तम् अवेक्ष्य चाध्वरं पित्रा च देवे कृत-हेलनं विभौ ।
अनादृता यज्ञ-सदस्य् अधीश्वरी चुकोप लोकान् इव धक्ष्यती रुषा
जगर्ह सामर्ष-विपन्नया गिरा शिव-द्विषं धूम-पथ-श्रम-स्मयम् ।
स्व-तेजसा भूत-गणान् समुत्थितान् निगृह्य देवी जगतो ऽभिशृण्वतः
भ्प्_04.04.011।0 देव्य् उवाच
न यस्य लोके ऽस्त्य् अतिशायनः प्रियस् तथाप्रियो देह-भृतां प्रियात्मनः ।
तस्मिन् समस्तात्मनि मुक्त-वैरके ऋते भवन्तं कतमः प्रतीपयेत्
दोषान् परेषां हि गुणेषु साधवो गृह्णन्ति केचिन् न भवादृशो द्विज ।
गुणांश् च फल्गून् बहुली-करिष्णवो महत्तमास् तेष्व् अविदद् भवान् अघम्
नाश्चर्यम् एतद् यद् असत्सु सर्वदा महद्-विनिन्दा कुणपात्म-वादिषु ।
सेर्ष्यं महापूरुष-पाद-पांसुभिर् निरस्त-तेजःसु तद् एव शोभनम्
यद् द्व्य्-अक्षरं नाम गिरेरितं नृणां सकृत् प्रसङ्गाद् अघम् आशु हन्ति तत् ।
पवित्र-कीर्तिं तम् अलङ्घ्य-शासनं भवान् अहो द्वेष्टि शिवं शिवेतरः
यत्-पाद-पद्मं महतां मनो-ऽलिभिर् निषेवितं ब्रह्म-रसासवार्थिभिः ।
लोकस्य यद् वर्षति चाशिषो ऽर्थिनस् तस्मै भवान् द्रुह्यति विश्व-बन्धवे
किं वा शिवाख्यम् अशिवं न विदुस् त्वद् अन्ये ब्रह्मादयस् तम् अवकीर्य जटाः श्मशाने ।
तन्-माल्य-भस्म-नृकपाल्य् अवसत् पिशाचैर् ये मूर्धभिर् दधति तच्-चरणावसृष्टम्
कर्णौ पिधाय निरयाद् यद् अकल्प ईशे धर्मावितर्य् असृणिभिर् नृभिर् अस्यमाने ।
छिन्द्यात् प्रसह्य रुशतीम् असतीं प्रभुश् चेज् जिह्वाम् असून् अपि ततो विसृजेत् स धर्मः
अतस् तवोत्पन्नम् इदं कलेवरं न धारयिष्ये शिति-कण्ठ-गर्हिणः ।
जग्धस्य मोहाद् धि विशुद्धिम् अन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते
न वेद-वादान् अनुवर्तते मतिः स्व एव लोके रमतो महा-मुनेः ।
यथा गतिर् देव-मनुष्ययोः पृथक् स्व एव धर्मे न परं क्षिपेत् स्थितः
कर्म प्रवृत्तं च निवृत्तम् अप्य् ऋतं वेदे विविच्योभय-लिङ्गम् आश्रितम् ।
विरोधि तद् यौगपदैक-कर्तरि द्वयं तथा ब्रह्मणि कर्म नर्च्छति
मा वः पदव्यः पितर् अस्मद्-आस्थिता या यज्ञ-शालासु न धूम-वर्त्मभिः ।
तद्-अन्न-तृप्तैर् असु-भृद्भिर् ईडिता अव्यक्त-लिङ्गा अवधूत-सेविताः
नैतेन देहेन हरे कृतागसो देहोद्भवेनालम् अलं कुजन्मना ।
व्रीडा ममाभूत् कुजन-प्रसङ्गतस् तज् जन्म धिग् यो महताम् अवद्य-कृत्
गोत्रं त्वदीयं भगवान् वृषध्वजो दाक्षायणीत्य् आह यदा सुदुर्मनाः ।
व्यपेत-नर्म-स्मितम् आशु तदाहं व्युत्स्रक्ष्य एतत् कुणपं त्वद्-अङ्गजम्
भ्प्_04.04.024।0 मैत्रेय उवाच
इत्य् अध्वरे दक्षम् अनूद्य शत्रु-हन् क्षिताव् उदीचीं निषसाद शान्त-वाक् ।
स्पृष्ट्वा जलं पीत-दुकूल-संवृता निमील्य दृग् योग-पथं समाविशत्
कृत्वा समानाव् अनिलौ जितासना सोदानम् उत्थाप्य च नाभि-चक्रतः ।
शनैर् हृदि स्थाप्य धियोरसि स्थितं कण्ठाद् भ्रुवोर् मध्यम् अनिन्दितानयत्
एवं स्व-देहं महतां महीयसा मुहुः समारोपितम् अङ्कम् आदरात् ।
जिहासती दक्ष-रुषा मनस्विनी दधार गात्रेष्व् अनिलाग्नि-धारणाम्
ततः स्व-भर्तुश् चरणाम्बुजासवं जगद्-गुरोश् चिन्तयती न चापरम् ।
ददर्श देहो हत-कल्मषः सती सद्यः प्रजज्वाल समाधिजाग्निना
तत् पश्यतां खे भुवि चाद्भुतं महद् हा हेति वादः सुमहान् अजायत ।
हन्त प्रिया दैवतमस्य देवी जहाव् असून् केन सती प्रकोपिता
अहो अनात्म्यं महद् अस्य पश्यत प्रजापतेर् यस्य चराचरं प्रजाः ।
जहाव् असून् यद्-विमतात्मजा सती मनस्विनी मानम् अभीक्ष्णम् अर्हति
सो ऽयं दुर्मर्ष-हृदयो ब्रह्म-ध्रुक् च लोके ऽपकीर्तिं महतीम् अवाप्स्यति ।
यद्-अङ्गजां स्वां पुरुष-द्विड् उद्यतां न प्रत्यषेधन् मृतये ऽपराधतः
वदत्य् एवं जने सत्या दृष्ट्वासु-त्यागम् अद्भुतम् ।
दक्षं तत्-पार्षदा हन्तुम् उदतिष्ठन्न् उदायुधाः
तेषाम् आपततां वेगं निशाम्य भगवान् भृगुः ।
यज्ञ-घ्न-घ्नेन यजुषा दक्षिणाग्नौ जुहाव ह
अध्वर्युणा हूयमाने देवा उत्पेतुर् ओजसा ।
ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः
तैर् अलातायुधैः सर्वे प्रमथाः सह-गुह्यकाः ।
हन्यमाना दिशो भेजुर् उशद्भिर् ब्रह्म-तेजसा
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0