भागवत पुराण · अध्याय 04.03
भ्प्_04.03.001।0 मैत्रेय उवाच
सदा विद्विषतोर् एवं कालो वै ध्रियमाणयोः ।
जामातुः श्वशुरस्यापि सुमहान् अतिचक्रमे
यदाभिषिक्तो दक्षस् तु ब्रह्मणा परमेष्ठिना ।
प्रजापतीनां सर्वेषाम् आधिपत्ये स्मयो ऽभवत्
इष्ट्वा स वाजपेयेन ब्रह्मिष्ठान् अभिभूय च ।
बृहस्पति-सवं नाम समारेभे क्रतूत्तमम्
तस्मिन् ब्रह्मर्षयः सर्वे देवर्षि-पितृ-देवताः ।
आसन् कृत-स्वस्त्ययनास् तत्-पत्न्यश् च स-भर्तृकाः
तद् उपश्रुत्य नभसि खे-चराणां प्रजल्पताम् ।
सती दाक्षायणी देवी पितृ-यज्ञ-महोत्सवम्
व्रजन्तीः सर्वतो दिग्भ्य उपदेव-वर-स्त्रियः ।
विमान-यानाः स-प्रेष्ठा निष्क-कण्ठीः सुवाससः
दृष्ट्वा स्व-निलयाभ्याशे लोलाक्षीर् मृष्ट-कुण्डलाः ।
पतिं भूत-पतिं देवम् औत्सुक्याद् अभ्यभाषत
भ्प्_04.03.008।0 सत्य् उवाच
प्रजापतेस् ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञ-महोत्सवः किल ।
वयं च तत्राभिसराम वाम ते यद्य् अर्थितामी विबुधा व्रजन्ति हि
तस्मिन् भगिन्यो मम भर्तृभिः स्वकैर् ध्रुवं गमिष्यन्ति सुहृद्-दिदृक्षवः ।
अहं च तस्मिन् भवताभिकामये सहोपनीतं परिबर्हम् अर्हितुम्
तत्र स्वसॄर् मे ननु भर्तृ-सम्मिता मातृ-ष्वसॄः क्लिन्न-धियं च मातरम् ।
द्रक्ष्ये चिरोत्कण्ठ-मना महर्षिभिर् उन्नीयमानं च मृडाध्वर-ध्वजम्
त्वय्य् एतद् आश्चर्यम् अजात्म-मायया विनिर्मितं भाति गुण-त्रयात्मकम् ।
तथाप्य् अहं योषिद् अतत्त्व-विच् च ते दीना दिदृक्षे भव मे भव-क्षितिम्
पश्य प्रयान्तीर् अभवान्य-योषितो ऽप्य् अलङ्कृताः कान्त-सखा वरूथशः ।
यासां व्रजद्भिः शिति-कण्ठ मण्डितं नभो विमानैः कल-हंस-पाण्डुभिः
कथं सुतायाः पितृ-गेह-कौतुकं निशम्य देहः सुर-वर्य नेङ्गते ।
अनाहुता अप्य् अभियन्ति सौहृदं भर्तुर् गुरोर् देह-कृतश् च केतनम्
तन् मे प्रसीदेदम् अमर्त्य वाञ्छितं कर्तुं भवान् कारुणिको बतार्हति ।
त्वयात्मनो ऽर्धे ऽहम् अदभ्र-चक्षुषा निरूपिता मानुगृहाण याचितः
भ्प्_04.03.015।0 ऋषिर् उवाच
एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन् सुहृत्-प्रियः ।
संस्मारितो मर्म-भिदः कुवाग्-इषून् यान् आह को विश्व-सृजां समक्षतः
भ्प्_04.03.016।0 श्री-भगवान् उवाच
त्वयोदितं शोभनम् एव शोभने अनाहुता अप्य् अभियन्ति बन्धुषु ।
ते यद्य् अनुत्पादित-दोष-दृष्टयो बलीयसानात्म्य-मदेन मन्युना
विद्या-तपो-वित्त-वपुर्-वयः-कुलैः सतां गुणैः षड्भिर् असत्तमेतरैः ।
स्मृतौ हतायां भृत-मान-दुर्दृशः स्तब्धा न पश्यन्ति हि धाम भूयसाम्
नैतादृशानां स्व-जन-व्यपेक्षया गृहान् प्रतीयाद् अनवस्थितात्मनाम् ।
ये ऽभ्यागतान् वक्र-धियाभिचक्षते आरोपित-भ्रूभिर् अमर्षणाक्षिभिः
तथारिभिर् न व्यथते शिलीमुखैः शेते ऽर्दिताङ्गो हृदयेन दूयता ।
स्वानां यथा वक्र-धियां दुरुक्तिभिर् दिवा-निशं तप्यति मर्म-ताडितः
व्यक्तं त्वम् उत्कृष्ट-गतेः प्रजापतेः प्रियात्मजानाम् असि सुभ्रु मे मता ।
तथापि मानं न पितुः प्रपत्स्यसे मद्-आश्रयात् कः परितप्यते यतः
पापच्यमानेन हृदातुरेन्द्रियः समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् ।
अकल्प एषाम् अधिरोढुम् अञ्जसा परं पदं द्वेष्टि यथासुरा हरिम्
प्रत्युद्गम-प्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे ।
प्राज्ञैः परस्मै पुरुषाय चेतसा गुहा-शयायैव न देह-मानिने
सत्त्वं विशुद्धं वसुदेव-शब्दितं यद् ईयते तत्र पुमान् अपावृतः ।
सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्य् अधोक्षजो मे नमसा विधीयते
तत् ते निरीक्ष्यो न पितापि देह-कृद् दक्षो मम द्विट् तद्-अनुव्रताश् च ये ।
यो विश्वसृग्-यज्ञ-गतं वरोरु माम् अनागसं दुर्वचसाकरोत् तिरः
यदि व्रजिष्यस्य् अतिहाय मद्-वचो भद्रं भवत्या न ततो भविष्यति ।
सम्भावितस्य स्व-जनात् पराभवो यदा स सद्यो मरणाय कल्पते
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0