भागवत पुराण · अध्याय 03.33
भ्प्_03.33.001।0 मैत्रेय उवाच
एवं निशम्य कपिलस्य वचो जनित्रीसा कर्दमस्य दयिता किल देवहूतिः ।
विस्रस्त-मोह-पटला तम् अभिप्रणम्यतुष्टाव तत्त्व-विषयाङ्कित-सिद्धि-भूमिम्
भ्प्_03.33.002।0 देवहूतिर् उवाच
अथाप्य् अजो ऽन्तः-सलिले शयानं भूतेन्द्रियार्थात्म-मयं वपुस् ते ।
गुण-प्रवाहं सद्-अशेष-बीजं दध्यौ स्वयं यज्-जठराब्ज-जातः
स एव विश्वस्य भवान् विधत्ते गुण-प्रवाहेण विभक्त-वीर्यः ।
सर्गाद्य् अनीहो ऽवितथाभिसन्धिर् आत्मेश्वरो ऽतर्क्य-सहस्र-शक्तिः
स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतद् आसीत् ।
विश्वं युगान्ते वट-पत्र एकः शेते स्म माया-शिशुर् अङ्घ्रि-पानः
त्वं देह-तन्त्रः प्रशमाय पाप्मनां निदेश-भाजां च विभो विभूतये ।
यथावतारास् तव सूकरादयस् तथायम् अप्य् आत्म-पथोपलब्धये
यन्-नामधेय-श्रवणानुकीर्तनाद् यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् ।
श्वादो ऽपि सद्यः सवनाय कल्पते कुतः पुनस् ते भगवन् नु दर्शनात्
अहो बत श्व-पचो ऽतो गरीयान् यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या ब्रह्मानूचुर् नाम गृणन्ति ये ते
तं त्वाम् अहं ब्रह्म परं पुमांसं प्रत्यक्-स्रोतस्य् आत्मनि संविभाव्यम् ।
स्व-तेजसा ध्वस्त-गुण-प्रवाहं वन्दे विष्णुं कपिलं वेद-गर्भम्
भ्प्_03.33.009।0 मैत्रेय उवाच
ईडितो भगवान् एवं कपिलाख्यः परः पुमान् ।
वाचाविक्लवयेत्य् आह मातरं मातृ-वत्सलः
भ्प्_03.33.010।0 कपिल उवाच
मार्गेणानेन मातस् ते सुसेव्येनोदितेन मे ।
आस्थितेन परां काष्ठाम् अचिराद् अवरोत्स्यसि
श्रद्धत्स्वैतन् मतं मह्यं जुष्टं यद् ब्रह्म-वादिभिः ।
येन माम् अभयं याया मृत्युम् ऋच्छन्त्य् अतद्-विदः
भ्प्_03.33.012।0 मैत्रेय उवाच
इति प्रदर्श्य भगवान् सतीं ताम् आत्मनो गतिम् ।
स्व-मात्रा ब्रह्म-वादिन्या कपिलो ऽनुमतो ययौ
सा चापि तनयोक्तेन योगादेशेन योग-युक् ।
तस्मिन्न् आश्रम आपीडे सरस्वत्याः समाहिता
अभीक्ष्णावगाह-कपिशान् जटिलान् कुटिलालकान् ।
आत्मानं चोग्र-तपसा बिभ्रती चीरिणं कृशम्
प्रजापतेः कर्दमस्य तपो-योग-विजृम्भितम् ।
स्व-गार्हस्थ्यम् अनौपम्यं प्रार्थ्यं वैमानिकैर् अपि
पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः ।
आसनानि च हैमानि सुस्पर्शास्तरणानि च
स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च ।
रत्न-प्रदीपा आभान्ति ललना रत्न-संयुताः
गृहोद्यानं कुसुमितै रम्यं बह्व्-अमर-द्रुमैः ।
कूजद्-विहङ्ग-मिथुनं गायन्-मत्त-मधुव्रतम्
यत्र प्रविष्टम् आत्मानं विबुधानुचरा जगुः ।
वाप्याम् उत्पल-गन्धिन्यां कर्दमेनोपलालितम्
हित्वा तद् ईप्सिततमम् अप्य् आखण्डल-योषिताम् ।
किञ्चिच् चकार वदनं पुत्र-विश्लेषणातुरा
वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा ।
ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला
तम् एव ध्यायती देवम् अपत्यं कपिलं हरिम् ।
बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे
ध्यायती भगवद्-रूपं यद् आह ध्यान-गोचरम् ।
सुतः प्रसन्न-वदनं समस्त-व्यस्त-चिन्तया
भक्ति-प्रवाह-योगेन वैराग्येण बलीयसा ।
युक्तानुष्ठान-जातेन ज्ञानेन ब्रह्म-हेतुना
विशुद्धेन तदात्मानम् आत्मना विश्वतो-मुखम् ।
स्वानुभूत्या तिरोभूत- माया-गुण-विशेषणम्
ब्रह्मण्य् अवस्थित-मतिर् भगवत्य् आत्म-संश्रये ।
निवृत्त-जीवापत्तित्वात् क्षीण-क्लेशाप्त-निर्वृतिः
नित्यारूढ-समाधित्वात् परावृत्त-गुण-भ्रमा ।
न सस्मार तदात्मानं स्वप्ने दृष्टम् इवोत्थितः
तद्-देहः परतः पोषो ऽप्य् अकृशश् चाध्य्-असम्भवात् ।
बभौ मलैर् अवच्छन्नः सधूम इव पावकः
स्वाङ्गं तपो-योगमयं मुक्त-केशं गताम्बरम् ।
दैव-गुप्तं न बुबुधे वासुदेव-प्रविष्ट-धीः
एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् ।
आत्मानं ब्रह्म-निर्वाणं भगवन्तम् अवाप ह
तद् वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्य-विश्रुतम् ।
नाम्ना सिद्ध-पदं यत्र सा संसिद्धिम् उपेयुषी
तस्यास् तद् योग-विधुत- मार्त्यं मर्त्यम् अभूत् सरित् ।
स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्ध-सेविता
कपिलो ऽपि महा-योगी भगवान् पितुर् आश्रमात् ।
मातरं समनुज्ञाप्य प्राग्-उदीचीं दिशं ययौ
सिद्ध-चारण-गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः ।
स्तूयमानः समुद्रेण दत्तार्हण-निकेतनः
आस्ते योगं समास्थाय साङ्ख्याचार्यैर् अभिष्टुतः ।
त्रयाणाम् अपि लोकानाम् उपशान्त्यै समाहितः
एतन् निगदितं तात यत् पृष्टो ऽहं तवानघ ।
कपिलस्य च संवादो देवहूत्याश् च पावनः
य इदम् अनुशृणोति यो ऽभिधत्ते कपिल-मुनेर् मतम् आत्म-योग-गुह्यम् ।
भगवति कृत-धीः सुपर्ण-केताव् उपलभते भगवत्-पदारविन्दम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0