भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 03.24

03.24.001

भ्प्_03.24.001।0 मैत्रेय उवाच
निर्वेद-वादिनीम् एवं मनोर् दुहितरं मुनिः ।
दयालुः शालिनीम् आह शुक्लाभिव्याहृतं स्मरन्

03.24.002

भ्प्_03.24.002।0 ऋषिर् उवाच
मा खिदो राज-पुत्रीत्थम् आत्मानं प्रत्य् अनिन्दिते ।
भगवांस् ते ऽक्षरो गर्भम् अदूरात् सम्प्रपत्स्यते

03.24.003

धृत-व्रतासि भद्रं ते दमेन नियमेन च ।
तपो-द्रविण-दानैश् च श्रद्धया चेश्वरं भज

03.24.004

स त्वयाराधितः शुक्लो वितन्वन् मामकं यशः ।
छेत्ता ते हृदय-ग्रन्थिम् औदर्यो ब्रह्म-भावनः

03.24.005

भ्प्_03.24.005।0 मैत्रेय उवाच
देवहूत्य् अपि सन्देशं गौरवेण प्रजापतेः ।
सम्यक् श्रद्धाय पुरुषं कूट-स्थम् अभजद् गुरुम्

03.24.006

तस्यां बहु-तिथे काले भगवान् मधुसूदनः ।
कार्दमं वीर्यम् आपन्नो जज्ञे ऽग्निर् इव दारुणि

03.24.007

अवादयंस् तदा व्योम्नि वादित्राणि घनाघनाः ।
गायन्ति तं स्म गन्धर्वा नृत्यन्त्य् अप्सरसो मुदा

03.24.008

पेतुः सुमनसो दिव्याः खे-चरैर् अपवर्जिताः ।
प्रसेदुश् च दिशः सर्वा अम्भांसि च मनांसि च

03.24.009

तत् कर्दमाश्रम-पदं सरस्वत्या परिश्रितम् ।
स्वयम्भूः साकम् ऋषिभिर् मरीच्य्-आदिभिर् अभ्ययात्

03.24.010

भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रु-हन् ।
तत्त्व-सङ्ख्यान-विज्ञप्त्यै जातं विद्वान् अजः स्वराट्

03.24.011

सभाजयन् विशुद्धेन चेतसा तच्-चिकीर्षितम् ।
प्रहृष्यमाणैर् असुभिः कर्दमं चेदम् अभ्यधात्

03.24.012

भ्प्_03.24.012।0 ब्रह्मोवाच
त्वया मे ऽपचितिस् तात कल्पिता निर्व्यलीकतः ।
यन् मे सञ्जगृहे वाक्यं भवान् मानद मानयन्

03.24.013

एतावत्य् एव शुश्रूषा कार्या पितरि पुत्रकैः ।
बाढम् इत्य् अनुमन्येत गौरवेण गुरोर् वचः

03.24.014

इमा दुहितरः सत्यस् तव वत्स सुमध्यमाः ।
सर्गम् एतं प्रभावैः स्वैर् बृंहयिष्यन्त्य् अनेकधा

03.24.015

अतस् त्वम् ऋषि-मुख्येभ्यो यथा-शीलं यथा-रुचि ।
आत्मजाः परिदेह्य् अद्य विस्तृणीहि यशो भुवि

03.24.016

वेदाहम् आद्यं पुरुषम् अवतीर्णं स्व-मायया ।
भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने

03.24.017

ज्ञान-विज्ञान-योगेन कर्मणाम् उद्धरन् जटाः ।
हिरण्य-केशः पद्माक्षः पद्म-मुद्रा-पदाम्बुजः

03.24.018

एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः ।
अविद्या-संशय-ग्रन्थिं छित्त्वा गां विचरिष्यति

03.24.019

अयं सिद्ध-गणाधीशः साङ्ख्याचार्यैः सुसम्मतः ।
लोके कपिल इत्य् आख्यां गन्ता ते कीर्ति-वर्धनः

03.24.020

भ्प्_03.24.020।0 मैत्रेय उवाच
ताव् आश्वास्य जगत्-स्रष्टा कुमारैः सह-नारदः ।
हंसो हंसेन यानेन त्रि-धाम-परमं ययौ

03.24.021

गते शत-धृतौ क्षत्तः कर्दमस् तेन चोदितः ।
यथोदितं स्व-दुहित्-ः प्रादाद् विश्व-सृजां ततः

03.24.022

मरीचये कलां प्रादाद् अनसूयाम् अथात्रये ।
श्रद्धाम् अङ्गिरसे ऽयच्छत् पुलस्त्याय हविर्भुवम्

03.24.023

पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ।
ख्यातिं च भृगवे ऽयच्छद् वसिष्ठायाप्य् अरुन्धतीम्

03.24.024

अथर्वणे ऽददाच् छान्तिं यया यज्ञो वितन्यते ।
विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत्

03.24.025

ततस् त ऋषयः क्षत्तः कृत-दारा निमन्त्र्य तम् ।
प्रातिष्ठन् नन्दिम् आपन्नाः स्वं स्वम् आश्रम-मण्डलम्

03.24.026

स चावतीर्णं त्रि-युगम् आज्ञाय विबुधर्षभम् ।
विविक्त उपसङ्गम्य प्रणम्य समभाषत

03.24.027

अहो पापच्यमानानां निरये स्वैर् अमङ्गलैः ।
कालेन भूयसा नूनं प्रसीदन्तीह देवताः

03.24.028

बहु-जन्म-विपक्वेन सम्यग्-योग-समाधिना ।
द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्-पदम्

03.24.029

स एव भगवान् अद्य हेलनं न गणय्य नः ।
गृहेषु जातो ग्राम्याणां यः स्वानां पक्ष-पोषणः

03.24.030

स्वीयं वाक्यम् ऋतं कर्तुम् अवतीर्णो ऽसि मे गृहे ।
चिकीर्षुर् भगवान् ज्ञानं भक्तानां मान-वर्धनः

03.24.031

तान्य् एव ते ऽभिरूपाणि रूपाणि भगवंस् तव ।
यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः

03.24.032

त्वां सूरिभिस् तत्त्व-बुभुत्सयाद्धा सदाभिवादार्हण-पाद-पीठम् ।
ऐश्वर्य-वैराग्य-यशो-ऽवबोध- वीर्य-श्रिया पूर्तम् अहं प्रपद्ये

03.24.033

परं प्रधानं पुरुषं महान्तं कालं कविं त्रि-वृतं लोक-पालम् ।
आत्मानुभूत्यानुगत-प्रपञ्चं स्वच्छन्द-शक्तिं कपिलं प्रपद्ये

03.24.034

अ स्माभिपृच्छे ऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्त-कामः ।
परिव्रजत्-पदवीम् आस्थितो ऽहं चरिष्ये त्वां हृदि युञ्जन् विशोकः

03.24.035

भ्प्_03.24.035।0 श्री-भगवान् उवाच
मया प्रोक्तं हि लोकस्य प्रमाणं सत्य-लौकिके ।
अथाजनि मया तुभ्यं यद् अवोचम् ऋतं मुने

03.24.036

एतन् मे जन्म लोके ऽस्मिन् मुमुक्षूणां दुराशयात् ।
प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्म-दर्शने

03.24.037

एष आत्म-पथो ऽव्यक्तो नष्टः कालेन भूयसा ।
तं प्रवर्तयितुं देहम् इमं विद्धि मया भृतम्

03.24.038

गच्छ कामं मयापृष्टो मयि सन्न्यस्त-कर्मणा ।
जित्वा सुदुर्जयं मृत्युम् अमृतत्वाय मां भज

03.24.039

माम् आत्मानं स्वयं-ज्योतिः सर्व-भूत-गुहाशयम् ।
आत्मन्य् एवात्मना वीक्ष्य विशोको ऽभयम् ऋच्छसि

03.24.040

मात्र आध्यात्मिकीं विद्यां शमनीं सर्व-कर्मणाम् ।
वितरिष्ये यया चासौ भयं चातितरिष्यति

03.24.041

भ्प्_03.24.041।0 मैत्रेय उवाच
एवं समुदितस् तेन कपिलेन प्रजापतिः ।
दक्षिणी-कृत्य तं प्रीतो वनम् एव जगाम ह

03.24.042

व्रतं स आस्थितो मौनम् आत्मैक-शरणो मुनिः ।
निःसङ्गो व्यचरत् क्षोणीम् अनग्निर् अनिकेतनः

03.24.043

मनो ब्रह्मणि युञ्जानो यत् तत् सद्-असतः परम् ।
गुणावभासे विगुण एक-भक्त्यानुभाविते

03.24.044

निरहङ्कृतिर् निर्ममश् च निर्द्वन्द्वः सम-दृक् स्व-दृक् ।
प्रत्यक्-प्रशान्त-धीर् धीरः प्रशान्तोर्मिर् इवोदधिः

03.24.045

वासुदेवे भगवति सर्व-ज्ञे प्रत्यग्-आत्मनि ।
परेण भक्ति-भावेन लब्धात्मा मुक्त-बन्धनः

03.24.046

आत्मानं सर्व-भूतेषु भगवन्तम् अवस्थितम् ।
अपश्यत् सर्व-भूतानि भगवत्य् अपि चात्मनि

03.24.047

इच्छा-द्वेष-विहीनेन सर्वत्र सम-चेतसा ।
भगवद्-भक्ति-युक्तेन प्राप्ता भागवती गतिः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc