भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.32

03.32.022

भ्प्_03.31.012।0 जन्तुर् उवाच
तस्योपसन्नम् अवितुं जगद् इच्छयात्त- $ नाना-तनोर् भुवि चलच्-चरणारविन्दम् &
तस्योपसन्नम् अवितुं जगद् इच्छयात्त- $ नाना-तनोर् भुवि चलच्-चरणारविन्दम् &
सो ऽहं व्रजामि शरणं ह्य् अकुतो-भयं मे % येनेदृशी गतिर् अदर्श्य् असतो ऽनुरूपा ॥ भ्प्_03.31.012* ॥
यस् त्व् अत्र बद्ध इव कर्मभिर् आवृतात्मा $ भूतेन्द्रियाशयमयीम् अवलम्ब्य मायाम् &
यस् त्व् अत्र बद्ध इव कर्मभिर् आवृतात्मा $ भूतेन्द्रियाशयमयीम् अवलम्ब्य मायाम् &
आस्ते विशुद्धम् अविकारम् अखण्ड-बोधम् % आतप्यमान-हृदये ऽवसितं नमामि ॥ भ्प्_03.31.013* ॥
यः पञ्च-भूत-रचिते रहितः शरीरे $ च्छन्नो ऽयथेन्द्रिय-गुणार्थ-चिद्-आत्मको ऽहम् &
यः पञ्च-भूत-रचिते रहितः शरीरे $ च्छन्नो ऽयथेन्द्रिय-गुणार्थ-चिद्-आत्मको ऽहम् &
तेनाविकुण्ठ-महिमानम् ऋषिं तम् एनं % वन्दे परं प्रकृति-पूरुषयोः पुमांसम् ॥ भ्प्_03.31.014* ॥
यन्-माययोरु-गुण-कर्म-निबन्धने ऽस्मिन् $ सांसारिके पथि चरंस् तद्-अभिश्रमेण &
यन्-माययोरु-गुण-कर्म-निबन्धने ऽस्मिन् $ सांसारिके पथि चरंस् तद्-अभिश्रमेण &
नष्ट-स्मृतिः पुनर् अयं प्रवृणीत लोकं % युक्त्या कया महद्-अनुग्रहम् अन्तरेण ॥ भ्प्_03.31.015* ॥
ज्ञानं यद् एतद् अदधात् कतमः स देवस् $ त्रै-कालिकं स्थिर-चरेष्व् अनुवर्तितांशः &
ज्ञानं यद् एतद् अदधात् कतमः स देवस् $ त्रै-कालिकं स्थिर-चरेष्व् अनुवर्तितांशः &
तं जीव-कर्म-पदवीम् अनुवर्तमानास् % ताप-त्रयोपशमनाय वयं भजेम ॥ भ्प्_03.31.016* ॥
देह्य् अन्य-देह-विवरे जठराग्निनासृग्- $ विण्-मूत्र-कूप-पतितो भृश-तप्त-देहः &
देह्य् अन्य-देह-विवरे जठराग्निनासृग्- $ विण्-मूत्र-कूप-पतितो भृश-तप्त-देहः &
इच्छन्न् इतो विवसितुं गणयन् स्व-मासान् % निर्वास्यते कृपण-धीर् भगवन् कदा नु ॥ भ्प्_03.31.017* ॥
येनेदृशीं गतिम् असौ दश-मास्य ईश $ सङ्ग्राहितः पुरु-दयेन भवादृशेन &
येनेदृशीं गतिम् असौ दश-मास्य ईश $ सङ्ग्राहितः पुरु-दयेन भवादृशेन &
स्वेनैव तुष्यतु कृतेन स दीन-नाथः % को नाम तत्-प्रति विनाञ्जलिम् अस्य कुर्यात् ॥ भ्प्_03.31.018* ॥
पश्यत्य् अयं धिषणया ननु सप्त-वध्रिः $ शारीरके दम-शरीर्य् अपरः स्व-देहे &
पश्यत्य् अयं धिषणया ननु सप्त-वध्रिः $ शारीरके दम-शरीर्य् अपरः स्व-देहे &
यत्-सृष्टयासं तम् अहं पुरुषं पुराणं % पश्ये बहिर् हृदि च चैत्यम् इव प्रतीतम् ॥ भ्प्_03.31.019* ॥
सो ऽहं वसन्न् अपि विभो बहु-दुःख-वासं $ गर्भान् न निर्जिगमिषे बहिर् अन्ध-कूपे &
सो ऽहं वसन्न् अपि विभो बहु-दुःख-वासं $ गर्भान् न निर्जिगमिषे बहिर् अन्ध-कूपे &
यत्रोपयातम् उपसर्पति देव-माया % मिथ्या मतिर् यद्-अनु संसृति-चक्रम् एतत् ॥ भ्प्_03.31.020* ॥
तस्माद् अहं विगत-विक्लव उद्धरिष्य $ आत्मानम् आशु तमसः सुहृदात्मनैव &
तस्माद् अहं विगत-विक्लव उद्धरिष्य $ आत्मानम् आशु तमसः सुहृदात्मनैव &
भूयो यथा व्यसनम् एतद् अनेक-रन्ध्रं % मा मे भविष्यद् उपसादित-विष्णु-पादः ॥ भ्प्_03.31.021*
0 कपिल उवाच
एवं कृत-मतिर् गर्भे दश-मास्यः स्तुवन्न् ऋषिः ।
सद्यः क्षिपत्य् अवाचीनं प्रसूत्यै सूति-मारुतः

03.32.023

तेनावसृष्टः सहसा कृत्वावाक् शिर आतुरः ।
विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हत-स्मृतिः

03.32.024

पतितो भुव्य् असृङ्-मिश्रः विष्ठा-भूर् इव चेष्टते ।
रोरूयति गते ज्ञाने विपरीतां गतिं गतः

03.32.025

पर-च्छन्दं न विदुषा पुष्यमाणो जनेन सः ।
अनभिप्रेतम् आपन्नः प्रत्याख्यातुम् अनीश्वरः

03.32.026

शायितो ऽशुचि-पर्यङ्के जन्तुः स्वेदज-दूषिते ।
नेशः कण्डूयने ऽङ्गानाम् आसनोत्थान-चेष्टने

03.32.027

तुदन्त्य् आम-त्वचं दंशा मशका मत्कुणादयः ।
रुदन्तं विगत-ज्ञानं कृमयः कृमिकं यथा

03.32.028

इत्य् एवं शैशवं भुक्त्वा दुःखं पौगण्डम् एव च ।
अलब्धाभीप्सितो ऽज्ञानाद् इद्ध-मन्युः शुचार्पितः

03.32.029

सह देहेन मानेन वर्धमानेन मन्युना ।
करोति विग्रहं कामी कामिष्व् अन्ताय चात्मनः

03.32.030

भूतैः पञ्चभिर् आरब्धे देहे देह्य् अबुधो ऽसकृत् ।
अहं ममेत्य् असद्-ग्राहः करोति कुमतिर् मतिम्

03.32.031

तद्-अर्थं कुरुते कर्म यद्-बद्धो याति संसृतिम् ।
यो ऽनुयाति ददत् क्लेशम् अविद्या-कर्म-बन्धनः

03.32.032

यद्य् असद्भिः पथि पुनः शिश्नोदर-कृतोद्यमैः ।
आस्थितो रमते जन्तुस् तमो विशति पूर्ववत्

03.32.033

सत्यं शौचं दया मौनं बुद्धिः श्रीर् ह्रीर् यशः क्षमा ।
शमो दमो भगश् चेति यत्-सङ्गाद् याति सङ्क्षयम्

03.32.034

तेष्व् अशान्तेषु मूढेषु खण्डितात्मस्व् असाधुषु ।
सङ्गं न कुर्याच् छोच्येषु योषित्-क्रीडा-मृगेषु च

03.32.035

न तथास्य भवेन् मोहो बन्धश् चान्य-प्रसङ्गतः ।
योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः

03.32.036

प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्-रूप-धर्षितः ।
रोहिद्-भूतां सो ऽन्वधावद् ऋक्ष-रूपी हत-त्रपः

03.32.037

तत्-सृष्ट-सृष्ट-सृष्टेषु को न्व् अखण्डित-धीः पुमान् ।
ऋषिं नारायणम् ऋते योषिन्-मय्येह मायया

03.32.038

बलं मे पश्य मायायाः स्त्री-मय्या जयिनो दिशाम् ।
या करोति पदाक्रान्तान् भ्रूवि-जृम्भेण केवलम्

03.32.039

सङ्गं न कुर्यात् प्रमदासु जातु योगस्य पारं परम् आरुरुक्षुः ।
मत्-सेवया प्रतिलब्धात्म-लाभो वदन्ति या निरय-द्वारम् अस्य

03.32.040

योपयाति शनैर् माया योषिद् देव-विनिर्मिता ।
ताम् ईक्षेतात्मनो मृत्युं तृणैः कूपम् इवावृतम्

03.32.041

यां मन्यते पतिं मोहान् मन्-मायाम् ऋषभायतीम् ।
स्त्रीत्वं स्त्री-सङ्गतः प्राप्तो वित्तापत्य-गृह-प्रदम्

03.32.042

ताम् आत्मनो विजानीयात् पत्य्-अपत्य-गृहात्मकम् ।
दैवोपसादितं मृत्युं मृगयोर् गायनं यथा

03.32.043

देहेन जीव-भूतेन लोकाल् लोकम् अनुव्रजन् ।
भुञ्जान एव कर्माणि करोत्य् अविरतं पुमान्

03.32.044

जीवो ह्य् अस्यानुगो देहो भूतेन्द्रिय-मनो-मयः ।
तन्-निरोधो ऽस्य मरणम् आविर्भावस् तु सम्भवः

03.32.045

द्रव्योपलब्धि-स्थानस्य द्रव्येक्षायोग्यता यदा ।
तत् पञ्चत्वम् अहं-मानाद् उत्पत्तिर् द्रव्य-दर्शनम्

03.32.046

यथाक्ष्णोर् द्रव्यावयव- दर्शनायोग्यता यदा ।
तदैव चक्षुषो द्रष्टुर् द्रष्टृत्वायोग्यतानयोः

03.32.047

तस्मान् न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः ।
बुद्ध्वा जीव-गतिं धीरो मुक्त-सङ्गश् चरेद् इह

03.32.048

सम्यग्-दर्शनया बुद्ध्या योग-वैराग्य-युक्तया ।
माया-विरचिते लोके चरेन् न्यस्य कलेवरम्

03.32.001

भ्प्_03.32.001।0 कपिल उवाच
अथ यो गृह-मेधीयान् धर्मान् एवावसन् गृहे ।
कामम् अर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान्

03.32.002

स चापि भगवद्-धर्मात् काम-मूढः पराङ्-मुखः ।
यजते क्रतुभिर् देवान् पित्-ंश् च श्रद्धयान्वितः

03.32.003

तच्-छ्रद्धयाक्रान्त-मतिः पितृ-देव-व्रतः पुमान् ।
गत्वा चान्द्रमसं लोकं सोम-पाः पुनर् एष्यति

03.32.004

यदा चाहीन्द्र-शय्यायां शेते ऽनन्तासनो हरिः ।
तदा लोका लयं यान्ति त एते गृह-मेधिनाम्

03.32.005

ये स्व-धर्मान् न दुह्यन्ति धीराः कामार्थ-हेतवे ।
निःसङ्गा न्यस्त-कर्माणः प्रशान्ताः शुद्ध-चेतसः

03.32.006

निवृत्ति-धर्म-निरता निर्ममा निरहङ्कृताः ।
स्व-धर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा

03.32.007

सूर्य-द्वारेण ते यान्ति पुरुषं विश्वतो-मुखम् ।
परावरेशं प्रकृतिम् अस्योत्पत्त्य्-अन्त-भावनम्

03.32.008

द्वि-परार्धावसाने यः प्रलयो ब्रह्मणस् तु ते ।
तावद् अध्यासते लोकं परस्य पर-चिन्तकाः

03.32.011

क्ष्माम्भो-ऽनलानिल-वियन्-मन-इन्द्रियार्थ- $ भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः &अम्प्;
अव्याकृतं विशति यर्हि गुण-त्रयात्माकालं % पराख्यम् अनुभूय परः स्वयम्भूः ॥ भ्प्_03.32.009* ॥
एवं परेत्य भगवन्तम् अनुप्रविष्टाये $ योगिनो जित-मरुन्-मनसो विरागाः &
एवं परेत्य भगवन्तम् अनुप्रविष्टाये $ योगिनो जित-मरुन्-मनसो विरागाः &
तेनैव साकम् अमृतं पुरुषं पुराणं % ब्रह्म प्रधानम् उपयान्त्य् अगताभिमानाः ॥ भ्प्_03.32.010* ॥
अथ तं सर्व-भूतानां हृत्-पद्मेषु कृतालयम् ।
श्रुतानुभावं शरणं व्रज भावेन भामिनि

03.32.012

आद्यः स्थिर-चराणां यो वेद-गर्भः सहर्षिभिः ।
योगेश्वरैः कुमाराद्यैः सिद्धैर् योग-प्रवर्तकैः

03.32.013

भेद-दृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ।
कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम्

03.32.014

स संसृत्य पुनः काले कालेनेश्वर-मूर्तिना ।
जाते गुण-व्यतिकरे यथा-पूर्वं प्रजायते

03.32.015

ऐश्वर्यं पारमेष्ठ्यं च ते ऽपि धर्म-विनिर्मितम् ।
निषेव्य पुनर् आयान्ति गुण-व्यतिकरे सति

03.32.016

ये त्व् इहासक्त-मनसः कर्मसु श्रद्धयान्विताः ।
कुर्वन्त्य् अप्रतिषिद्धानि नित्यान्य् अपि च कृत्स्नशः

03.32.017

रजसा कुण्ठ-मनसः कामात्मानो ऽजितेन्द्रियाः ।
पित्-न् यजन्त्य् अनुदिनं गृहेष्व् अभिरताशयाः

03.32.018

त्रै-वर्गिकास् ते पुरुषा विमुखा हरि-मेधसः ।
कथायां कथनीयोरु- विक्रमस्य मधुद्विषः

03.32.019

नूनं दैवेन विहता ये चाच्युत-कथा-सुधाम् ।
हित्वा शृण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः

03.32.020

दक्षिणेन पथार्यम्णः पितृ-लोकं व्रजन्ति ते ।
प्रजाम् अनु प्रजायन्ते श्मशानान्त-क्रिया-कृतः

03.32.021

ततस् ते क्षीण-सुकृताः पुनर् लोकम् इमं सति ।
पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः

03.32.022

तस्मात् त्वं सर्व-भावेन भजस्व परमेष्ठिनम् ।
तद्-गुणाश्रयया भक्त्या भजनीय-पदाम्बुजम्

03.32.023

वासुदेवे भगवति भक्ति-योगः प्रयोजितः ।
जनयत्य् आशु वैराग्यं ज्ञानं यद् ब्रह्म-दर्शनम्

03.32.024

यदास्य चित्तम् अर्थेषु समेष्व् इन्द्रिय-वृत्तिभिः ।
न विगृह्णाति वैषम्यं प्रियम् अप्रियम् इत्य् उत

03.32.025

स तदैवात्मनात्मानं निःसङ्गं सम-दर्शनम् ।
हेयोपादेय-रहितम् आरूढं पदम् ईक्षते

03.32.026

ज्ञान-मात्रं परं ब्रह्म परमात्मेश्वरः पुमान् ।
दृश्य्-आदिभिः पृथग् भावैर् भगवान् एक ईयते

03.32.027

एतावान् एव योगेन समग्रेणेह योगिनः ।
युज्यते ऽभिमतो ह्य् अर्थो यद् असङ्गस् तु कृत्स्नशः

03.32.028

ज्ञानम् एकं पराचीनैर् इन्द्रियैर् ब्रह्म निर्गुणम् ।
अवभात्य् अर्थ-रूपेण भ्रान्त्या शब्दादि-धर्मिणा

03.32.029

यथा महान् अहं-रूपस् त्रि-वृत् पञ्च-विधः स्वराट् ।
एकादश-विधस् तस्य वपुर् अण्डं जगद् यतः

03.32.030

एतद् वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः ।
समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति

03.32.031

इत्य् एतत् कथितं गुर्वि ज्ञानं तद् ब्रह्म-दर्शनम् ।
येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च

03.32.032

ज्ञान-योगश् च मन्-निष्ठो नैर्गुण्यो भक्ति-लक्षणः ।
द्वयोर् अप्य् एक एवार्थो भगवच्-छब्द-लक्षणः

03.32.033

यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः ।
एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः

03.32.034

क्रियया क्रतुभिर् दानैस् तपः-स्वाध्याय-मर्शनैः ।
आत्मेन्द्रिय-जयेनापि सन्न्यासेन च कर्मणाम्

03.32.035

योगेन विविधाङ्गेन भक्ति-योगेन चैव हि ।
धर्मेणोभय-चिह्नेन यः प्रवृत्ति-निवृत्तिमान्

03.32.036

आत्म-तत्त्वावबोधेन वैराग्येण दृढेन च ।
ईयते भगवान् एभिः सगुणो निर्गुणः स्व-दृक्

03.32.037

प्रावोचं भक्ति-योगस्य स्वरूपं ते चतुर्-विधम् ।
कालस्य चाव्यक्त-गतेर् यो ऽन्तर्धावति जन्तुषु

03.32.038

जीवस्य संसृतीर् बह्वीर् अविद्या-कर्म-निर्मिताः ।
यास्व् अङ्ग प्रविशन्न् आत्मा न वेद गतिम् आत्मनः

03.32.039

नैतत् खलायोपदिशेन् नाविनीताय कर्हिचित् ।
न स्तब्धाय न भिन्नाय नैव धर्म-ध्वजाय च

03.32.040

न लोलुपायोपदिशेन् न गृहारूढ-चेतसे ।
नाभक्ताय च मे जातु न मद्-भक्त-द्विषाम् अपि

03.32.041

श्रद्दधानाय भक्ताय विनीतायानसूयवे ।
भूतेषु कृत-मैत्राय शुश्रूषाभिरताय च

03.32.042

बहिर्-जात-विरागाय शान्त-चित्ताय दीयताम् ।
निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः

03.32.043

य इदं शृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् ।
यो वाभिधत्ते मच्-चित्तः स ह्य् एति पदवीं च मे

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc