भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 04.01

04.01.001

भ्प्_04.01.001।0 मैत्रेय उवाच
मनोस् तु शतरूपायां तिस्रः कन्याश् च जज्ञिरे ।
आकूतिर् देवहूतिश् च प्रसूतिर् इति विश्रुताः

04.01.002

आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः ।
पुत्रिका-धर्मम् आश्रित्य शतरूपानुमोदितः

04.01.003

प्रजापतिः स भगवान् रुचिस् तस्याम् अजीजनत् ।
मिथुनं ब्रह्म-वर्चस्वी परमेण समाधिना

04.01.004

यस् तयोः पुरुषः साक्षाद् विष्णुर् यज्ञ-स्वरूप-धृक् ।
या स्त्री सा दक्षिणा भूतेर् अंश-भूतानपायिनी

04.01.005

आनिन्ये स्व-गृहं पुत्र्याः पुत्रं वितत-रोचिषम् ।
स्वायम्भुवो मुदा युक्तो रुचिर् जग्राह दक्षिणाम्

04.01.006

तां कामयानां भगवान् उवाह यजुषां पतिः ।
तुष्टायां तोषम् आपन्नो ऽ जनयद् द्वादशात्मजान्

04.01.007

तोषः प्रतोषः सन्तोषो भद्रः शान्तिर् इडस्पतिः ।
इध्मः कविर् विभुः स्वह्नः सुदेवो रोचनो द्वि-षट्

04.01.008

तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे ।
मरीचि-मिश्रा ऋषयो यज्ञः सुर-गणेश्वरः

04.01.009

प्रियव्रतोत्तानपादौ मनु-पुत्रौ महौजसौ ।
तत्-पुत्र-पौत्र-नप्तॄणाम् अनुवृत्तं तद्-अन्तरम्

04.01.010

देवहूतिम् अदात् तात कर्दमायात्मजां मनुः ।
तत्-सम्बन्धि श्रुत-प्रायं भवता गदतो मम

04.01.011

दक्षाय ब्रह्म-पुत्राय प्रसूतिं भगवान् मनुः ।
प्रायच्छद् यत्-कृतः सर्गस् त्रि-लोक्यां विततो महान्

04.01.012

याः कर्दम-सुताः प्रोक्ता नव ब्रह्मर्षि-पत्नयः ।
तासां प्रसूति-प्रसवं प्रोच्यमानं निबोध मे

04.01.013

पत्नी मरीचेस् तु कला सुषुवे कर्दमात्मजा ।
कश्यपं पूर्णिमानं च ययोर् आपूरितं जगत्

04.01.014

पूर्णिमासूत विरजं विश्वगं च परन्तप ।
देवकुल्यां हरेः पाद- शौचाद् याभूत् सरिद् दिवः

04.01.015

अत्रेः पत्न्य् अनसूया त्रीञ् जज्ञे सुयशसः सुतान् ।
दत्तं दुर्वाससं सोमम् आत्मेश-ब्रह्म-सम्भवान्

04.01.016

भ्प्_04.01.016।0 विदुर उवाच
अत्रेर् गृहे सुर-श्रेष्ठाः स्थित्य्-उत्पत्त्य्-अन्त-हेतवः ।
किञ्चिच् चिकीर्षवो जाता एतद् आख्याहि मे गुरो

04.01.017

भ्प्_04.01.017।0 मैत्रेय उवाच
ब्रह्मणा चोदितः सृष्टाव् अत्रिर् ब्रह्म-विदां वरः ।
सह पत्न्या ययाव् ऋक्षं कुलाद्रिं तपसि स्थितः

04.01.018

तस्मिन् प्रसून-स्तबक- पलाशाशोक-कानने ।
वार्भिः स्रवद्भिर् उद्घुष्टे निर्विन्ध्यायाः समन्ततः

04.01.019

प्राणायामेन संयम्य मनो वर्ष-शतं मुनिः ।
अतिष्ठद् एक-पादेन निर्द्वन्द्वो ऽनिल-भोजनः

04.01.020

शरणं तं प्रपद्ये ऽहं य एव जगद्-ईश्वरः ।
प्रजाम् आत्म-समां मह्यं प्रयच्छत्व् इति चिन्तयन्

04.01.021

तप्यमानं त्रि-भुवनं प्राणायामैधसाग्निना ।
निर्गतेन मुनेर् मूर्ध्नः समीक्ष्य प्रभवस् त्रयः

04.01.022

अप्सरो-मुनि-गन्धर्व- सिद्ध-विद्याधरोरगैः ।
वितायमान-यशसस् तद्-आश्रम-पदं ययुः

04.01.023

तत्-प्रादुर्भाव-संयोग- विद्योतित-मना मुनिः ।
उत्तिष्ठन्न् एक-पादेन ददर्श विबुधर्षभान्

04.01.024

प्रणम्य दण्डवद् भूमाव् उपतस्थे ऽर्हणाञ्जलिः ।
वृष-हंस-सुपर्ण-स्थान् स्वैः स्वैश् चिह्नैश् च चिह्नितान्

04.01.025

कृपावलोकेन हसद्- वदनेनोपलम्भितान् ।
तद्-रोचिषा प्रतिहते निमील्य मुनिर् अक्षिणी

04.01.026

चेतस् तत्-प्रवणं युञ्जन्न् अस्तावीत् संहताञ्जलिः ।
श्लक्ष्णया सूक्तया वाचा सर्व-लोक-गरीयसः

04.01.029

भ्प्_04.01.027।0 अत्रिर् उवाच
विश्वोद्भव-स्थिति-लयेषु विभज्यमानैर् $ माया-गुणैर् अनुयुगं विगृहीत-देहाः &
विश्वोद्भव-स्थिति-लयेषु विभज्यमानैर् $ माया-गुणैर् अनुयुगं विगृहीत-देहाः &
ते ब्रह्म-विष्णु-गिरिशाः प्रणतो ऽस्म्य् अहं वस् % तेभ्यः क एव भवतां म इहोपहूतः ॥ भ्प्_04.01.027* ॥
एको मयेह भगवान् विविध-प्रधानैश् $ चित्ती-कृतः प्रजननाय कथं नु यूयम् &
एको मयेह भगवान् विविध-प्रधानैश् $ चित्ती-कृतः प्रजननाय कथं नु यूयम् &
अत्रागतास् तनु-भृतां मनसो ऽपि दूराद् % ब्रूत प्रसीदत महान् इह विस्मयो मे ॥ भ्प्_04.01.028*
0 मैत्रेय उवाच
इति तस्य वचः श्रुत्वा त्रयस् ते विबुधर्षभाः ।
प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तम् ऋषिं प्रभो

04.01.030

भ्प्_04.01.030।0 देवा ऊचुः
यथा कृतस् ते सङ्कल्पो भाव्यं तेनैव नान्यथा ।
सत्-सङ्कल्पस्य ते ब्रह्मन् यद् वै ध्यायति ते वयम्

04.01.031

अथास्मद्-अंश-भूतास् ते आत्मजा लोक-विश्रुताः ।
भवितारो ऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः

04.01.032

एवं काम-वरं दत्त्वा प्रतिजग्मुः सुरेश्वराः ।
सभाजितास् तयोः सम्यग् दम्पत्योर् मिषतोस् ततः

04.01.033

सोमो ऽभूद् ब्रह्मणो ऽंशेन दत्तो विष्णोस् तु योगवित् ।
दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः

04.01.034

श्रद्धा त्व् अङ्गिरसः पत्नी चतस्रो ऽसूत कन्यकाः ।
सिनीवाली कुहू राका चतुर्थ्य् अनुमतिस् तथा

04.01.035

तत्-पुत्राव् अपराव् आस्तां ख्यातौ स्वारोचिषे ऽन्तरे ।
उतथ्यो भगवान् साक्षाद् ब्रह्मिष्ठश् च बृहस्पतिः

04.01.036

पुलस्त्यो ऽजनयत् पत्न्याम् अगस्त्यं च हविर्भुवि ।
सो ऽन्य-जन्मनि दह्राग्निर् विश्रवाश् च महा-तपाः

04.01.037

तस्य यक्ष-पतिर् देवः कुबेरस् त्व् इडविडा-सुतः ।
रावणः कुम्भकर्णश् च तथान्यस्यां विभीषणः

04.01.038

पुलहस्य गतिर् भार्या त्रीन् असूत सती सुतान् ।
कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महा-मते

04.01.039

क्रतोर् अपि क्रिया भार्या वालखिल्यान् असूयत ।
ऋषीन् षष्टि-सहस्राणि ज्वलतो ब्रह्म-तेजसा

04.01.040

ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप ।
चित्रकेतु-प्रधानास् ते सप्त ब्रह्मर्षयो ऽमलाः

04.01.041

चित्रकेतुः सुरोचिश् च विरजा मित्र एव च ।
उल्बणो वसुभृद्यानो द्युमान् शक्त्य्-आदयो ऽपरे

04.01.042

चित्तिस् त्व् अथर्वणः पत्नी लेभे पुत्रं धृत-व्रतम् ।
दध्यञ्चम् अश्वशिरसं भृगोर् वंशं निबोध मे

04.01.043

भृगुः ख्यात्यां महा-भागः पत्न्यां पुत्रान् अजीजनत् ।
धातारं च विधातारं श्रियं च भगवत्-पराम्

04.01.044

आयतिं नियतिं चैव सुते मेरुस् तयोर् अदात् ।
ताभ्यां तयोर् अभवतां मृकण्डः प्राण एव च

04.01.045

मार्कण्डेयो मृकण्डस्य प्राणाद् वेदशिरा मुनिः ।
कविश् च भार्गवो यस्य भगवान् उशना सुतः

04.01.046

त एते मुनयः क्षत्तर् लोकान् सर्गैर् अभावयन् ।
एष कर्दम-दौहित्र- सन्तानः कथितस् तव ।
शृण्वतः श्रद्दधानस्य सद्यः पाप-हरः परः

04.01.047

प्रसूतिं मानवीं दक्ष उपयेमे ह्य् अजात्मजः ।
तस्यां ससर्ज दुहितॄः षोडशामल-लोचनाः

04.01.048

त्रयोदशादाद् धर्माय तथैकाम् अग्नये विभुः ।
पितृभ्य एकां युक्तेभ्यो भवायैकां भव-च्छिदे

04.01.049

श्रद्धा मैत्री दया शान्तिस् तुष्टिः पुष्टिः क्रियोन्नतिः ।
बुद्धिर् मेधा तितिक्षा ह्रीर् मूर्तिर् धर्मस्य पत्नयः

04.01.050

श्रद्धासूत शुभं मैत्री प्रसादम् अभयं दया ।
शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिर् असूयत

04.01.051

योगं क्रियोन्नतिर् दर्पम् अर्थं बुद्धिर् असूयत ।
मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम्

04.01.052

मूर्तिः सर्व-गुणोत्पत्तिर् नर-नारायणाव् ऋषी

04.01.053

ययोर् जन्मन्य् अदो विश्वम् अभ्यनन्दत् सुनिर्वृतम् ।
मनांसि ककुभो वाताः प्रसेदुः सरितो ऽद्रयः

04.01.054

दिव्य् अवाद्यन्त तूर्याणि पेतुः कुसुम-वृष्टयः ।
मुनयस् तुष्टुवुस् तुष्टा जगुर् गन्धर्व-किन्नराः

04.01.055

नृत्यन्ति स्म स्त्रियो देव्य आसीत् परम-मङ्गलम् ।
देवा ब्रह्मादयः सर्वे उपतस्थुर् अभिष्टवैः

04.01.058

भ्प्_04.01.056।0 देवा ऊचुः
यो मायया विरचितं निजयात्मनीदं $ खे रूप-भेदम् इव तत्-प्रतिचक्षणाय &
यो मायया विरचितं निजयात्मनीदं $ खे रूप-भेदम् इव तत्-प्रतिचक्षणाय &
एतेन धर्म-सदने ऋषि-मूर्तिनाद्य % प्रादुश्चकार पुरुषाय नमः परस्मै ॥ भ्प्_04.01.056* ॥
सो ऽयं स्थिति-व्यतिकरोपशमाय सृष्टान् $ सत्त्वेन नः सुर-गणान् अनुमेय-तत्त्वः &
सो ऽयं स्थिति-व्यतिकरोपशमाय सृष्टान् $ सत्त्वेन नः सुर-गणान् अनुमेय-तत्त्वः &
दृश्याद् अदभ्र-करुणेन विलोकनेन % यच् छ्री-निकेतम् अमलं क्षिपतारविन्दम् ॥ भ्प्_04.01.057* ॥
एवं सुर-गणैस् तात भगवन्ताव् अभिष्टुतौ ।
लब्धावलोकैर् ययतुर् अर्चितौ गन्धमादनम्

04.01.059

ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ ।
भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ

04.01.060

स्वाहाभिमानिनश् चाग्नेर् आत्मजांस् त्रीन् अजीजनत् ।
पावकं पवमानं च शुचिं च हुत-भोजनम्

04.01.061

तेभ्यो ऽग्नयः समभवन् चत्वारिंशच् च पञ्च च ।
त एवैकोनपञ्चाशत् साकं पितृ-पितामहैः

04.01.062

वैतानिके कर्मणि यन्- नामभिर् ब्रह्म-वादिभिः ।
आग्नेय्य इष्टयो यज्ञे निरूप्यन्ते ऽग्नयस् तु ते

04.01.063

अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः ।
साग्नयो ऽनग्नयस् तेषां पत्नी दाक्षायणी स्वधा

04.01.064

तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा ।
उभे ते ब्रह्म-वादिन्यौ ज्ञान-विज्ञान-पारगे

04.01.065

भवस्य पत्नी तु सती भवं देवम् अनुव्रता ।
आत्मनः सदृशं पुत्रं न लेभे गुण-शीलतः

04.01.066

पितर्य् अप्रतिरूपे स्वे भवायानागसे रुषा ।
अप्रौढैवात्मनात्मानम् अजहाद् योग-संयुता

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc