भागवत पुराण · अध्याय 04.02
भ्प्_04.02.001।0 विदुर उवाच
भवे शीलवतां श्रेष्ठे दक्षो दुहितृ-वत्सलः ।
विद्वेषम् अकरोत् कस्माद् अनादृत्यात्मजां सतीम्
कस् तं चराचर-गुरुं निर्वैरं शान्त-विग्रहम् ।
आत्मारामं कथं द्वेष्टि जगतो दैवतं महत्
एतद् आख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च ।
विद्वेषस् तु यतः प्राणांस् तत्यजे दुस्त्यजान् सती
भ्प्_04.02.004।0 मैत्रेय उवाच
पुरा विश्व-सृजां सत्रे समेताः परमर्षयः ।
तथामर-गणाः सर्वे सानुगा मुनयो ऽग्नयः
तत्र प्रविष्टम् ऋषयो दृष्ट्वार्कम् इव रोचिषा ।
भ्राजमानं वितिमिरं कुर्वन्तं तन् महत् सदः
उदतिष्ठन् सदस्यास् ते स्व-धिष्ण्येभ्यः सहाग्नयः ।
ऋते विरिञ्चां शर्वं च तद्-भासाक्षिप्त-चेतसः
सदसस्-पतिभिर् दक्षो भगवान् साधु सत्-कृतः ।
अजं लोक-गुरुं नत्वा निषसाद तद्-आज्ञया
प्राङ्-निषण्णं मृडं दृष्ट्वा नामृष्यत् तद्-अनादृतः ।
उवाच वामं चक्षुर्भ्याम् अभिवीक्ष्य दहन्न् इव
श्रूयतां ब्रह्मर्षयो मे सह-देवाः सहाग्नयः ।
साधूनां ब्रुवतो वृत्तं नाज्ञानान् न च मत्सरात्
अयं तु लोक-पालानां यशो-घ्नो निरपत्रपः ।
सद्भिर् आचरितः पन्था येन स्तब्धेन दूषितः
एष मे शिष्यतां प्राप्तो यन् मे दुहितुर् अग्रहीत् ।
पाणिं विप्राग्नि-मुखतः सावित्र्या इव साधुवत्
गृहीत्वा मृग-शावाक्ष्याः पाणिं मर्कट-लोचनः ।
प्रत्युत्थानाभिवादार्हे वाचाप्य् अकृत नोचितम्
लुप्त-क्रियायाशुचये मानिने भिन्न-सेतवे ।
अनिच्छन्न् अप्य् अदां बालां शूद्रायेवोशतीं गिरम्
प्रेतावासेषु घोरेषु प्रेतैर् भूत-गणैर् वृतः ।
अटत्य् उन्मत्तवन् नग्नो व्युप्त-केशो हसन् रुदन्
चिता-भस्म-कृत-स्नानः प्रेत-स्रङ्-न्रस्थि-भूषणः ।
शिवापदेशो ह्य् अशिवो मत्तो मत्त-जन-प्रियः ।
पतिः प्रमथ-नाथानां तमो-मात्रात्मकात्मनाम्
तस्मा उन्माद-नाथाय नष्ट-शौचाय दुर्हृदे ।
दत्ता बत मया साध्वी चोदिते परमेष्ठिना
भ्प्_04.02.017।0 मैत्रेय उवाच
विनिन्द्यैवं स गिरिशम् अप्रतीपम् अवस्थितम् ।
दक्षो ऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे
अयं तु देव-यजन इन्द्रोपेन्द्रादिभिर् भवः ।
सह भागं न लभतां देवैर् देव-गणाधमः
निषिध्यमानः स सदस्य-मुख्यैर् दक्षो गिरित्राय विसृज्य शापम् ।
तस्माद् विनिष्क्रम्य विवृद्ध-मन्युर् जगाम कौरव्य निजं निकेतनम्
विज्ञाय शापं गिरिशानुगाग्रणीर् नन्दीश्वरो रोष-कषाय-दूषितः ।
दक्षाय शापं विससर्ज दारुणं ये चान्वमोदंस् तद्-अवाच्यतां द्विजाः
य एतन् मर्त्यम् उद्दिश्य भगवत्य् अप्रतिद्रुहि ।
द्रुह्यत्य् अज्ञः पृथग्-दृष्टिस् तत्त्वतो विमुखो भवेत्
गृहेषु कूट-धर्मेषु सक्तो ग्राम्य-सुखेच्छया ।
कर्म-तन्त्रं वितनुते वेद-वाद-विपन्न-धीः
बुद्ध्या पराभिध्यायिन्या विस्मृतात्म-गतिः पशुः ।
स्त्री-कामः सो ऽस्त्व् अतितरां दक्षो बस्त-मुखो ऽचिरात्
विद्या-बुद्धिर् अविद्यायां कर्ममय्याम् असौ जडः ।
संसरन्त्व् इह ये चामुम् अनु शर्वावमानिनम्
गिरः श्रुतायाः पुष्पिण्या मधु-गन्धेन भूरिणा ।
मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हर-द्विषः
सर्व-भक्षा द्विजा वृत्त्यै धृत-विद्या-तपो-व्रताः ।
वित्त-देहेन्द्रियारामा याचका विचरन्त्व् इह
तस्यैवं वदतः शापं श्रुत्वा द्विज-कुलाय वै ।
भृगुः प्रत्यसृजच् छापं ब्रह्म-दण्डं दुरत्ययम्
भव-व्रत-धरा ये च ये च तान् समनुव्रताः ।
पाषण्डिनस् ते भवन्तु सच्-छास्त्र-परिपन्थिनः
नष्ट-शौचा मूढ-धियो जटा-भस्मास्थि-धारिणः ।
विशन्तु शिव-दीक्षायां यत्र दैवं सुरासवम्
ब्रह्म च ब्राह्मणांश् चैव यद् यूयं परिनिन्दथ ।
सेतुं विधारणं पुंसाम् अतः पाषण्डम् आश्रिताः
एष एव हि लोकानां शिवः पन्थाः सनातनः ।
यं पूर्वे चानुसन्तस्थुर् यत्-प्रमाणं जनार्दनः
तद् ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् ।
विगर्ह्य यात पाषण्डं दैवं वो यत्र भूत-राट्
भ्प्_04.02.033।0 मैत्रेय उवाच
तस्यैवं वदतः शापं भृगोः स भगवान् भवः ।
निश्चक्राम ततः किञ्चिद् विमना इव सानुगः
ते ऽपि विश्व-सृजः सत्रं सहस्र-परिवत्सरान् ।
संविधाय महेष्वास यत्रेज्य ऋषभो हरिः
आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता ।
विरजेनात्मना सर्वे स्वं स्वं धाम ययुस् ततः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0