भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.31

03.31.001

भ्प्_03.30.001।0 श्री-भगवान् उवाच
कर्मणा दैव-नेत्रेण जन्तुर् देहोपपत्तये ।
स्त्रियाः प्रविष्ट उदरं पुंसो रेतः-कणाश्रयः

03.31.002

कललं त्व् एक-रात्रेण पञ्च-रात्रेण बुद्बुदम् ।
दशाहेन तु कर्कन्धूः पेश्य् अण्डं वा ततः परम्

03.31.003

मासेन तु शिरो द्वाभ्यां बाह्व्-अङ्घ्र्य्-आद्य्-अङ्ग-विग्रहः ।
नख-लोमास्थि-चर्माणि लिङ्ग-च्छिद्रोद्भवस् त्रिभिः

03.31.004

चतुर्भिर् धातवः सप्त पञ्चभिः क्षुत्-तृड्-उद्भवः ।
षड्भिर् जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे

03.31.005

मातुर् जग्धान्न-पानाद्यैर् एधद्-धातुर् असम्मते ।
शेते विण्-मूत्रयोर् गर्ते स जन्तुर् जन्तु-सम्भवे

03.31.006

कृमिभिः क्षत-सर्वाङ्गः सौकुमार्यात् प्रतिक्षणम् ।
मूर्च्छाम् आप्नोत्य् उरु-क्लेशस् तत्रत्यैः क्षुधितैर् मुहुः

03.31.007

कटु-तीक्ष्णोष्ण-लवण- रूक्षाम्लादिभिर् उल्बणैः ।
मातृ-भुक्तैर् उपस्पृष्टः सर्वाङ्गोत्थित-वेदनः

03.31.008

उल्बेन संवृतस् तस्मिन्न् अन्त्रैश् च बहिर् आवृतः ।
आस्ते कृत्वा शिरः कुक्षौ भुग्न-पृष्ठ-शिरोधरः

03.31.009

अकल्पः स्वाङ्ग-चेष्टायां शकुन्त इव पञ्जरे ।
तत्र लब्ध-स्मृतिर् दैवात् कर्म जन्म-शतोद्भवम् ।
स्मरन् दीर्घम् अनुच्छ्वासं शर्म किं नाम विन्दते

03.31.010

आरभ्य सप्तमान् मासाल् लब्ध-बोधो ऽपि वेपितः ।
नैकत्रास्ते सूति-वातैर् विष्ठा-भूर् इव सोदरः

03.31.011

नाथमान ऋषिर् भीतः सप्त-वध्रिः कृताञ्जलिः ।
स्तुवीत तं विक्लवया वाचा येनोदरे ऽर्पितः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc